संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| सुखासनमूर्तिलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - सुखासनमूर्तिलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत सुखासनमूर्तिलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण सुखासनविधिं परम् ।आर्जवं राजसं भावं भद्रपीठे सुखासनम् ॥१॥वामांघ्रिं शाययेत्पीठे दक्षिणांघ्रिं तु लम्बयेत् ।ऊर्ध्वकायोपरिष्टात्तु सार्धवेदांगुलाधिकम् ॥२॥स्फिक्पिण्डमानमेतद्धि आसनोर्ध्वे विशेषतः ।आसनात्पूर्वकेशान्तं जान्वोर्ध्वे बाह्यावसानकम् ॥३॥जान्वोस्तु पूर्वकेशान्तं जानुबाह्वाग्र बाह्यकम् ।परहस्तद्वयोर्मध्ये बाह्यमभ्यन्तरं भवेत् ॥४॥आसने नवसूत्रोऽस्ति पूर्वसूत्राधुना शृणु ।मौलिमध्ये तु नासाग्रे स्तनान्ते नाभिमध्यमे ॥५॥वामांघ्रिगुल्फमध्ये तु ब्रह्मसूत्रं प्रलम्बयेत् ।सूत्राद्दक्षिणजान्वन्तं एकत्रिंशांगुलं भवेत् ॥६॥अथवा त्रिंशदंगुल्यं एकोनत्रिंशमेव वा ।सूत्रातदंघ्रिनलकात् अन्तरं द्वादशांगुलम् ॥१॥त्रयोदशांगुलं वापि मन्वंगुलमथापि वा ।पीठात्तदंघ्रिपार्ष्ण्योस्तु नीव्रं द्वित्र्यंगुलं तु वा ॥८॥तत्सूत्रादभये हस्ते मध्यरेखावसानकम् ।चतुर्दशांगुलं प्रोक्तं त्वन्तरं तु द्विजोत्तम ! ॥९॥अभये मध्यमांगुल्याग्रान्तं चिबुकोर्ध्व समं भवेत् ।तत्सूत्रात्कटके हस्ते मणिबन्धस्य मध्यमात् ॥१०॥पंचादशांगुलं प्रोक्तं त्वन्तरं तु द्विजोत्तम ! ।ऊरोस्तु मणि बन्धान्तं एकद्वित्र्यंगुलं तु वा ॥११॥कटकं सिंहकर्णं वा तद्धस्तं प्रविधीयते ।तर्जन्यादि कनिष्ठान्तं तत्तन्मूलान्तवर्जि(क्रि?)ता ॥१२॥ईषद्वक्र तदंगुष्ठं एवं स्यात्कटकाकृतिः ।मध्यान्मध्यतलान्तं तु अर्धमर्धान्तनामिका ॥१३॥वक्रो शेषांगुला प्राग्वत् सिंहकर्णमिदं परम् ।हिक्कासूत्रसमं कुर्यात् कर्तर्याग्रे करौ परौ ॥१४॥वक्रे वाऽनामिकांगुष्ठौ तलमर्धावसानकौ ।किंचिद्वक्रं कनिष्ठं तु शेषो द्वौ तदृजु क्रिया ॥१५॥कर्तर्या कृतिरेवं स्यात् लक्षणं चाति सुन्दरम् ।कोर्परं श्रोणि पार्श्वात्तु पंचषट्सप्तमात्रकम् ॥१६॥कुक्षिमध्ये च नासाग्रे पूर्वसूत्रं तु संस्पृशेत् ।मेढ्रमूलात्तु वामांघ्रि गुल्फमध्यं रसांगुलम् ॥१७॥अथवा सप्तमात्रं तु पंचमात्रमथापि वा ।नाभिमध्यात्तु वामांघ्रिनलका मध्यं चतुर्दश ॥१८॥त्रयोदशांगुलं वाथ भान्वंगुलमथापि वा ।मौल्यग्रं मध्यमात्सूत्रात् द्वन्तरं मनु मात्रकम् ॥१९॥सार्ध त्रयोदशान्तं वा त्रयोदशांगुलमेव वा ।ऋज्वागतं सुखासीनं प्रवालसदृशं प्रभुम् ॥२०॥त्रिणेत्रं प्रसन्न वदनं संपन्नं राजसं गुणम् ।व्याघ्राजिनाम्बरधरं दुकूलवसनान्वितम् ॥२१॥कर्तरी परहस्तौ द्वौ बाह्येवाभ्यन्तराननम् ।दक्षिणे परशुं वामे कृष्णं न्यस्य करद्वये ॥२२॥अभयं दक्षिणे वामे कटकं सिंहकर्णवत् ।वामकर्णे विशेषेण शंखपत्रं निधापयेत् ॥२३॥त्रिचतुः पंचमात्रं वा षट्सप्तमण्डलस्तती ।कर्णनालघनं ह्येवं त्रिगुणं पत्रविस्तृतम् ॥२४॥यवं पत्रघनं प्रोक्तं श्वेताभं चातिमार्दवम् ।दक्षिणे मकराख्यं तु कुण्डलं सिंहमेव वा ॥२५॥कुण्डल व्यास तुंगं तु त्रिचतुः पंचमात्रकम् ।युक्तं वै कुण्डलं कृत्वा कर्णे स्कन्धोपरिन्यसेत् ॥२६॥अथवा कर्णयोर्विप्र ! वृत्तकुण्डलकं न्यसेत् ।वृत्तकुण्डलविस्तारं अष्टादशयवं भवेत् ॥२७॥वेदांगुलं तु तत्तुंगं कुम्भाब्जमुकुलोत्पलम् ।अन्यं वा सुन्दरोपेतं कल्पयेद्वृत्तकुण्डलम् ॥२८॥जटामकुटसंयुक्तं युग्मसंख्या जटान्वितम् ।मकुटस्योदयं विप्र ! चतुर्विंशांगुलं भवेत् ॥२९॥त्रिस्सप्तांगुलतुंगं वा द्विर्नवांगुलमेव वा ।केशान्तान्मकुटोच्चं तु ललाटपट्टसंयुतम् ॥३०॥मुखान्त सदृशं विप्र मकुटं मूलविशालकम् ।तत्सप्ताष्ट नवांशैकं हीनमग्रविशालकम् ॥३१॥चतुष्पूरिमसंयुक्तं कृत्तिमाननसंयुतम् ।कटिसूत्रं त्रिसंख्याभिः सूत्रं प्रतियवं घनम् ॥३२॥कटिसन्धोपरिष्टात्तु कटिसूत्रं प्रबन्धयेत् ।पंचषट्सप्तमात्रं वा कृत्तिमाननविस्तृतम् ॥३३॥तद्विस्तारसमं तुंगं मेढ्रस्योपरि कल्पयेत् ।कटिसूत्रादूरुमानं मध्यत्रिंशावसानकम् ॥३४॥मुक्तादामोरुदामस्याभ्यन्तरे रत्नसंयुतम् ।कटिसूत्रं समाख्यातं कटकं वलयं शृणु ॥३५॥कटके वलयोपेतं प्रकोष्ठं द्विजसत्तम ! ।कनिष्ठांगुलिपरीणाहं वलयं त्वार्दवा हि तत् ॥३६॥अथवा वलयस्यैव घनं द्वित्रियवं तु वा ।रचितं रत्नकाण्डैस्तु प्रकोष्ठे तु निधापयेत् ॥३७॥मार्दवं रत्नबन्धं वा कृत्वा तु वलयं द्विज ! ।केयूरं कोर्परे न्यस्त्वा वलयस्य घनान्वितम् ॥३८॥एकाकारं तु केयूरं अष्टमात्राब्जसंयुतम् ।नानारत्नसमायुक्तं शैवालाभमथापि वा ॥३९॥पत्रपूरिमसंयुक्तं बाहुमध्ये द्विजोत्तम ! ।पत्रपूरिमनालं तु केयूरसदृशं घनम् ॥४०॥तत्पुरीमदतोत्तालं बाह्यं त्रिद्व्यावृतं तु वा ।त्रिचतुष्पंचमात्रं वा पत्रपूरिमविस्तृतम् ॥४१॥तद्व्यासाध्यर्धतुंगं वा पादोन द्विगुणं तु वा ।द्विगुणं वापि तत्तुंगं तद्बाहुवलयं भवेत् ॥४२॥मध्यांगुलं विना शेषास्त्वंगुला मुद्रिकान्विताः ।मुद्रिका मूलपर्वस्थ वृत्तं यवघनान्वितम् ॥४३॥उदरबन्धविशालं तु एकद्वित्र्यंगुलं तु वा ।यवं द्वियवं वाथ उदरबन्धघनं भवेत् ॥४४॥प्. ३०३) नानालंकारसंयुक्तं नानारत्नैर्विचित्रितम् ।नाभेरूर्ध्वगुणांशं तु त्यक्तोदरं तु बन्धयेत् ॥४५॥पादयोर्मध्यमादन्या स्वंगुलामुद्रिकान्विताः ।यवद्वयेन सर्वे * व्यंगुलानां तु मध्यका ॥४६॥पादौ जालकसंयुक्तौ गुल्फाधस्ताद् द्विजोत्तम ! ।जालकाबन्धसूत्रं तु यवद्वयघनान्वितम् ॥४७॥तत्सूत्राज्जालकालंबं त्रिपंचयवमात्रकम् ।त्रियवं जालकान्नालं शेषं वै जालकोदयम् ॥४८॥तदुन्नत समं व्यासं यवमानं तु तद्घनम् ।शेषं तद्घ्रासगाढं वा गाढहीनं घनं तु वा ॥४९॥गाढयुक्तं तु वृत्तं स्यात् दन्तपाषाणसंयुतम् ।घनपाषाणरहितं तुंगार्धं नीव्रमुच्यते ॥५०॥परशोर्हरिणीदीर्घं भान्वंगुलमुदाहृतम् ।परशुं हरिणीं चैव युक्त्या सौन्दर्यमाचरेत् ॥५१॥यज्ञोपवीतसंयुक्तं यवाष्टांशघनान्वितम् ।उपवीतं त्रित्रिसूत्रं उदरसूत्रसमन्वितम् ॥५२॥एवमेवोरुसूत्रं स्यात् उपवीतघनं समम् ।वामस्कन्धोपरिन्यस्त्वा नाभ्यधस्तांगुलान्तरम् ॥५३॥यज्ञोपवीतदीर्घं स्यात् नाभेर्दक्षिणपार्श्वकम् ।अपरे वंशमाश्रित्य यज्ञसूत्रं निधापयेत् ॥५४॥उरःसूत्रं समालम्ब्यं स्तनादष्टांगुलान्तरम् ।यज्ञोपवीतमेवं स्यात् छन्नवीरमथ शृणु ॥५५॥यज्ञोपवीतवत्प्राग्वत् स्कन्धयोरुभयोरपि ।पार्श्वयोश्चैव श्रोण्यूर्ध्वे न्यस्त्वा स्तनान्तरैकवत् ॥५६॥ग्रीवे हारविजानीयात् हिक्काधस्तात् षडंगुलम् ।लम्ब्य वेदांगुलं तारं यवत्रय घनान्वितम् ॥५७॥नानारत्नैर्हिरण्यैश्च हारं कृत्वातिसुन्दरम् ।हिक्कासूत्रोपरिष्टात्तु उपग्रीवं तु बन्धयेत् ॥५८॥रुद्राक्षं वाथ रत्नं वा हेमवृत्तमणिं तु वा ।उपग्रीवमिदं ख्यातं हृन्मालात्वधुनोच्यते ॥५९॥कर्णादुदरबन्धान्तं अक्षमालां तु बन्धयेत् ।एतद्धृदयमाला स्यात् स्कन्धमाला तथोच्यते ॥६०॥स्कन्धे तु स्कन्धमालास्यान्नानापुष्पैर्विराजितम् ।सर्वांगसुन्दरं देवं शेषं युक्त्या समाचरेत् ॥६१॥एवं सुखासनं प्रोक्तं उमास्कन्दसहितं तथा॥इत्यंशुमान्काश्यपे सुखासनमूर्तिलक्षणपटलः (चतुष्षटितमः) ॥६४॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP