संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| द्वारलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - द्वारलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत द्वारलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण द्वारविन्यासलक्षणम् ।पादोच्चं दशधा भज्य शुद्धद्वारं नवांशकम् ॥१॥चरणं नवधा भज्यं अष्टांशं द्वारमानकम् ।अथवां घ्रिकतुंगं तु वसुभागविभाजिते ॥२॥सप्तांशं द्वारमानं तु शेषं तु रसभाजिते ।सार्धवह्न्यंशमूर्ध्वे तु भुवंगस्योच्छ्रयं भवेत् ॥३॥पतंगोच्चमधस्तात्तु सार्धद्विभगमुच्यते ।शुद्धद्वारस्य तुंगार्धं शुद्धद्वारस्य विस्तृतम् ॥४॥एकद्वित्रिचतुष्पंच षट्सप्ताष्ट नवांगुलम् ।तुंगार्धादधिकं हीनं तारमेकोन विंशति ॥५॥भेदमेवं त्रिधाख्यातं द्वारतुंगं त्रिधा भवेत् ।सर्वेषामपि हर्म्याणां द्वारं मध्ये तु योजयेत् ॥६॥पादविष्कंभमानं वा सपादं सार्धमेव वा ।द्वारयोगस्य विस्तारं तस्यार्धं धनमुच्यते ॥७॥साष्टांशार्धघनं वाथ त्रिपादं वाथ तदघनम् ।योग तुंगं तु वेदांशे त्येकांशाश्रमयोगतम् ॥८॥गुणांशमूर्ध्वगं ख्यातं बाह्याब्जं क्षेपणान्वितम् ।बाह्याब्जं क्षेपणोपेतं भुवंगतारं च योगवत् ॥९॥पतंगतारे योगस्य तुल्यमब्जविहीनकम् ।भुवंगं च पतंगं च मध्यस्थ बलयान्वितम् ॥१०॥ताम्रजौ वायसौ वाथ वलयौ कीलबन्धितौ ।तद्विस्तारत्रिभागैक शिखायोगे प्रवेशितौ ॥११॥शैलजं च भुवंगादि योगाग्रशिखयान्वितौ ।भुवंगपतंगयोच्छिद्ररग्रयोर्वेशनान्वितौ ॥१२॥एवं दृढीकृतं पश्चात् योगस्थापनमाचरेत् ।सुनक्षत्रे शुभे वारे शुभहोममुहूर्तके ॥१३॥योगन्तु स्थापयेद्विप्र ! शान्तिहोमपुरस्सरम् ।भित्तिव्यासे तु पंचांशे द्वाभ्यां पंचावसानकम् ॥१४॥अभ्यन्तरे तु सप्तांशसीमा योगस्य मध्यमम् ।तद्बाह्येऽभ्यन्तरे चैव योगव्यासो गताश्रितम् ॥१५॥सर्वालंकारसंयुक्तं योगं स्थाप्य दृढीकृतम् ।उभयोः पार्श्वयोः पश्चात् कवाटे योगमाश्रितौ ॥१६॥प्रत्येकमेकपक्षं वा द्वित्रिपक्षमथापि वा ।अन्तस्सरदमैर्विप्र कंवाटं तु दृढीकृतम् ॥७॥यष्टित्रयान्तरावेतौ चोर्ध्वेधस्ता च्छ्रितौ ।स्निग्धसारद्रुमै बाह्याभ्यन्तरे यष्टिबन्धितौ ॥१८॥त्रिपंचसप्तसंख्या वा नवरुद्रत्रयोदश ।पंचसप्तदशैवाथ यष्टिसंख्यैकपार्श्वकम् ॥१९॥तथैवोभयपार्श्वे च लोहकीलैर्दृढीकृतम् ।वामपार्श्वे कवाटे तु योजयेद्वादुपट्टिका ॥२०॥त्रिचतुः पंचमात्रं वा द्वारपट्टिकविस्तृतम् ।तत्त्रिभागैकभागं तु तस्य नीव्रमुदाहृतम् ॥२१॥तन्निव्र द्विगुणं ख्यातं नीव्रं वै तत्कवाटयोः ।कवाटाग्रे च मध्ये च वामपट्टिकपार्श्वयोः ॥२२॥लोहजं वलयोपेता वेतानी कीलबन्धितम् ।लोहजं दारुजं वाथ बाह्याभ्यन्तर यष्टयः ॥२३॥तासां त्रियंगुलं तारं तारार्धं घन संयुतम् ।बध्वा कपाटयोगौ द्वौ दारुलोहैर्दृढीकृतम् ॥२४॥अर्गलादिसमोपेतं घाटनोद्घाटनक्षमम् ।परेषां घाटनोद्घाटयन्त्रमव्यक्तमाचरेत् ॥२५॥प्रासादे मण्टपे चैव गोपुरे चैवमाचरेत् ।द्वारमेवं समाख्यातं कम्पद्वारमतः शृणु ॥२६॥इत्यंशुमान्काश्यपे द्वारलक्षणपटलः (षोडश) ॥१६॥ N/A References : N/A Last Updated : November 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP