संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - मध्यमदशतालस्त्रीमानपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत मध्यमदशतालस्त्रीमानपटलः Translation - भाषांतर मध्यमं दशतालेन स्त्रीमानमथ वक्ष्यते ।उमासरस्वतीदुर्गा उषा भूषिश्च मातरः ॥१॥लक्ष्मीं ज्येष्ठां च अनेन विधिना कुरु ।ईशो ब्रह्मा तथा विष्णुशक्तिरित्यभिधीयते ॥२॥तेषामनुगुणं मानं तत्तच्छक्तेस्तु मानकम् ।शंभोर्नासाग्रसीमान्तं शक्त्युच्चं ह्युत्तमोत्तमम् ॥३॥शंभोर्वास्तनसीमान्तं अधमाधममुच्यते ।तयोर्मध्येऽष्टभागे तु नवधा शक्तिमानकम् ॥४॥शंभोर्हिक्कान्तमुत्कृष्टं स्तनान्तमधमाधमम् ।तयोर्मध्येऽष्टभागे तु नवधा शक्तिमानकम् ॥५॥एवमष्टादशोत्सेधं पादादुष्णीषसीमकम् ।तस्माज्जात्यंशमायांशं योजयेत्क्रममिच्छताम् ॥६॥त्रिभंगासनमूर्तीनां अन्याभिधानमूर्तिनाम् ।देव्युच्चं समपादस्य स्थानकं स्यैव युक्तितः ॥७॥दुर्गा ज्येष्ठा च लक्ष्मी च मातरश्च विशेषतः ।मानकल्पे तु लिंगानां मानैः संकल्प्य देशिकः ॥८॥मूललिंगस्य गौरी तु लिंगमानेन कल्पयेत् ।स विंशतिशतं भागं स्त्रीमाने तु विभाजिते ॥९॥एकांशमंगुलं ख्यातं तदष्टांशं यवं भवेत् ।तदंगुलैर्यवैश्चैव चांगमानं प्रमीयते ॥१०॥उमादीनां तु देवीनां * * मेवांगुलं यवम् ।उष्णीषोदयमेकांशं केशान्तं तु गुणांगुलम् ॥११॥केशान्तादक्षिसूत्रान्तं स त्रिपाद युगांशकम् ।अक्षिसूत्रात्पुटान्तं तु सार्धवेदांगुलं भवेत् ॥१२॥नासापुटात्तु हन्वन्तं स त्रिपादगुणांगुलम् ।तस्याधः कण्ठमानं तु चतुर्भागमुदाहृतम् ॥१३॥हिक्काच्च हृदयान्तं च हृदयान्नाभि सीमकम् ।नाभ्याश्च योनिपर्यन्तं समं त्रयोदशांगुलम् ॥१४॥ऊरुदीर्घं तु षड्विंशत् जानुमानं युगांगुलम् ।ऊरुदीर्घ समं जंघा दीर्घं पादतलं युगम् ॥१५॥कलांशं पादतलायामं पार्ष्ण्या गुष्ठाग्रसीमकम् ।तर्जन्यांगुष्ठयोर्दीर्घं चतुर्भागमुदाहृतम् ॥१६॥सार्धत्रिभागमं मध्यं त्रिभागं तु दनामिकम् ।सार्धद्विभागमानं तु कनिष्ठांगुलिदीर्घकम् ॥१७॥द्विरष्टौ सार्धसप्तांशं पातालरसभिर्यवैः ।अंगुष्ठादि कनिष्ठान्तं चरणांगुलि विस्तृतम् ॥१८॥त्रिद्व्यंशं तु नखव्यासं पादोनायत वर्तुलम् ।अंगुलीनां मुखोच्चं तु नखव्याससमं भवेत् ॥१९॥पादं तलाग्रविस्तारं षण्मात्रमिति विद्यते ।मध्ये पंचांगुलं पार्ष्णिः विस्तारं चतुरंगुलम् ॥२०॥अक्षिगुल्फान्तविस्तारं पंचभागं विधीयते ।नलकाततियेदांशं जंघामध्यं रसांगुलम् ॥२१॥जानुव्यासं तु सप्तांशं भान्वंशं ह्यूरुमूलकम् ।भानुद्विगुणभागं तु विस्तारं कटिसंधयोः ॥२२॥योनिपीठविशालं तु सप्तांगुलमुदाहृतम् ।योनितारं चतुर्भागं अधोगाश्वत्थपत्रवत् ॥२३॥विस्तारसदृशोत्सेधं योनिं कुर्यात्समांसलम् ।श्रोणि स्थाने तु विस्तारं स यवं विंशदंगुलम् ॥२४॥नाभेश्च निम्नविस्तारं षड्यवं परिकीर्तितम् ।मध्यमस्य विशालं तु रुद्रांगुलमुदाहृतम् ॥२५॥स्तनाधस्तात्तु विस्तारं सार्धत्रयोदशांगुलम् ।स्तनतारं नवांशं स्यात् गुणांशं स्तन चूचुकम् ॥२६॥स्तनोच्चं सार्धवेदांशं अक्षं मध्यांगुलोन्नतम् ।स्तनाक्षं च स्तनं चैव वृत्तं कृत्वाति सुन्दरम् ॥२७॥स्तनान्तरं यवाष्टांशं छन्नवीरं तु तत्र वै ।कक्षयोरन्तरं विप्र सप्तादशांगुलं स्मृतम् ॥२८॥बाहुपर्यन्तविस्तारं एकत्रिंशांगुलं भवेत् ।हिक्कासूत्रादधो बाहुदीर्घं षड्विंशदंगुलम् ॥२९॥कोर्परोच्चं द्विभागं स्यात् प्रकोष्ठं द्विनवांगुलम् ।मणिबन्धात्तलायामं सप्तांगुलमुदाहृतम् ॥३०॥तस्मान्मध्यांगुलं षड्भिः पंचांशे तर्जनी भवेत् ।अनामिका तर्जनीतुल्यं भागांगुष्ठकनिष्ठयोः ॥३१॥अंगुलीनां तु दैर्घ्यं वा हस्तयोरुभयोरपि ।नवसप्ताष्टसप्तं तु यवांगुष्ठादि विस्तृतम् ॥३२॥तत्षडंशे चतुर्भागं नखतारमिहोच्यते ।यवद्वयाधिकं तारात् नखायामं तु तीक्षणवत् ॥३३॥हस्तस्य तलविस्तारं पंचांगुलं विधीयते ।मणिबन्धविशालाग्नि भूतांशं कोर्परस्य तु ॥३४॥षडंशं बाहुमध्ये तु सप्तांशं बाहुमूलके ।तस्मात्तन्मणिबन्धान्तं तरुणं वेणुवत्कृशम् ॥३५॥हस्तविस्तारमेवं स्यात् सप्तांशं ग्रीवविस्तृतम् ।अग्रे मूले तु विस्तारं षडंशं स्याद्यवाधिकम् ॥३६॥रुद्रांशं मुखविस्तारं कुक्कुटाण्डसमाकृतिः ।भ्रूकेशान्तयोर्मध्यं सार्धद्व्यंगुलकं भवेत् ॥३७॥भ्रूमध्यान्ते तु तत्रान्तं स पादद्व्यंगुलं भवेत् ।पुटदास्यावसाअं तु स यवैकांगुलं भवेत् ॥३८॥तदर्धं गोजिदीर्घं तु तस्यार्धं तस्य विस्तृतम् ।अधरं स यवांगुल्यं शेषं हन्वन्तमानकम् ॥३९॥कर्णवेशं तु चिबुकात् सार्धत्र्यंगुलकं भवेत् ।द्विभागं कर्णविस्तारं स पादं चतुरंशकम् ॥४०॥कर्णदीर्घमिति ख्यातं तस्मान्नालं प्रलम्बयेत् ।द्विभागं कर्णविस्तारं स पादं चतुरंशकम् ॥४१॥कर्णदीर्घमिति ख्यातं तस्मान्नालं प्रलम्बयेत् ।नालालम्बं तु पंचांशं कर्णबन्धनसंयुतम् ॥४२॥हस्तिहस्तोपमं पादं हस्तं गोपुच्छवत्कृतम् ।शेषमुत्तमतालोक्तमार्गेणैव समाचरेत् ॥४३॥स्त्रीणां सामान्यमेतद्धि विशेषमधुना शृणु ।गौरी वै द्विभुजा शान्ता प्रसन्नवदनाम्बुजा ॥४४॥करण्डमुकुटा वाथ करीटमुकुटान्विता ।मकुटं केशबन्धं वा तेषु तत्सुन्दरं कुरु ॥४५॥केशान्तान्मकुटोत्तुंगं अष्टादशांगुलाधमम् ।एकविंशांगुलं मध्यं श्रेष्ठं भानुद्वयांगुलम् ॥४६॥शिरोनाहाद्यवाधिक्यं मकुटं मूलविशालकम् ।मूलं सप्ताष्टधा भज्य भागोनाग्रविशालकम् ॥४७॥किरीटमकुटे चैव केशबन्धमथाचरेत् ।मूलादग्रं क्रमात्क्षीणं करण्डमकुटस्य तु ॥४८॥पद्मस्य मुकुलाकारं मकुटाग्रं प्रकल्पयेत् ।त्रिपंचसप्तनन्दैर्वा करण्डैस्तु विराजितम् ॥४९॥चतुष्पूरिमसंयुक्तं नानापुष्पोभशोभितम् ।ललाटपट्टसंयुक्तं मुक्तादामलकाकृतिः ॥५०॥कर्णे कुण्डलसंयुक्तं चतुर्मात्रोन्नतायतौ ।मकरं कुण्डलं वाथ वृत्तकुण्डलमेव वा ॥५१॥कटकैः कटिसूत्रैश्च हारोपग्रीवसंयुतम् ।बाहुपूरिमसंयुक्तं छन्नवीरसमन्वितम् ॥५२॥यज्ञोपवीतयुक्तं वा केयूराढ्य सुशोभिता ।दुकूलवसना देवी श्यामवर्णांगसुन्दरी ॥५३॥दक्षिणं सुस्थितं पादं वामपादं तु कुंचितम् ।आभंगे तु गुणांशं तु वेदांशं समभंगके ॥५४॥नतमानमिति ख्यातं सूत्रं वक्ष्ये यथाक्रमम् ।ललाटमध्याद्वामे तु नेत्रान्ते च पुटान्तके ॥५५॥हनोर्वामे समालंब्य * नयोरन्तरे तथा ।नाभेर्दक्षिणपार्श्वे तु वामोरुर्दक्षिणं स्पृशेत् ॥५६॥अवामचरणे पार्ष्णि वामपार्श्वे तु लम्बयेत् ।पादांगुष्ठद्वयोश्चैव द्वन्तरं षोडशांगुलम् ॥५७॥तत्त्रिभागैकभागं तु पार्ष्ण्यन्तरमुदाहृतम् ।एवमाभंगमाख्यातं समभंगमथ शृणु ॥५८॥ललाटमध्यान्नासाग्रात् पादपार्ष्ण्योश्च मध्यमे ।प्रसार्य ब्रह्मसूत्रं तु द्वन्तरं तु वदाम्यहम् ॥५९॥सूत्रास्तनयोर्मध्ये वामे स्यात्तु गुणांगुलम् ।तत्सूत्राद्दक्षिणे नाभे नीव्रकं द्व्यंगुलं भवेत् ॥६०॥तत्सूत्राद्दक्षिणे योनिमूलमध्यं युगांगुलम् ।तत्सूत्राद्वामतो जानु नीव्रं गुणांगुलं भवेत् ॥६१॥पादांगुष्ठद्वयोश्चैव द्वन्तरं द्विनवांगुलम् ।तत्त्रिभागैकभागं तु पाष्ण्यौ द्वन्तरमिष्यते ॥६२॥उत्पलोद्धृतहस्तोर्ध्व स्तनक्षस्य समं भवेत् ।नाभेस्तु मणिबन्धान्तं सार्धत्रयोदशांगुलम् ॥६३॥पार्श्वमध्यमबाह्योश्च द्वन्तरं सप्तमात्रकम् ।कटिसंधैस्तु वेदां(शं) लम्बहस्तस्य कोर्परम् ॥६४॥ऊर्वोस्तु मणिबन्धान्तं द्वन्तरं मनुमात्रकम् ।ऊर्वाग्रात्तत्कराग्रान्तं दशांगुलमुदाहृतम् ॥६५॥एवं संकल्पयेद्गौरीमिदमन्यच्च वक्ष्यते ।सुस्थितं वामपादं तु दक्षिणं कुंचितं भवेत् ॥६६॥ललाटमध्यनासाग्रात् पादयोः पार्ष्णिमध्यमे ।प्रसार्य ब्रह्मसूत्रं तु द्वन्तरं तु प्रमीयते ॥६७॥तत्सूत्रात्स्तनयोर्मध्ये दक्षिणे तु गुणांगुलम् ।तत्सूत्राद्वामतो नाभि नीव्रं द्व्यंगुलकं भवेत् ॥६८॥तत्सूत्राद्वामतो योनिमुलमध्यं गुणांगुलम् ।तत्सूत्राद्दक्षिणे जानु नीव्रं गुणांगुलं भवेत् ॥६९॥शेषं पूर्ववदुद्दिष्टं गौरीलक्षणमेव हि ।सरस्वत्यादि शक्तीनां प्रागेव प्रोच्यतेऽथवा ॥७०॥इत्यंशुमान्काश्यपे मध्यमदशतालस्त्रीमानपटलः (सप्तपंचाशः)॥५७॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP