संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| परिवारविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - परिवारविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत परिवारविधिपटलः Translation - भाषांतर द्विभुजांजनसंकाशां लम्बोष्ठांगनासिकाम् ।लम्बमानस्तनोकुक्षी नीलं वा रक्त वाससम् ॥१॥उत्पलं दक्षिणे हस्ते पीठे वामकरं न्यसेत् ।भद्रपीठस्थितासीनां द्विपादं चैव लम्बितम् ॥२॥सर्वाभरणसंपन्नां वासिकाबद्धमाकुटीम् ।काकध्वजसमायुक्तां अलकातिलकान्विताम् ॥३॥तस्या दक्षिणपार्श्वे तु वृषो वै वृषभाननः ।द्विभुजो दक्षिणे हस्ते दण्डं वामे तु सूचिधृक् ॥४॥लम्बयेद्दक्षिणं पादं वाममुत्कुटिकासनम् ।श्वेतवर्णं महाकायं सर्वाभरणभूषितम् ॥५॥वृषं वै दक्षिणे त्वेवं वामे मण तथोच्यते ।सुस्तना यौवनांगा च सर्वाभरणभूषिता ॥६॥कृष्णाजिननिभा रक्तवस्त्रेणैव विभूषिता ।द्विनेत्रा करण्डमकुटा वामपादं प्रलम्बितम् ॥७॥सव्ये तत्कुटिकासीना हस्ते उत्पलधारिणी ।एवं ज्येष्ठा समाख्याता दुर्गालक्षणमुच्यते ॥८॥चतुर्भुजा द्विनेत्रा च सस्यश्यामनिभा वरा ।सौम्या पीताम्बरोपेता पीनोरुजघनस्तनी ॥९॥करण्डमकुटोपेता सर्वाभरणभूषिता ।अभयं दक्षिणं हस्तं खड्गं वै वामहस्तकम् ॥१०॥पर हस्ते तु सव्ये तु चक्रं वामे तु शंखभृत् ।समपात्स्थानकं कुर्यात् पद्मपीठोपरि स्थिता ॥११॥नागेन्द्रेण स्तनौ बध्वा रक्तकंचुकधारिणी ।एवं दुर्गा समाख्याता विष्णुलक्षणमुच्यते ॥१२॥विष्णुं किरीटमकुटं कटिसूत्रादि भूषितम् ।पीताम्बरधरं सौम्यं चतुर्भुजसमन्वितम् ॥१३॥अभयं दक्षिणे हस्ते कटकं वामहस्तके ।परहस्ते तु वामे तु शंखं चक्रं तु दक्षिणे ॥१४॥पद्मपीठोपरिष्टात्तु सस्यश्यामनिभाकृतिम् ।आसीनं वा स्थितं वापि सव्यासव्ये श्रियावनी ॥१५॥संयुक्ता केवलं वाथ कर्तव्यं विष्णुमूर्तिनः ।एकवक्त्रं द्विहस्तं च जातिलिंगसमप्रभम् ॥१६॥ईषद्विजृम्भपद्मौ द्वौ स्कन्धेनैव करोद्धृतौ ।करण्डमकुटोपेतं स्वमण्डलमकुटो परे ॥१७॥छन्नवीरसमायुक्तं उपवीतयुतं तु वा ।रक्तरंजकबद्धाभं सर्वाभरणभूषितम् ॥१८॥समपात्स्थानकं कुर्यात् पद्मपीठोपरि स्थितम् ।सौम्यनेत्रद्वयोपेतं सौरमेवं प्रकल्पयेत् ॥१९॥श्यामवर्णं द्विहस्तं च रक्ताम्बरधरं शुभम् ।किरीटमकुटोपेतं सर्वाभरणभूषितम् ॥२०॥शक्तिं दक्षिणहस्ते तु वामहस्तेंकुशं धृतम् ।विशालोदरं तथाग्रीवं * शची समन्वितम् ॥२१॥द्विनेत्रं सौम्यवदनं सिंहासनोपरि स्थितम् ।आसीनं वा प्रकर्तव्यं गजारूढमथापि वा ॥२२॥इन्द्रमेवं समाख्यातं अश्विनी तु तथोच्यते ।एकसिंहासनासीनावश्विन्यौ विश्वरूपिणौ ॥२३॥दाडिमी पुष्पसंकाशौ उभयोः सोपवीतिनौ ।फुल्लरक्तोत्मलाक्षौ च पीतासृग्वस्त्रधारिणौ ॥२४॥नासत्यौ नाकमरुतौ चूडामुकुट धारिणौ ।करद्वयसमायुक्तौ स्त्रीभूषण विभूषितौ ॥२५॥अभयं दक्षिणे हस्ते पुस्तकं वामहस्तके ।लम्बितौ दक्षिणौ पादौ वामे वैकुटिकासनौ ॥२६॥देवानां भिषजोपेतौ यत्किंचित्सापिधायकौ ।तयोः पार्श्वद्वये विप्र दक्षिणादक्षिणे क्रमात् ॥२७॥मृतसंजीविनी चैव संस्थितौ चामरा धरौ ।परिविशालकरणी वश्विन्यौ पीतपिंगलौ ॥२८॥वामे सधन्वन्तरिश्चैव मत्रयं च तथैव च ।पीतरक्तनिभोपेतौ * * * कृष्णवाससौ ॥२९॥खड्गखेटकहस्तौ द्वौ सर्वाभरणभूषितौ ।अश्विन्येवं समाख्यातौ पितृरुपमथोच्यते ॥३०॥पितरस्सुभगा वृद्धकेशबन्धसमन्विताः ।पीतवर्णांग केशास्ते वासीकाबद्धमस्तकाः ॥३१॥यज्ञसूत्रसमायुक्ताः द्विभुजाः श्वेतवाससः ।नागाभरणसंयुक्ताः भस्मोद्धूलितविग्रहाः ॥३२॥सितदन्तसमायुक्ताः सौम्यदृग्वदनान्विताः ।फलका भद्रपीठे वा पितरस्तु महासनाः ॥३३॥वामजानूपरिन्यस्त वामहस्तसमन्विताः ।सूचिर्दक्षिणहस्तास्तु पितरस्त्रय उच्यते ॥३४॥पितरस्तु समाख्याता शृणु वैवस्वतं ततः ।द्विभुजं कृष्णवर्णं तु खड्गखेटकधारिणम् ॥३५॥करालदंष्ट्रवदनं रक्तमाल्यानुलेपनम् ।रक्तवस्त्रधरं चोग्रं किरीटमकुटान्वितम् ॥३६॥दीप्ताग्नि सदृशाक्षं च महामहिषवाहनम् ।यमवत्तस्य पार्श्वस्थौ तमिवश्मश्रुवक्त्रकौ ॥३७॥चित्रगुप्त कली चैव द्वारपार्श्वे तु संस्थितौ ।कृष्ण श्याम निभो पेतौ रक्तवस्त्रधरावुभौ ॥३८॥पीठपार्श्वस्थितौ मृत्युसहितावुग्रतेजसौ ।नीललोहितसंकाशौ द्वौ चामरधृतिस्त्रियौ ॥३९॥पुरतः संस्थितौ विप्र ! धर्माधर्मसमाह्वयौ ।यमः सिंहासनासीनो महिषोपरि रोहितः ॥४०॥यमलक्षणमाख्यातं रोहिणी लक्षणं तथा ।करण्डमकुटा रक्ता द्विभुजा च सुशोभना ॥४१॥सर्वाभरणसंयुक्ता नागहस्ता सिताम्बरा ।आसीनो वा स्थितो वापि सप्तसंख्या च रोहिणी ॥४२॥रोहिण्या लक्षणं ख्यातं निर्-ऋतेर्लक्षणं तथा ।निर्-ऋतिं रक्तवर्णं तु द्विभुजं च महातनुम् ॥४३॥खड्गं दक्षिणहस्ते तु वामहस्ते तु खेटकम् ।पीतवस्त्रधरं रौद्रं करालवसुदंष्ट्रकम् ॥४४॥सर्वाभरणसंयुक्तं शवारूढं जगत्पतिम् ।रक्तकेशसमायुक्तं स्थितं वासीनमेव वा ॥४५॥निर्-ऋतेश्चैवमाख्यातं ततश्चाप्सरसो विदुः ।अतिकान्ता युवा रक्ता केशभारालकान्विता ॥४६॥नानाभरणसंयुक्ता नानापुष्पैरलंकृता ।दुकूलवसनास्सर्वा पीनोरूजघनस्थलाः ॥४७॥मध्यै क्षौमादिसंयुक्ताः किंचित्प्रहसिताननाः ।गन्धाद्यैरनुलिप्तांगा भद्रपीठोपरि स्थिताः ॥४८॥समभंगसमायुक्ताः सप्तसंख्याप्सराः स्मृताः ।अप्सरास्त्वेवमाख्याता वरुणस्त्वथ वक्ष्यते ॥४९॥वरुणं शुक्लवर्णं तु द्विभुजं पाशहस्तकम् ।सर्वाभरणसंयुक्तं करण्डमकुटान्वितम् ॥५०॥पीतवस्त्रधरं जातं महाबलपराक्रमम् ।यज्ञसूत्रेणसंयुक्तं मकरस्थानकान्वितम् ॥५१॥ऋषयः पीतवर्णास्तु नानावर्णाम्बरान्विताः ।वृद्धाश्च द्विभुजाः शान्ताः जटाचूडसमन्विताः ॥५२॥चिबुकाहृदयान्ताश्च उपवीतसमायुताः ।भस्मना च त्रिपुण्ट्रास्ते स्थानकास्त्वासनास्तु वा ॥५३॥दण्डं दक्षिणहस्ते तु छत्रं वामकरे धृताः ।दण्डं विनाथवा (हस्ते) सव्ये वै ज्ञानमुद्रिकाः ॥५४॥वामजानूपरिन्यस्त वामहस्त समन्विताः ।अत्र्यगस्त्थौ वसिष्ठश्च गौतमांगिरसौ तथा ॥५५॥विश्वामित्रो भरद्वाजः ऋषयः सप्तकीर्तिताः ।द्विभुजस्तु महावीर्यः ताम्राक्षो धूम्रसंनिभः ॥५६॥ध्वजं वै दक्षिणे हस्ते वामहस्तेन दण्डधृक् ।कुंचितांघ्रियुतो वायुः शाललम्बरभूषितः ॥५७॥नानाभरणसंयुक्तः केशास्य सुविकीर्णकः ।सिंहासनोपरिष्टात्तु शीघ्रयात्रो सुखस्थितः ॥५८॥वायुरेवं समाख्यातो रुद्रलक्षणमुच्यते ।चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः ॥५९॥शुक्लवस्त्रधरास्सर्वे शुक्लवर्णाः प्रकीर्तिताः ।समपादाः स्थानकाश्च सर्वे पद्मोपरि स्थिताः ॥६०॥सर्वाभरणसंयुक्ताः सर्वपुष्पैरलंकृताः ।अभयं परशुं सव्ये वरदं कृष्णवामके ॥६१॥महादेवः शिवो रुद्रः शंकरो नीललोहितः ।ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥६२॥कपालीशस्त्विमे विप्र रुद्रा एकादशस्मृताः ।सोमस्सिंहासनासीनः कुन्दशंखनिभान्वितः ॥६३॥प्रभामण्डलसंयुक्तो द्विभुजस्सौम्यवक्त्रकः ।आसीनो वा स्थितो वापि कुमुदाभ्यां ज्वलत्करः ॥६४॥हेमयज्ञोपवीतांगः सर्वाभरणभूषितः ।शुक्लवस्त्रधरश्शान्तः सर्वपुष्पैरलंकृतः ॥६५॥त्रिविधः क्षेत्रपालस्तु सात्विको राजतामसः ।श्वेतं रक्तं तथा कृष्णं साल्विकादि गुणं भवेत् ॥६६॥द्विभुजं चतुर्भुजं शान्तं राजसं षड्भुजान्वितम् ।तामसंचाष्टदोर्दण्डं इत्येवं सात्विकादिकम् ॥६७॥स्थानकं पद्मपीठे तु भद्रपीठे तु वा विदुः ।शूलं दक्षिणहस्ते तु कपालं त्वितरे धृतम् ॥६८॥द्विभुजं ह्येवमाख्यातं चतुर्भुजमथोच्यते ।परहस्ते तु सव्ये खट्वांगं जंगमन्यके ॥६९॥अथवा पूर्वहस्ते तु अभयं वरदान्वितम् ।पूर्ववत्परहस्तौ द्वौ घण्टा वामहस्तके ॥७०॥सात्विकं त्वेवमाख्यातं राजसं तु ततः शृणु ।शूलं खड्गं च घण्टां च दक्षिणे तु करत्रये ॥७१॥खेटकं च कपालं च नागपाशं च वामके ।तामसं तु धनुर्बाणं दक्षिणेऽदक्षिणे धृतम् ॥७२॥शेषं राजसवत्ख्यातं रक्तकेशोर्ध्वमण्डलम् ।उग्रदृष्टि समायुक्तं नानानागविभूषितम् ॥७३॥त्रिणेत्रं नग्नकं चैव क्षेत्रपालं प्रकल्पयेत् ।ईशो वै द्विभुजः शान्तः सर्वाभरणभूषितः ॥७४॥जटामकुटसंयुक्तं शुक्लवर्णद्युतिस्सदा ।शुक्लयज्ञोपवीतश्च शुक्लपद्मोपरि स्थितः ॥७५॥शूलं दक्षिणहस्ते तु कपालं वामहस्तके ।ईशमेवं समाख्यातं ततो वै भास्करं क्रमात् ॥७६॥द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः ।रक्तमण्डलसंसक्ताः करण्डमकुटान्विताः ॥४७॥रक्तपद्मधरास्सर्वे सर्वाभरणभूषिताः ।छन्नवीरसमायुक्ता भास्करा द्वादशैव तु ॥७८॥वैकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः ।लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः ॥७९॥आदित्यश्च महासूर्यस्त्वंशुमाली दिवाकरः ।एते वै द्वादशादित्या उत्तरादि क्रमात् स्थिताः ॥८०॥एवं षोडशमाख्यातं द्वात्रिंशदथ वक्ष्यते ।अनन्तं चतुर्भुजं सौम्यं सर्वाभरणभूषितम् ॥८१॥जपापुष्पनिभाकारं करण्डमकुटान्वितम् ।सितवस्त्रधरं शान्तं त्रिणेत्रं पद्मसंस्थितम् ॥८२॥अभयं वरदोपेतं टंकशूलधरं शुचिम् ।आचार्यं चतुर्भुजं शान्तं सर्वाभरणभूषितम् ॥८३॥हिरण्यसदृशप्रख्यं दुकूलवसनान्वितम् ।अभयं वरदोपेतं खड्गखेटकधारिणम् ॥८४॥सुस्थितः पद्मपीठे तु कुर्यादेवं प्रकल्पयेत् ।अभयश्चतुर्भुजश्शान्तो जटामकुटमण्डितः ॥८५॥अतिरक्तसमप्रख्यः सर्वाभरणभूषितः ।अभयं वरदोपेतः शूलपाशधरो भवेत् ॥८६॥मोटी हस्तद्वयोपेता सौम्याननद्विनेत्रका ।अत्यन्त सुन्दरा शान्ता सर्वाभरणभूषिता ॥८७॥नानागन्धानुलिप्तांगा नानापुष्पोपशोभिता ।करण्डमकुटोपेता पद्मपीठोपरि स्थिता ॥८८॥किंचिद्विशाअलकुक्षी च पीनोरुजघनस्तनी ।दुकूलपट्टदेवांगैः नानावस्त्रधरा वरा ॥८९॥सस्य श्यामनिभाकारा रक्तोत्पलधृतः करा ।आजानुलम्ब्य वामे तु हस्ता च समभंगिका ॥९०॥सूक्ष्मा नीलनिभाशान्ता हेमवस्त्रधरा वरा ।चतुर्भुजा त्रिणेत्रा च सर्वाभरणभूषिता ॥९१॥अभया वरदोपेता टंकशूलधरा तथा ।गौरीलक्षणमाख्यातं यथा सकललक्षणम् ॥९२॥तथैव कारयेद्धीमान् स्थापयेत्केवलात्मिकाम् ।शिवश्चतुर्भुजः शान्तः सर्वाभरणभूषितः ॥९३॥जटामकुटसंयुक्तः शंखकुन्देन्दुसंनिभः ।अभयं वरदोपेतः खड्गखेटकधारणः ॥९४॥पद्मपीठपरिष्टात्तु स्थानकासन एव हि ।चतुर्वक्त्रश्चतुर्बाहुः हरितालसमप्रभः ॥९५॥जटामकुटसंयुक्तः पिंगाक्षस्सर्वभूषणः ।कृष्णाजिनोत्तरीयश्च यज्ञसूत्रसमन्वितः ॥९६॥शुक्लवस्त्रधरः शान्तः कटिसूत्रस्समेखलः ।शुक्लमाल्यानुलेपश्च कर्णकुण्डलमण्डितः ॥९७॥दक्षिणे चाक्षमालां च कूर्चं चैव तु धारयेत् ।कमण्डलं कुशं वामे दक्षिणे स्रुक्स्रुवौ धरः ॥९८॥आज्यस्थालीं कुशं चैव वामहस्ते तु धारयेत् ।अभयं वरदौ पूर्वे हस्तौ वा द्विजसत्तम ! ॥९९॥आसने तु भवांघ्रिश्च शाययेत्तु परस्परम् ।मेढ्रमूलोपरिष्टात्तु वामहस्तोर्ध्ववक्त्रकम् ॥१००॥सव्यहस्तं च तस्योर्ध्वे तद्वनास्वात्र्यद्य अच्युतम् ।दक्षिणे चाक्षमालां च वामहस्ते कमण्डलुम् ॥१०१॥सरस्वती दक्षिणे भागे सावित्री वामपाश्वके ।आसीनो वा स्थितो वापि पद्मपीठोपरि स्थितः ॥१०२॥शिवोत्तमं श्वेतवर्णं तु चतुर्दोर्भिस्समन्वितम् ।सर्वाभरणसंयुक्तं शुक्लवस्त्रोपवीतकम् ॥१०३॥नेत्रद्वयसमायुक्तं करण्डमकुटान्वितम् ।अभयवरदोपेतं शूलपाशधृतं शुचिम् ॥१०४॥पद्मपीठोपरिष्टात्तु स्थानकं समपादकम् ।भृगुः शुक्लनिभश्शान्तः शुक्लवस्त्रधरस्ततः ॥१०५॥करण्डमकुटोपेतो हस्तद्वयसमन्वितः ।अभयवरदोपेतः सर्वाभरणभूषितः ॥१०६॥स्थानकं वासनं वापि पद्मपीठोपरि स्थितः ।पूर्वमेवोदितस्त्वीशः तथात्रैव तु कल्पयेत् ॥१०७॥अगस्त्यं कौशिकं कृत्वा स्थापयेत्स्थापकोत्तमः ।एकवक्त्रं चतुर्बाहुं नेत्रत्रयसमन्वितम् ॥१०८॥क्षौमवस्त्रधरं शान्तं बन्धूककुसुमप्रभम् ।जटामकुटसंयुक्तं सर्वाभरणभूषितम् ॥१०९॥अभयवरदोपेतं टंकशूलधरं शुचिम् ।विद्येशं पूर्ववत्कृत्वा स्थापयेद्देशिकोत्तमः ॥११०॥सरस्वतीं चतुर्बाहुं श्वेतपद्मासनासिकाम् ।जटामकुटसंयुक्तां शुक्लवर्णां सिताम्बराम् ॥१११॥यज्ञोपवीतसंयुक्तां रत्नकुण्डलमण्डिताम् ।सर्वाभरणसंयुक्ता मुक्ताहारा सुलोचना ॥११२॥व्याख्यानं चाक्षमाला च दक्षिणे तु करद्वये ।पुस्तकं कुण्डिकां वामे त्रिणेत्रा चारुरूपिणी ॥११३॥भृग्वादि प्रमुखैः सर्वमुनिभिः सेविता परा ।एवं लक्षणसंयुक्ता वाग्देवी परिकीर्तिता ॥११४॥लक्ष्मीः पद्मासनासीना द्विभुजा कांचनप्रभा ।हेमरत्नोज्वलन्नक्र कुण्डलाभ्यां सुमण्डिता ॥११५॥सुयौवना सुरम्यांगा कुंचितभ्रूसविभ्रमा ।रक्ताक्षी पीतगन्धा च कंचुकाच्छादनस्तनी ॥११६॥शिरसो मण्डलं शंखचक्रसीमान्तपंकजम् ।अम्बुजं दक्षिणे हस्ते वामे श्रीफलमुच्यते ॥११७॥मध्ये विपुलसुश्रोणी शोभनाम्बर वेष्टिता ।मेखला कटिसूत्रा च सर्वाभरणभूषिता ॥११८॥एकाक्षसदृशास्त्वेक नेत्रं कुर्याद्विशेषतः ।पशुपतिवत्कृत्वाथ स्थापयेद्देशिकोत्तमः ॥११९॥धरो ध्रुवश्च सोमश्च स्त्वापस्त्वनल एव च ।अनिलः प्रत्युषश्चैव प्रभावश्च तथैव च ॥१२०॥वसवो ह्यष्टकाः सर्वे रक्तवर्णा द्विनेत्रकाः ।पीताम्बर धराः सर्वे आसीनास्त्वास्थितास्तु वा ॥१२१॥खड्गखेटकहस्ताश्च सर्वाभरणभूषिताः ।करण्डमकुटोपेता रौद्रास्सर्वे प्रकीर्तिताः ॥१२२॥पशुपतिमिव कार्यो महादेवो द्विजोत्तम ! ।एकरुद्रमिव कार्यो त्रिमूर्तिर्द्विजसत्तम ! ॥१२३॥धनदः सर्वयक्षेन्द्रः सर्वाभरणभूषितः ।तप्तकांचनसंकाशो हस्तद्वयसमन्वितः ॥१२४॥वरदाभय हस्तश्च गदा वा वामहस्तके ।पद्मपीठो परिष्टात्तु द्विनेत्रो मेषवाहनः ॥१२५॥रक्ताम्बरधरौ सौम्यो शंखपद्मनिधी उभौ ।भूताकारौ महाबलौ शंखपद्मनिधी ततः ॥१२६॥आसीनौ पद्मपीठे तु पद्महस्तौ द्विजोत्तम ! ।करण्डमकुटोपेतौ सितवासोत्तरीयकौ ॥१२७॥दक्षिणेऽदक्षिणे शंखनिधिपद्मनिधी क्रमात् ।धनदस्य तु वामे तु देवीं कुर्यात्सलक्षणाम् ॥१२८॥धनदं ह्येवमाख्यातं प्राग्वद्रुद्रं च कल्पयेत् ।कालाग्निरुद्रमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ॥१२९॥चतुर्भुजं त्रिणेत्रं च ज्वालाकेशोपशोभितम् ।खड्गखेटकसंयुक्तं शरचापधृतं परम् ॥१३०॥रक्तवस्त्रधरं रौद्रं सर्वाभरणभूषितम् ।रक्तोर्ध्वकेशसंयुक्तं सिंहासनोपरिस्थितम् ॥१३१॥चतुर्भुजं त्रिणेत्रं च नीलोत्पलसमप्रभम् ।करण्डमकुटोपेतं सर्वाभरणभूषितम् ॥१८२॥अभयवरदोपेतं टंकशूलधृतं परम् ।रक्तवस्त्रसमायुक्तं पद्मपीठोपरिस्थितम् ॥१३३॥श्रीकण्ठं ह्येवमाख्यातं नागदेवमथोच्यते ।त्रिणेत्रं चतुर्भुजं सौम्यं रक्ताभं सितवाससम् ॥१३४॥अभयवरदोपेतं परहस्ते तु नागधृत् ।करण्डमकुटोपेतं नागं पंचफणान्वितम् ॥१३५॥सर्वाभरणसंयुक्तं पद्मपीठोपरि स्थितम् ।भीमं चतुर्भुजं रौद्रं सर्वाभरणभूषितम् ॥१३६॥जटामकुटसंयुक्तं मतिरक्तसमप्रभम् ।अभयं वरदं चैव शूलं पाशं च धारयेत् ॥१३७॥सितवस्त्रसितं चैव रौद्रदृष्टिं सदंष्ट्रकम् ।सस्यांकुरनिभाभूमिः नीलालकसमन्विता ॥१३८॥करण्डमकुटोपेता सर्वाभरणभूषिता ।पीतवस्त्रधरा चैव प्रसन्नवदनान्विता ॥१३९॥पद्मं वाप्युत्पलं वाथ उभयोर्हस्तयोर्धृता ।पद्मपीठोपरिष्टात्तु आसीना वा स्थितापि वा ॥१४०॥शिखण्डिनः स्वभावस्तु चतुर्भुजसमन्वितः ।करण्डमकुटोपेतः सर्वाभरणभूषितः ॥१४१॥रक्तवस्त्रधरश्शान्तः अभयवरदान्वितः ।खड्गखेटकसंयुक्तः पद्मपीठोपरिस्थितः ॥१४२॥मरुद्गणा धूम्रवर्णाः द्विभुजाः स्वतिसुन्दराः ।केशभारसमायुक्ताः सर्वाभरणभूषिताः ॥१४३॥रक्तवस्त्रधरास्सर्वे अभयवरदान्विताः ।खड्गखेटकसंयुक्ताः पीनोरुजघनस्थलाः ॥१४४॥पद्मपीठोपरिष्टात्तु अष्टौ देवा मरुद्गणाः ।उग्रश्चतुर्भुजो रौद्रः रक्तवर्णसमन्वितः ॥१४५॥करण्डमकुटोपेतः सर्वाभरणभूषितः ।अभयवरदोपेतं टंकशूलसमन्वितम् ॥१४६॥स्थानकं पद्मपीठे तु शुक्लवस्त्रधरश्शुचिः ।शनैश्चरं कृष्णवर्णं द्विभुजं सितवस्त्रकम् ॥१४७॥करण्डमकुटोपेतं सर्वाभरणभूषितम् ।दण्डं दक्षिणहस्ते तु वरदं वाममुच्यते ॥१४८॥स्थानकं पद्मपीठे तु त्वासनं वा विशेषतः ।ईषत्पंगुमिव स्थाने ईषद्धृस्वतनुः स्मृतः ॥१४९॥प्रतिमां ह्येवमाख्यातं पीठं चेल्लक्षणं शृणु ।भानुद्वयांगुलं तारं उत्सेधं भानुमात्रकम् ॥१५०॥मेखलात्रयसंयुक्तं वेदमात्रविशालकम् ।गुणांगुलं तदुत्सेधं पद्मोच्चं तु गुणांगुलम् ॥१५१॥षडंशं पद्मविस्तारं शेषोर्ध्वकम्पनीव्रकम् ।शिलाभिर्वेष्टकाभिर्वा सुधया वा प्रकल्पयेत् ॥१५२॥परिवारासमं ह्येवं महापीठविधिं शृणु ।प्रासादस्य तु विस्तारं यत्तद्दण्डमिहोच्यते ॥१५३॥मूलहर्म्यं समारभ्य षडष्टौ दण्डमानतः ।दशद्वादशदण्डो वा मनुदण्डावसानकम् ॥१५४॥षोडशाष्टादशो वापि महापीठं प्रकल्पयेत् ।अथवान्यप्रकारेण पीठस्थानं विधीयते ॥१५५॥त्रिसाले तु चतुष्पंच साले वै यिव मध्यमे ।महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते ॥१५६॥मूलधामस्य द्वारोच्चं उत्तमं पीठविस्तृतम् ।त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् ॥१५७॥शुद्धद्वारस्य विस्तारमधमं पीठमुच्यते ।द्विगुणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते ॥१५८॥अथवा व्योमहस्तं तु अधमं पीठविस्तृतम् ।द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ॥१५९॥तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति ।उपानोच्चं द्विभागं स्याद् षडंशं जगती भवेत् ॥१६०॥कुमुदोच्चं तु भूतांशं कम्पमेकांशमुच्यते ।वेदांशं कर्णमानं तु ऊर्ध्वकम्पं शिवांशकम् ॥१६१॥महापट्टीगुणांशं वा द्विभागं वा विशेषतः ।वेदांशं पद्मतुंगं तु द्विभागं कर्णिकोदयम् ॥१६२॥अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।पद्मोच्चं पंचभागं तु महापट्टी द्विभागया ॥१६३॥उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।अथ पीठोदयं विप्र धरातलं यथा कुरु ॥१६४॥तदूर्ध्वे पद्ममानं तु पीठोच्चं न्यंशमुच्यते ।अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत् ॥१६५॥पद्मतारे युगांशं वा भूतांशं कर्णिका भवेत् ।पीठाकारं युगाश्रं वा वृत्तं वाष्टाश्रमेव वा ॥१६६॥कलाश्रं वाथ कर्तव्यं तद्द्वयं मण्डलाम्बुजम् ।लोहजं शैलजं वाथ इष्टकामयमेव वा ॥१६७॥सुधया वेष्टकागर्भं नानाचित्रैविचित्रितम् ।भूतैश्च मकरैर्व्यालैः वृषभैश्च विभूषितम् ॥१६८॥नानावर्णैर्विचित्रं वा भूषयेद्धेमराजतैः ।पीठव्यासे तु षट्सप्त वसुनन्दांशकेऽपि वा ॥१६९॥अंशमस्योपपीठोच्चं उपपीठोक्तवत्कुरु ।तदूर्ध्वे तु महापीठं उक्तव्यासोदयान्वितम् ॥१७०॥उपपीठं विना पीठं कर्तव्यं वा द्विजोत्तम ! ।आमोदं प्राग्दले विप्र प्रमोदं यमदिग्दले ॥१७१॥प्रमुखं वारुणे चैव दुर्मुखं सौम्यदिग्दले ।तामसं चाग्निदिग्भागे राजसं नैर्-ऋते दले ॥१७२॥सात्विकं वायुदिग्भागे विघ्नकर्तारमीशके ।विघ्नकर्तारमित्युक्तं तद्विघ्नं तदुदाहृतम् ॥१७३॥भूम्यन्तरिक्षस्वर्गे च सर्वभूतगुणात्मकम् ।तत्सर्वात्मकमित्युक्तं महापीठं द्विजोत्तम ! ॥१७४॥तासामार्तिनिवृत्त्यर्थं नित्यं वल्यन्तमर्चयेत् ।तासामार्तिहरायाथ नित्योत्सवप्रदक्षिणम् ॥१७५॥भूमिप्रदक्षिणं कृत्वा द्वितीयं त्वन्तरिक्षकम् ।स्वर्गप्रदक्षिणं पश्चात् कृतं तद्वासिनां हि तत् ॥१७६॥जगदार्तिविनाशार्थं कल्प्येवं साधकोत्तमः ।पश्चिमाभिमुखे हर्म्ये किंचिद्भेदं वदाम्यहम् ॥१४७॥वृषस्थाने कुमारं तु कौमारे वृषभं न्यसेत् ।वारुणे तु महापीठं शेषं पूर्ववदाचरेत् ॥१७८॥परिवारविधिः प्रोक्तः पश्चाल्लिंगस्य लक्षणम् ॥१७८ ½॥इत्यंशुमान्काश्यपे परिवारविधिः पटलः (पंचाशः) ॥५०॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP