संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
अधमनवतालविधिपटलः

अंशुमत्काश्यपागमः - अधमनवतालविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अधमं नवतालस्य लक्षणं वक्ष्यतेऽधुना ।
विद्याधरगणाश्चैव त्वसुराश्च तथैव च ॥१॥

पितरस्सिद्धगन्धर्वा नवतालाधमेन तु ।
स वेदशतभागं तु कौतुकोच्चं विभाजिते ॥२॥

उष्णीषोच्चं त्रिपादं स्यात्केशं सार्धत्रिभागया ।
.* * * * * * * * * * हृदयान्तकम् ॥३॥

तस्मान्नाभ्यन्तकं तद्वत् मेढ्रमूलान्तकं तथा ।
ऊरुदीर्घं त्रयोविंशत् यवोनं तु विधीयते ॥४॥

ग्रीवं पादतलं जानुतुल्यं जंघोरुसादृशम् ।
बाहुचोरुसमं दीर्घं प्रकोष्ठं षोडशांगुलम् ॥५॥

तलदीर्घं तु भूतांशं तत्समं मध्यमांगुलम् ।
शेषं युक्त्या तु कर्तव्यं सर्वांगं तु विधीयते ॥६॥


इत्यंशुमान्काश्यपे अधमनवतालविधिपटलः (एकषष्टितमः) ॥६१॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP