संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| गर्भन्यासविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - गर्भन्यासविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत गर्भन्यासविधिपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण गर्भन्यासविधिं परम् ।प्रासादं देहमित्युक्तं तस्य प्राणस्तु गर्भकम् ॥१॥गर्भहीने गृहे विप्र सकुत्कालवन्नवास्यकम् ।अहमन्ये च देवाश्च न वासे पुन्नगर्भके ॥२॥तस्मात्सर्वप्रयत्नेन गर्भन्यासं तु कारयेत् ।श्रीप्रदं प्राणिनां गर्भं इतरे श्रीकरं भवेत् ॥३॥गर्भन्यासं न कर्तव्यं कर्तव्यं कर्तृनाशनम् ।अधिष्ठाने प्रतेरूर्ध्वे भूसुराणां हिताय वै ॥४॥जगत्यूर्ध्वे नृपाणां तु कुमुदोर्ध्वे विशां परम् ।होमोर्ध्वे गर्भविन्यासं शूद्राणामभिवृद्धिदम् ॥५॥एवं जात्यर्हकं प्रोक्तं भूमौ त्वाद्येष्टकोपरि ।प्रासादे मण्टपे चैव प्राकारे गोपुरे तथा ॥६॥परिवारालये चैव गर्भन्यासं तु कारयेत् ।यत्रैवाद्येष्टकान्यासं तत्रगर्भं निधापयेत् ॥७॥सौवर्णं राजतं ताम्रं श्रेष्ठमध्याधमं क्रमात् ।कांस्येनैवायसा वापि कर्तव्यं गर्भभाजनम् ॥८॥पंचांगुलं समारभ्य यावद्वै विंशदंगुलम् ।एकांगुल विवृद्ध्या तु कलासंख्या तु भाजनम् ॥९॥एकादिषोडशान्तानां भौमानां तु यथाक्रमम् ।गर्भभाजनतारास्ते स्वांघ्रिमूलतदन्तु वा ॥१०॥गर्भभाजन विस्तारं सादृशोन्नतन्तथा ।भाजनोच्च त्रिभागैकं पिधानस्योच्छ्रयं भवेत् ॥११॥भाजने द्वित्रिभागान्तं पिधानालम्बनं द्विज ! ।यवैकव्यासमारभ्य यावार्धं तु विवर्धनात् ॥१२॥यावत् सार्धाष्ट यवकं तावद्भित्ति विशालकम् ।प्रागुक्तानां तु फेलायां क्रमशः परिकल्पयेत् ॥१३॥पंचविंशतिकोष्ठादि भाजनाभ्यन्तरे कुरु ।फेलाभित्ति विशालार्धं एकोर्वा भित्तेस्तु द्विजसत्तम ॥१४॥अनन्तादि शिखण्ड्यन्तं मूलमंत्रं निधापयेत् ।तद्बाह्ये षोडशे कोष्ठे पूर्वादि क्रमयोगतः ॥१५॥अकारादि विसर्गान्तं स्वरान्न्यस्त्वा क्रमेण तु ।रत्नलोहानि धातूंश्च फेलाया भ्यन्तरे न्यसेत् ॥१६॥मृत्कन्दधान्य पत्राणि गर्भगर्ते तु विन्यसेत् ।फेलाशुचिं ततो गव्यैः अस्त्रमंत्रमुदाहरन् ॥१७॥माणिक्यं विन्यसेत्कूटे कूटाक्षरमुदाहृतम् ।अनन्ते विन्यसेद्वज्रं सूक्ष्मे तु मौक्तिकं न्यसेत् ॥१८॥शिवोत्तमेन्द्रनीलं स्यात् स्फटिकं त्वेकनेत्रके ।एकरुद्रे तु शंखं स्यात् त्रिमूर्तौ पुष्यरागकम् ॥१९॥श्रीकण्ठे सूर्यकान्तं स्यात् वैडूर्यं तु शिखण्डिके ।स्वर्णे नैव गजं कृत्वा अकारे विन्यसेद्बुधः ॥२०॥कपालं रजतेनैव इकारे तु निधापयेत् ।ताम्रेणैव कृतं कुंभं उकारे द्विजसत्तम ॥२१॥आरकूटेन खट्वांगं ऋकारे तु निधापयेत् ।स्वर्णेन वृषभं कृत्वा कूटाक्षरे निधापयेत् ॥२२॥आकारे विन्यसेच्छ्यामं ईकारे तु मनश्शिला ।ऊकारे जातिलिंगं तु ऋकारे गैरिकं न्यसेत् ॥२३॥सौराष्ट्रं चैव ॡकारे ऐकारे त्वंजनं न्यसेत् ।गोरोचनं तथौकारे विसर्गे हरितालकम् ॥२४॥तत्तद्बीजमनुस्मृत्य विन्यसेत्तु क्रमेण च ।यवनी वारशाली च प्रियंगुतिलसर्षपम् ॥२५॥मुद्गानि सप्तबीजानि पूरयेद्गर्भ भाजनम् ।भाजनोर्ध्वे पिधानेन सुस्निग्धं सुदृढं कुरु ॥२६॥प्रासादस्योत्तरे चाग्रे पंचषट्सप्तहस्त वा ।षोडशस्तंभसंयुक्तं प्रपां कृत्वाति सुन्दरम् ॥२७॥पिधानस्योर्ध्वमाच्छाद्य तरंगस्तंभ वेष्टनम् ।द्वारतोरणसंयुक्तं दर्भमालादि भूषितम् ॥२८॥मण्टपस्य त्रिभागैकं मध्ये वेदीं प्रकल्पयेत् ।हस्तमात्रसमुत्सेधं तालमात्रमथापि वा ॥२९॥परितस्त्वग्निकुण्डानि महाशासु द्विजोत्तम ! ।चतुरश्रं धनुर्वृत्तं पद्मं प्रागादिषु क्रमात् ॥३०॥त्रिमेखला समायुक्तं नाभियोनिसमन्वितम् ।दर्पणोदरसंकाशं कुण्डवेदींस्त्वलं कुरु ॥३१॥ततः शिल्पिनमुद्वास्य गोमयालेपनं गुरुः ।पिष्टचूर्णैरलं कृत्य पुण्याहं प्रोक्षणं कुरु ॥३२॥वेद्यूर्ध्वे स्थंडिलं कृत्वा चतुर्द्रोणैः सुशालिभिः ।तिलतण्डुललाजैश्च दर्भैः पुष्पैः परिस्तरेत् ॥३३॥गन्धपुष्पादिभिः पूज्य दिशि देवान्स्वमंत्रतः ।गव्याभिषिच्य फेलायां स्नापयेद्गन्ध तोयकैः ॥३४॥तन्तुना कौतुकं बध्वा नववस्त्रेण वेष्टयेत् ।स्थण्डिले स्थापयेत्फेलां कूटाक्षरमुदाहरन् ॥३५॥परितोऽष्टौ घटान्न्यस्त्वा ससूत्रान्सापिधानकान् ।सकूर्चान्वस्त्रसंयुक्तान् गन्धाम्बुपरिपूरितान् ॥३६॥विद्येशाधिपकुंभांस्तान् स्थाप्याभ्यर्च्य स्वमंत्रतः ।कुण्डानि पंचसंस्कारं कृत्वा होमं समाचरेत् ॥३७॥अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ।समिदाज्य चरुं लाजान् तिलसर्षपतण्डुलान् ॥३८॥हृदयादि षडंगैश्च ईशानेन क्रमेण तु ।होमं कृत्वा विशेषेण प्रत्येकाष्टशताहुतिम् ॥३९॥द्रव्यान्ते व्याहृतिं हुत्वा मूलेनैव शताहुतिम् ।जयादिरभ्यातानैश्च राष्ट्रभृच्चैव होमयेत् ॥४०॥एवं जागरणं रात्रौ प्रभाते सुमुहूर्तके ।सुनक्षत्रे सुलग्ने च सुतिथौ च सुवारके ॥४१॥आदिशैव कुले जातं स्वाचार्यं शिवदीक्षितम् ।स्नानद्वयसमायुक्तं सकलीकृतविग्रहम् ॥४२॥सितवस्त्रोत्तरीयं च सितमाल्यानुलेपनम् ।आचार्यं पूजयेत्सम्यक् वस्त्रहेमांगुलीयकैः ॥४३॥शिल्पिनं पूजयेत्तत्र वस्त्रैश्चाभरणादिभिः ।गर्भस्थानं प्रविश्याथ कर्ताचाचार्य शिल्पिभिः ॥४४॥अष्टधा विभजेद्भित्तिं बाह्यतश्चतुरं त्यजेत् ।त्रीणि वाभ्यन्तरे वर्ज्य शेषांशे भाजनं न्यसेत् ॥४५॥हृन्नदीसस्य वल्मीकं हलस्थं कुलिरावटे ।नागदन्ते वृषशृंगे वा अष्टमृद्ग्राह्य देशिकः ॥४६॥गर्भगर्त तमापूर्य कन्दं न्यस्त्वा मृदोपरि ।मध्येत्वंबुजकन्दं च पूर्वे कुमुदकन्दकम् ॥४७॥दक्षिणे चोत्पलं कन्दं सौगन्धिं पश्चिमे न्यसेत् ।सौम्ये कशेरुकन्दं च बीजं तदुपरि न्यसेत् ॥४८॥पूर्वे तु विन्यसेच्छालीं ब्रीहि वै दक्षिणे न्यसेत् ।पश्चिमे कोद्रवं न्यस्त्वा माषमुत्तरतो न्यसेत् ॥४९॥पावके विन्यसेन्मुद्गं नैर्-ऋत्यां कंगुबीजकम् ।प्रियंगुं वायुभागे तु वैशान्यां तु कुलस्थकम् ॥५०॥एवं न्यस्त्वा हृदामंत्रं ततो वै गर्भभाजनम् ।सर्वातोद्य समायुक्तं नृत्तगेयसमाकुलम् ॥५१॥जयशब्द समायुक्तं ब्रह्मघोषसमायुतम् ।प्रासादबीजमुच्चार्य स्थापयेद्गर्भभाजनम् ॥५२॥गन्धपुष्पादिभिः पूज्य प्रासादं गर्भभाजने ।शैलैर्वाचेष्टकाभिर्वा सैकतैस्सुदृढं कुरु ॥५३॥गर्भन्यासविधिः ख्यातं ततस्त्वेकतलं शृणु ।इत्यंशुमान्काश्यपे गर्भन्यासविधिपटलः (पंचविंशः) ॥२५॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP