संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
चण्डेशलक्षणपटलः

अंशुमत्काश्यपागमः - चण्डेशलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ वक्ष्ये विशेषेण चण्डेशस्य तु लक्षणम् ।
रुद्रस्यैव तु ऋक्षांशं चण्डेशमभिधीयते ॥१॥

गणेशावरणे त्वीशे पूजितस्तु तथा भवेत् ।
शूलं च परशुं खड्गं वज्रमंकुशमेव च ॥२॥

क्षुरिका चाभयं दण्डं दक्षिणेऽष्टायुधं भवेत् ।
खेटकं भिन्दिपालं च पाशं घण्टां तथैव च ॥३॥

वरदं व्याघ्रहस्तं च सूचिं नागं च वामके ।
जटामकुटसंयुक्तं रौद्रदृष्टिसमन्वितम् ॥४॥

त्रेतायामष्टहस्तं तु अतिरक्तसमप्रभम् ।
विक्रान्तचण्डनाम्ना तु सुविकीर्णजटान्वितम् ॥५॥

वाहनं तु हयं विद्यात् किंचित् प्रहसिताननम् ।
अभयं शूलपरशुं खड्गं वै दक्षिणे करे ॥६॥

वरदं खेटकं पाशं घण्टां वामकरोद्धृतम् ।
द्वापरे तु चतुर्दोर्भिः हेमाभं सिंहवाहनम् ॥७॥

जटामण्डलसंयुक्तं सितयज्ञोपवीतकम् ।

टंकं शूलं च दक्षिणे * * * * * * * * ।
पाशांकुशं च वामे तु भद्रपीठोपरिस्थितम् ॥९॥

द्विभुजं चण्डेशनाम्ना तु प्रोच्यते द्वापरे युगे ।
कलौ तु द्विभुजं शान्तं जटामकुटमण्डितम् ॥१०॥

जटामण्डलयुक्तं वा केशबन्धमथापि वा ।
कृष्णाभं वाथ रक्ताभं सौम्यनेत्राननान्वितम् ॥११॥

आभंगं समभंगं वा समपात्स्थानकं तु वा ।
भंगं चेद्दक्षिणं पादं कुंचितं त्वितरं स्थितम् ॥१२॥

अथवा दक्षिणं पादं स्थितमन्यत्तु कुंचितम् ।
वीरचण्डेशनाम्ना तु स्थानकं त्वासनं तु वा ॥१३॥

आसीनं चेत्तु वामांघ्रिशाययेदन्यलम्बितम् ।
दक्षिणं शयितं पादं वामलम्बिमथापि वा ॥१४॥

टंकं दक्षिणहस्ते तु वरदं वामहस्तके ।
हृदयांजलिहस्तौ वा टकमभ्यन्तरोचितम् ॥१५॥

टंकहीनं तु वा पुष्पं मालयांजलिना धृतम् ।
ईषद्दक्षिणपार्श्वे तु लम्बिताननमेव वा ॥१६॥

वाहनं वृषभं ख्यातं श्वेतवस्त्रधरं परम् ।
एवं चतुर्विधं चादिचण्डेशमभिधीयते ॥१७॥

परिवारे तु बिम्बानां उक्तमानं विधीयते ।
कन्यसं दशतालेन सर्वांगं परिकल्पयेत् ॥१८॥

चण्डेशलक्षणं प्रोक्तं भूमानमधुनोच्यते ।


इत्यंशुमान्काश्यपे चण्डेशलक्षणपटलः (द्विनवतितमः) ॥९२॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP