संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
बोधिकालक्षणपटलः

अंशुमत्काश्यपागमः - बोधिकालक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण बोधिकालक्षणं परम् ।
मूलपादसमव्यासं श्रेष्ठमध्येन मध्यमम् ॥१॥

अग्रपादविशालेन समं कन्यसबोधिकाः ।
विस्तारसदृशोत्सेधं पंचदण्डायतान्वितम् ॥२॥

उत्तमा बोधिका ख्याता तारद्वित्र्यंशमुन्नतम् ।
चतुर्दण्डायतो पेता मध्यमा सा प्रकीर्तिता ॥३॥

विस्तारस्यार्धतुंगं तु तत्त्रिदण्डायतान्विता ।
कन्यसा बोधिका ख्याता त्वंघ्रीयो बोधिकान्विता ॥४॥

बोधिकोच्चत्रिभागे तु एकांशेनोर्ध्वपट्टिका ।
मध्येमंशे तरंगस्या लताद्यैर्भूषितं तु वा ॥५॥


तदधस्त्वेकभागेन कुक्षिबन्धं तु कारयेत् ।
दण्डं त्रिपादमर्धं वा छायामानं च दग्रयोः ॥६॥

ऊर्ध्वस्थ पट्टिकाधस्तात् छायाकारं प्रकल्पयेत् ।
अधस्ताद्बोधिकांशेन अलंकारं वदाम्यहम् ॥७॥

मध्यपट्टत्रिभागैकं विस्तारार्धमथापि वा ।
पार्श्वयोरुभयोः शेषं तरंगस्थानमुच्यते ॥८॥

सक्षुद्रक्षेपणं मध्यपट्टं पत्रैरलंकृतम् ।
पार्श्वयोस्तु तरंगः स्यात् समाश्चान्योन्यहीनकम् ॥९॥

बोधिकाविस्तरार्धं वा त्रिपादं वाग्रनीव्रकम् ।
तन्निव्रसदृशं व्यासं संभोजकारकल्पितम् ॥१०॥

तदुत्सेधं षडंशं तु कृत्वोर्ध्वं पट्टिकांशकम् ।
ऊर्ध्वपद्ममथांशेन कर्णमर्धेन कारयेत् ॥११॥

अधः पद्मं द्विभागेन अधः पट्ट्यंशमुच्यते ।
अधःस्थाम्बुजमर्धांशं कल्पयेत्तु क्रमेण तु ॥१२॥

पद्मस्य मुकुलाकारं अग्रादधे गतं कुरु ।
अग्रनिष्क्रामयुक्तं वा छत्राकारमथापि वा ॥१३॥

पार्श्वयोर्मुष्टिबन्धाग्रं व्यालरूपादिकल्पितम् ।
भूतैश्च मकरैर्व्यालैः नाटकाद्यैर्विभूषितम् ॥१४॥

रत्नबन्धक्रिया वापि चित्रा वाग्रस्थ घट्टितम् ।
बोध्यग्रयोस्तरंगः स्यात् तन्मध्ये दण्डमानतः ॥१५॥

युगाश्रं पट्टं कर्तव्यं तारोच्छ्राये ससुव्रता ।
नानाचित्रैरलं कृत्य बोधिका चित्रबोधिका ॥१६॥

पत्रैर्विचित्रिता पत्रबोधिका परिकीर्तिता ।
महार्णवतरंगाभान् तरंगांस्तु प्रकल्पयेत् ॥१७॥

पादमर्धं त्रिपादं वा भित्तेस्तम्भस्य निर्गतिः ।
चतुरश्राष्टवृत्तानां क्रमात्साधारणं तु वा ॥१८॥

बोधिकायस्त्वधस्तात्तु वीरकाण्डं युगाश्रकम् ।
अग्रपादसमं तारं त्रिपादं तुंगमुच्यते ॥१९॥

सर्वेषामपि पादानां वीरकाण्डं युगाश्रकम् ।
अधस्थाद्वीरकाण्डस्य फलकालक्षणं शृणु ॥२०॥

इत्यंशुमान्काश्यपे बोधिकालक्षणपटलः (नवमः) ॥९॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP