संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
कल्याणसुन्दरमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - कल्याणसुन्दरमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ कल्याण मूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
ललाटमध्यमाद्वामे वामनेत्रावसानके ॥१॥

वामनासापुटान्ते च हिक्कामध्ये तु लम्बयेत् ।
दक्षिणे नाभि मध्यात्तु देववह्न्यंगुलं तु वा ॥२॥

नीत्वा हिक्कांघ्रिगुल्फस्य मध्ये सूत्रं प्रलम्बयेत् ।
अन्तरं मानसूत्रं च समभंगं यथा तथा ॥३॥

सुस्थितं वामपादं तु दक्षिणं कुंचितं भवेत् ।
दक्षिणे पूर्वहस्तं तु गौरीदक्षिणहस्तधृत् ॥४॥

वरदं वामहस्तं तु परहस्तं द्वये ततः ।
दक्षिणे परशुं वामे परे कृष्णमृगं धृतम् ॥५॥

जटामकुटसंयुक्तं सर्वाभरणभूषितम् ।
देवं प्रवालवर्णाभं देवेशस्य विशेषतः ॥६॥

सस्य श्याम निभा देवीं प्राग्वन्मानादिसंयुता ।
उत्पलं वामहस्ते तु धृता दक्षिणहस्तकम् ॥७॥

शंभोर्हस्तेन संग्राह्य जलालम्बननाश्रितम् ।
पार्वत्यानुगता श्रीभूमिः सर्वाभरणभूषिता ॥८॥

हस्ताभ्यां संस्पृशेदेतौ गौर्यास्तु कटिं द्विज ! ।
देवाग्रे कारयेत्कुण्डे होमकर्म प्रजापतिः ॥९॥

शंभोर्वै स्तनसीमान्तं ब्रह्मणस्योदयं बुधः ।
चतुर्भुजं चतुर्वक्त्रं सर्वाभरणभूषितम् ॥१०॥

कुण्डिकां चाक्षमालां च वामेऽवामेधरो परे ।
स्रुक्स्रुवौ पूर्वहस्ते तु धृतो वामेतरे क्रमात् ॥११॥

उत्तराभिमुखासीनं पद्मपीठे प्रजापतिः ।
प्रागग्रौ देवि देवेशौ देवी देवस्य दक्षिणे ॥१२॥

दक्षिणाभिमुखो विष्णुर्होमस्योत्तरदिक् स्थितः ।
शंभोर्नास्यग्रसीमान्तं श्रेष्ठं हीनं स्तनान्तकम् ॥१३॥

तयोर्मध्येऽष्टभागेन नवधा केशवोदयम् ।
श्यामवर्णं समाभंगं शंखचक्रं परे करे ॥१४॥

हिरण्यकरकेणाषः पूर्वहस्तदयोरपि ।
संग्राह्य वरदे हस्ते दद्यादुदकपूर्वकम् ॥१५॥

अनादि गोत्रसंभूतं तं शिवं परमेश्वरम् ।
आदिगोत्रामिमां गौरीं तथैवाहं ददाम्यहम् ॥१६॥

इत्युक्त्वा वरदे हस्ते भक्त्या दद्योदकं हरिः ।
अष्टलोकेश विद्येशाः सिद्धयक्षगणादयः ॥१७॥

ऋषयश्चैव गन्धर्वा मातरश्चान्य देवताः ।
तत्तच्छक्तिसमोपेता हृदयांजलिसंयुताः ॥१८॥

संभ्रान्तमनसोपेताः संवीक्ष्य परितः स्थिताः ।
एवं कल्याणमूर्तेस्तु अर्धनारीश्वरं तथा ॥१९॥

इत्यंशुमान्काश्यपे कल्याणसुन्दरमूर्तिलक्षणपटलः (एकसप्ततितमः) ॥७१॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP