संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
मातृकालक्षणपटलः

अंशुमत्काश्यपागमः - मातृकालक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


उत्तमं दशतालेन कुर्याद्वैत्वनलेश्वरम् ।
द्विवक्त्रं चैकहृदयं द्विनासी च षडक्षकम् ॥१॥

त्रिमेखलं त्रिपादं च सप्तजिह्वाभिरावृतम् ।
सव्यवक्त्रे चतुर्जिह्वा वामवक्त्रे त्रिजिह्वया ॥२॥

मेषारूढं चतुःशृंगं जटामकुटसंयुतम् ।
दक्षिणे तु चतुर्हस्तं वामपार्श्वे त्रिहस्तकम् ॥३॥

शक्तिरग्निस्तथा स्रुक्च स्रुवं वै दक्षिणे करे ।
तोमरव्यजनं वामे घृतपात्रं विशेषतः ॥४॥

वपुः स्वर्णनिभं ख्यातं नेत्रं पिंगलसंनिभम् ।
प्रभामण्डलसंयुक्तं पद्मपीठोपरिस्थितम् ॥५॥

दुकूलवसनोपेतं कल्पयेत्त्वनलेश्वरम् ।
ब्राह्मीमाहेश्वरी चैव कौमारी वैष्णवी तथा ॥६॥

वाराही चैव माहेन्द्री चामुण्डा सप्तमातरः ।
दक्षिणे वीरभद्रं तु पश्चिमे तु विनायकम् ॥७॥

चतुर्भुजं त्रिणेत्रं च जटामकुटसंयुतम् ।
सर्वाभरणसंयुक्तं श्वेतवर्णं वृषध्वजम् ॥८॥

शूलं चाभयंहस्तं च दक्षिणे तु करद्वयम् ।
गदावरदहस्तं च वामपार्श्वे करद्वयम् ॥९॥

श्वेतपद्मासनासीनं वटवृक्षसमाश्रितम् ।
चतुर्बाहुसमायुक्तं हेमवर्णसमायुतम् ॥१०॥

दक्षिणेऽभयशूलं च वरदं चाक्षमालिकाम् ।
रक्तपद्मासनासीनं हंसवाहनकेतुकम् ॥११॥

जटामकुटसंयुक्तं पीताम्बरधराब्जकम् ।
ब्राह्मणीरूपमाख्यातं ब्रह्मवृक्षसमाश्रितम् ॥१२॥

चतुर्भुजा त्रिणेत्रा च अतिरक्तसमप्रभा ।
शूलाभयकरास्सव्ये वामे वरदहस्तका ॥१३॥

कमण्डलु जपमाला जटामकुटमण्डिताः ।
ईश्वरेणोपमाह्येषां ईश्वरीति प्रकीर्तिता ॥१४॥

चतुर्भुजा त्रिणेत्रा च रक्तवर्णनिभान्विता ।
सर्वाभरणसंयुक्ता वालिकामण्डमाकुटी ॥१५॥

शक्तिकुक्कुटहस्ता च वरदाभयपाणिका ।
मयूरवाहिनी चैवोदुम्बरं वृक्षमेव वा ॥१६॥

शंखचक्रधरा देवी वरदाभयपाणिनी ।
सुस्तना चारुवदना श्यामांगा चसुलोचना ॥१७॥

पीताम्बरधरा देवी करीटमकुटान्विता ।
राजवृक्षं समाश्रित्य गरुडध्वजवाहिनी ॥१८॥

वैष्णवीं कारयेदेवं विष्णुभूषणभूषिताम् ।
वाराहीं चतुर्भुजां शान्तां सर्वाभरणभूषिताम् ॥१९॥

करजद्रुमसंयुक्तां अभिषेकं तु कल्पयेत् ।
पीताम्बरधरां वापि सर्वाभरणभूषिताम् ॥२०॥

किरीटमकुटोपेतां विद्रुमस्य प्रभान्विताम् ।
अंकुशं चाभयं सव्ये वामे वरदशक्तिकाम् ॥२१॥

कल्पद्रुमं समाश्रित्य गजध्वजसुवाहिनीम् ।
चतुर्भुजां त्रिणेत्रां च रक्तवर्णोर्ध्वकेशिकाम् ॥२२॥

शिरोमालोपवीतां च पद्मपीठोपरि स्थिताम् ।
व्याघ्रचर्माम्बरधरां नागेन्द्रस्कन्ध सुस्तनाम् ॥२३॥

दंष्ट्राकरालवदनां वटवृक्षसमाश्रिताम् ।
चामुण्डीलक्षणं ह्येवं एकबेरं च तद्भवेत् ॥२४॥

वामपादशयाः सर्वाः दक्षिणांघ्रिपलम्बिताः ।
एवं वै सप्तमातॄनां कारयेद्द्विजसत्तम ! ॥२५॥


इत्यंशुमान्काश्यपे मातृकालक्षणपटलः (सप्तचत्वारिंशः) ॥४७॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP