संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| भक्तलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - भक्तलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत भक्तलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण भक्तानां लक्षणं परम् ।सर्वेषामथ भक्तानां पदं वै तु चतुर्विधम् ॥१॥सालोक्यं चैव सामीप्यं सायुज्यं च तथैव च ।सारूप्यपद विप्राश्च चतुर्भेदमुदाहृतम् ॥२॥पुरुषो वा स्त्रियो वाथ तेषु यत्पदमाश्रितम् ।तत्तत्पादानुकूल्यं तु प्रतिमां कारयेद्बुधः ॥३ ।स्वजाति चिह्नसंयुक्तं सालोक्यपदमाश्रितम् ।तथा सामीप्य देवानां ममचिह्नाकृतिस्तु वा ॥४॥मम चिह्नाकृतिर्युक्ताः शेषा वै त्रिपदाश्रिताः ।बाला च यौवना वृद्धा त्रिधावस्थाः प्रकीर्तिताः ॥५॥वत्सरत्रयमारभ्य यावदं तु कलाब्दकम् ।तेष्वान्तवयसो पेता भक्ता बाला इति स्मृताः ॥६॥तस्मात् सप्तति वर्षान्तं वयसा यौवनान्विताः ।तदूर्ध्व वयसोपेता वृद्धा इति बिदुर्बुधाः ॥७॥बालस्तु पंचतालेन शेषावयसुमेन वै ।स्थानकं चासनं चैव याननृत्तं तथैव च ॥८॥चतुर्भेदेन कर्तव्या मद्भक्ता मानुषा बुधः ।आभंगसमभंगं वा ह्यतिभंगमिति त्रिधा ॥९॥सव्यं वा सव्यपादं वा कुंचितं चितरास्थितम् ।द्वौ द्वौ स्वजातिच्छिह्नं तद् हृदाञ्जलि करोऽथवा ॥१०॥टकं दक्षिणहस्ते भृत् वरदं वामहस्तके ।हस्तं रूक्षसमायुक्तं स्थानकं ह्येवमाचरेत् ॥११॥पद्मेव भद्रपीठे वा वामपादं तु शाययेत् ।लंबन्तु दक्षिणं पादं हस्तं पूर्ववदेव हि ॥१२॥आसनं ह्येवमाख्यातं योजयेत्कुटिलासनम् ।टंकं दक्षिणहस्ते तु पाशं वामकरे धृतम् ॥१३॥युक्त्यान्यं वा धृतं विप्र यानमूर्तिं प्रकल्पयेत् ।नृत्तं त्रिविधमुद्दिष्टं सात्विकं राजसं युताम् ॥१४॥तामसं चेति विख्यातं क्रमाद्बाह्यन्तरान्तगम् ।वयसोपेतभक्तानां योग्यमित्युदितं मया ॥१५॥तेषादौ सात्विकं नृत्तं वक्ष्येहं शृणु सुव्रत ! ।भक्तानामुदयं चापि मानं कल्पोक्तवद्भवेत् ॥१६॥षट्सप्तांगुलं वाथ नतमानं विधीयते ।स वक्रं वामपादं तु पद्मपीठोपरिन्यसेत् ॥१७॥उद्धृतं दक्षिणं पादं पीठाद्वै वेदमात्रकम् ।पंचषट्सप्तमात्रं वा पीठादुद्धृतमानकम् ॥१८॥तत्समं ब्रह्मसूत्रं तु तदंघ्र्यंगुष्ठनीव्रकम् ।तद्धस्तमणिबन्धात्तु त्रयोदशांगुलमन्तरम् ।तद्धस्ते कोर्परं नीव्रं पृष्ठसूत्राद्यमं विदुः ॥२०॥मणिबन्धाध्वसीमा स्याल्लम्ब * * प्रलम्बयेत् ॥२१॥ललाटमध्यान्नासाग्रात् हिक्कामध्यान्तमेव हि ।स्थितांघ्रिनलकामध्ये ब्रह्मसूत्रं प्रलम्बयेत् ॥२२॥तत्सूत्राद्वामतो नाभिमध्यं सार्धांगुलं भवेत् ।तत्सूत्राद्दक्षिणे सव्य हस्त * * * मात्रकम् ॥२३॥सूत्रात्स्थितांघ्रिजान्वन्तं रससप्ताष्टमात्र वा ।ललाटाद्गुल्फान्तसूत्रान्तं अक्षांगुलं भवेत् ॥२४॥नासा ओष्ठर मध्यं च ब्रह्मसूत्रं तु संस्पृशेत् ।अथो कुक्षिस्पृशेत्सूत्रं नासाग्रे चैव संस्पृशेत् ॥२५॥अथवा दक्षिणं पादं पीठस्थिता * * * * ।उद्धृतं वामपादं तु शेषं तदनुकूलितम् ॥२६॥सर्वाभरणसंयुक्तं बालं चेन्नग्नमेव वा ।सवस्त्रं वाथ कौपीनं कल्पयेत्कल्पवित्तमः ॥२७॥यौवनाश्च प्रवृद्धाश्च नानावस्त्रेण वेष्टितम् ।सात्विकं नृत्तमाख्यातं राजसं शृणु सुव्रत ! ॥२८॥सूचिं वाऽप्यथ दण्डस्ते वक्रदण्डं तु वांजलि ।दशनन्दाष्टमात्रं वा पीठात्पादोद्धृतं भवेत् ॥२९॥शेषं प्रागिव कर्तव्यं एवं राजसमेव हि ।दण्डहस्तं विना वामहस्तं वा मकुटीं स्पृशेत् ॥३०॥दण्डं दक्षिणहस्ते तु धृत्वा त्वीषन्नताननम् ।एकं वा द्वित्रिमात्रं वा पीठादुद्धृतपादकम् ॥३१॥भस्मोद्धूलितसर्वांगं अक्षमाल्यैरलंकृतम् ।तामसं ह्येवमाख्यातं एवं स्याद्भक्तलक्षणम् ॥३२॥प्रणवादिनमोन्तं च स्वनामपदमध्यकम् ।भक्तानां मन्त्रमाख्यातं तेनैवार्चनमाचरेत् ॥३३॥इत्यंशुमान्काश्यपे भक्तलक्षणपटलः (एकनवतितमः) ॥९१॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP