संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
पञ्चतलविधिपटलः

अंशुमत्काश्यपागमः - पञ्चतलविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण पंचभूमेस्तु लक्षणम् ।
विस्तारोत्सेधमानं तु प्रोक्तं प्रासादमानके ॥१॥

विस्तारं रुद्रधा भज्य गुणांशं गर्भगेहकम् ।
द्विभागं गृहपिंडी स्यात् आलिन्दं चैकभागया ॥२॥

हारा भागेन कर्तव्या अलीन्द्रं घनभित्ति वा ।
वर्षिकस्थलसंयुक्तं कल्पयेत्प्रस्तरोपरि ॥३॥

धरातले पादमंचोर्ध्वे द्वितीये वा त्रिभूमिके ।
देवतास्थापनं कुर्यात् तावद्देवर्चनी कृतम् ॥४॥

विन्याससूत्रयोरन्ते रुद्रभागविभाजिते ।
शिवांशं कर्णकूटं तु मध्ये कोष्ठं गुणांशकम् ॥५॥

तयोर्मध्यैक भागेन पंजरव्यासमुच्यते ।
हारान्तरमथांशेन कल्पयेत्कल्पवित्तमः ॥६॥

प्. १२०) तदूर्ध्वभूव्यसृतन्नन्द भागं कृत्वांश सौष्टिकम् ।
मध्ये कोष्ठाग्निभागं तु पंजरांशेन मानतः ॥७॥

हारं तारमथार्धांशं कल्पयेत्तु द्वितीयके ।
तदूर्ध्वे भुवने चाष्टभागांशं कर्णकूटकम् ॥८॥

द्विभागं कोष्ठदीर्घं स्यात् भागेन पंजरस्ततः ।
हारान्तरमथार्धांशं कृत्वा लक्षणसंयुतम् ॥९॥

ऊर्ध्वभूमौ रसांशे तु कूटव्यासमथांशकम् ।
शालादीर्घं द्विभागं स्यात् अर्धांशं पंजरस्य तु ॥१०॥

शेषं हारान्तरं ख्यातं लम्बपंजरमेव वा ।
तदूर्ध्वभूमिर्विसृताग्व्यंशं मध्ये दण्डेन निर्गतिः ॥११॥

गृहोच्चं तु षडष्टांशे पादोनाग्नि धरातलम् ।
सार्धपंचांशमंघ्र्युच्चं सार्धद्व्यंशं तु मंचकम् ॥१२॥

सपादपंच भागं तु चरणोदयमीरितम् ।
मंचमानं तु द्व्यर्धांशं पंचांशं चरणायतम् ॥१३॥

पादं द्विभागमंचं स्यात् पादं पादोनपंचकम् ।
द्विभागं प्रस्तरोत्सेधं सार्धवेदांघ्रितुंगकम् ॥१४॥

पादो द्व्यंशकमंचं तु शिवांशं वेदिकोदयम् ।
कर्णं पादोनपक्षांशं सार्धवेदं शिरोदयम् ॥१५॥

द्विभागं स्थूपिमानं तु शान्तिकं भवनं भवेत् ।
सवेदचत्वारिंशत्तु भागं कृत्वा गृहोदयम् ॥१६॥

गुणांशं तलतुंगं तु भूतांशं चरणायतम् ।
प्रस्तरं चाग्निभागं तु पादसार्धयुतं भवेत् ॥१७॥

सपादद्विभागमंचं स्यात् ऊर्ध्वपादयुगं भवेत् ।
सपादद्विभागमंचं स्यात् तलिपं पादाधिकं युगम् ॥१८॥

प्रस्तरोच्चद्विभागेन वेदांशं चरणोदयम् ।
पक्षांशं मंचमानं स्यात् पादसार्धगुणांशकम् ॥१९॥

अध्यर्धं मंचमानं तु व्योमांशं वेदिकोदयम् ।
द्विभागं गलमानं तु सार्ध वेदांशशीर्षकम् ॥२०॥

अध्यर्धं तु शिखामानं पौष्टिकं भवनान्वितम् ।
सदनोच्चं तु षट्त्रिंशत् भागं कृत्वा द्विजोत्तम ! ॥२१॥

अधिष्ठानं द्विभागेन वेदांशं चरणायतम् ।
प्रस्तरोच्च द्विभागेन चतुर्भिः पाददैर्घिकम् ॥२२॥

स त्रिपादशिवांशेन मंचमानं प्रकल्पयेत् ।
सार्धाग्न्यंशं तु तलिपं तदर्धं मंचमानकम् ॥२३॥

स पादाग्न्यंश पादं स्यात् मंचमध्यर्धभागया ।
गुणांशं पाददीर्घं तु सपादांशं तु प्रस्तरम् ॥२४॥

एकांशं वेदिकामानं पादोन द्व्यंशकं गलम् ।
सपादाग्न्यंश शिखरं शेषं स्थूप्युदयं भवेत् ॥२५॥

जयदं भवनं ह्येवं कल्पयेत्कल्पवित्तमः ।
विमानोत्सेधं विभजेत् त्रयस्त्रिंशति भागया ॥२६॥

द्विभागं धरणीमानं वेदांशं चरणायतम् ।
प्रस्तरोच्चं द्विभागेन सार्धवह्न्यंशकांघ्रियम् ॥२७॥

प्रस्तरं पादरहितं द्विभागेन विधीयते ।
त्रिभागं चरणायामं तदूर्ध्वं मंचमानकम् ॥२८॥

सार्धद्विभागं पादोच्चं सपादांशेन मंचकम् ।
स्तंभं पादाधिकं द्व्यंशं मंचमानं सपादकम् ॥२९॥

व्योमांशं वेदिकामानं द्वियंशं गलमानकम् ।
सार्धत्रिपादशिखरं द्विभागं स्थूपि मानकम् ॥३०॥

अद्भुतं सदनं ह्येवं कल्पयेद्देव तार्हकम् ।
चतुर्विंशति भागं तु कृत्वा तु सदनोदयम् ॥३१॥

अध्यर्धांशं तलोत्सेधं गुणांशं पादमानकम् ।
तदर्धं मंचमानं तु पादं पादोनकं गुणम् ॥३२॥

तस्यार्धं प्रस्तरोत्सेधं द्व्यर्धं पादोदयं भवेत् ।
प्रस्तरं तु सपादांशं स्तंभं पादाधिकद्वयम् ॥३३॥

तदर्धं मंचमानं तु सपादद्व्यंशमंघ्रिकम् ।
एकांशं प्रस्तरोत्सेधं अर्धांशं वेदिकोदयम् ॥३४॥

त्रिपादं गलमानं तु पादोनद्व्यंशकं शिरः ।
अष्टांशरहितं व्योमभागं स्थूप्युदयं भवेत् ॥३५॥

सार्वकामिकमेवं तु कर्तव्यं सदनं द्विज ! ।
होमादि स्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् ॥८६॥

कलाशाला कला सौष्टि पंजरं चतुरष्टकम् ।
पादं प्रत्यल्पनास्याढ्यं हारं तन्नासिका द्वयम् ॥३७॥

भद्रनासी चतुष्कं तु शिखरे तु प्रकल्पयेत् ।
क्षुद्रनासी द्वयं कोणे कल्पितं ब्रह्मकान्तकम् ॥३८॥

कूटेष्वन्तरमंचाढ्यं प्राजापत्यमुदाहृतम् ।
तदेव न त कूटं तु कोष्ठोन्नतसमंचकम् ॥३९॥

स्वायंभुवमिदं गेहं सर्वदेवार्हकं परम् ।
तदेव वेदिका कण्ठं शीर्षकं वसुकोणकम् ॥४०॥

भद्रनासी चतुष्कं तु शिखरे तु प्रकल्पयेत् ।
क्षुद्रनासी द्वयं कोणे कल्पितं ब्रह्मकान्तकम् ॥४१॥

कूटास्वन्तरमंचाढ्यं प्राजापत्यमुदाहृतम् ।
तदेव नतकूटं तु कोष्ठोन्नतसमंचकम् ॥४२॥

स्वायंभुवमिदं गेहं सर्वदेवार्हकं परम् ।
तदेव वेदिकाकण्ठं शीर्षकं वसुकोणकम् ॥४३॥

शालामध्येंशमानेन दण्डमानेन निर्गतिः ।
भद्रकान्तमिति ख्यातं कूटकोष्ठौ द्वयौ समौ ॥४४॥

समंचं वा विमंचं वा जनार्दनगृहं भवेत् ।
तदेव कोष्ठमध्ये तु भद्रहीनमथापि वा ॥४५॥

मध्यभद्रयुतं वापि मण्डलं शीर्षकं गलम् ।
अति भद्रमिति ख्यातं सर्वदेवार्हकं परम् ॥४६॥

तदेव कूटकोष्ठं च पंजरं च समंचकम् ।
सोन्नतं सर्वतोभद्रं मम प्रीतिकरं भवेत् ॥४७॥

विमानं कूटकोष्ठं च पंजरं समसूत्रकम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् ॥४८॥

नानालंकारसंयुक्तं युग्मपंजरसंयुतम् ।
शिखरेष्टाल्पनास्याढ्यं महानासी चतुष्टयम् ॥४९॥

विभद्रमिति विख्यातं सर्वदेवप्रियावहम् ।
तदेवाष्टकशालाढ्यं आदिभूमौ द्विभागया ॥५०॥

भानुपंजरसंयुक्तं शेषं प्रागिव कल्पयेत् ।
प्रागुक्त नाममाख्यातं तास्विष्टं परिकल्पयेत् ॥५१॥

पंचभूमिः समाख्याता षट्तलं चाधुना शृणु ।

इत्यंशुमान्काश्यपे पंचतलविधिपटलः (एकत्रिंशः) ॥३१॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP