संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| प्रथमेष्टकापटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - प्रथमेष्टकापटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत प्रथमेष्टकापटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण शृणुष्व प्रथमेष्टकाम् ।प्रासादे मण्टपे साले गोपुरे च तथैव च ॥१॥सदने परिवाराणां विन्यसेत् प्रथमेष्टकाम् ।स्निग्धं चैवा तथाऽस्निग्धं द्विविधं भूमिलक्षणम् ॥२॥चिक्कणा शर्कराढ्या च त्वशक्यं खननक्रियाः ।या सा स्निग्धा मही ख्याता तनुवालुकसंयुता ॥३॥पुरुषांजलि मात्रे तु दृष्टतोयसमन्विता ।अक्लेशात्खननीयं तत् सुस्निग्धा स मही स्मृता ॥४॥प्रासादस्य तु विस्तारात् द्विहस्ताधिक विस्तृतम् ।हस्तमात्रं खनेद्विप्रा सुस्निग्धं तु महीतलम् ॥५॥यावताजलदृष्टं तु तावता स्निग्धकं खनेत् ।अवटं वालुकैः स्थूलैः पूरयित्वा जलान्वितम् ॥६॥पूरयित्वा स्थलं पश्चात् जलेन समतां कुरु ।मुसलैर्हस्तपादैश्च स्निग्धं कृत्वा बृहच्छिलैः ॥७॥एवमाधारमानं तु त्वधिकामवटं कुरु ।मानसूत्राणि सूत्राणि पातयेत्तत्र देशिकः ॥८॥प्रथमं मानसूत्रं तु विन्यासं तु द्वितीयकम् ।तृतीयाधिष्ठसीमा च चतुर्थोपपीठसीमका ॥९॥पंचमं होमसूत्रं तु षष्ठं प्रकृति सूत्रकम् ।एवं क्रमेण विन्यस्य सूत्रषट्कं द्विजोत्तम ॥१०॥तस्योत्तरे प्रपां कृत्वा नवहस्तप्रमाणतः ।षोडशस्तम्भ संयुक्तं वितानध्वजभूषितम् ॥११॥तोरणैर्दर्भमाल्यैश्च मुक्तादामैरलं कृतम् ।मण्टपस्य त्रिभागैकं वेदिकायास्तु विस्तरम् ॥१२॥हस्तमात्रसमुत्सेधं दर्पणोदरसंनिभम् ।परितस्त्वग्निकुण्डानि महाशासु प्रकल्पयेत् ॥१३॥वेदाश्रं च धनुर्वृत्तं अब्जमिन्द्रादिषु क्रमात् ।हस्तमात्रप्रविस्तारं घातं चैव त्रिमेखलाम् ॥१४॥गोमयालेपनं कृत्वा प्रोक्षयेत्पंचगव्यकैः ।पिष्टचूर्णैरलंकृत्य ततो वै विप्रभोजनम् ॥१५॥कृत्वोच्छिष्टं समुद्वास्य वास्तुहोमं ततः परम् ।पर्यग्निकरणं कृत्वा प्रोक्षयेत्तु कुशांभसा ॥१६॥स्थण्डिलं वेदिकायां तु चाष्टद्रोणैश्च शालिभिः ।तदर्धैस्तंडुलैश्चैव तदर्धैश्च तिलैरपि ॥१७॥स्थंडिलं कल्पयेद्विद्वान् दर्भैः पुष्पैः परिस्तरेत् ।शिलाहर्म्ये शिलाभिस्तु दारुभिर्दारुहर्म्यके ॥१८॥आद्येष्टका तु कर्तव्या विपरीतं तु नाचरेत् ।पुंलिंगाभिश्शिलाभिस्तु कारयेत्प्रथमेष्टकाम् ॥१९॥द्वारबन्धस्तु कर्तव्यः स्त्रीशिलाभिर्विशेषतः ।नपुंसकोपलेनैव मूर्धेष्टकां द्विजोत्तम ! ॥२०॥नुपंसकोपलेनैव भित्तिं कुर्याद्दृढीकृताम् ।यथालाभशिलाभिर्वा भित्तिस्तम्भादयो(दिकं) भवेत् ॥२१॥वस्वंगुलं समारभ्ये द्विद्व्यंगुलविवर्धनात् ।अष्टत्रिंशांगुला यावत् आयामं तु कला भवेत् ॥२२॥आयामार्धं विशालं स्यात् विशालार्धं घनं भवेत् ।मानांगुलेन कर्तव्यं अन्यमानं न कारयेत् ॥२३॥नवांगुलं समारभ्य द्विद्व्यंगुल विवर्धनात् ।एकोन चत्वारिंशान्तं भेदभोजांगुलेन तु ॥२४॥विस्तारं च घनं पश्चात् तत्संख्या चैव षोडश ।एकादि षोडशान्तानां भूमीनां क्रमशोच्यते ॥२५॥मूर्धेष्टकासुपुंसादिरेखाभिस्तु परीक्षयेत् ।अयुग्मं ऋजुरेखा च पुंलिंगाय प्रकीर्तिता ॥२६॥युग्मरेखा स चक्रा च स्त्रीलिंगाय प्रकीर्तिता ।युग्मरेखा सयुग्मं वा कर्णिका सा नपुंसका ॥२७॥रेखाबिन्दुकलंकादि लूतपातसमन्वितम् ।वर्जितानि प्रयत्नेन दोषहीनं तु संग्रहेत् ॥२८॥ईषदुन्नतमूलस्य नतमग्रमुदाहृतम् ।ऊर्ध्वभागमुखं ख्यातं अपरं भूपतांशकम् ॥२९॥अश्मानं भूगतं चाग्रं ऊर्ध्वं चापरमुच्यते ।प्रागुदक्स्थकमैशान्यं शीर्षं वै परिकीर्तितम् ॥३०॥मूलं तदितरज्ज्ञातं प्रमाणं त्विष्टकासमम् ।गव्यैर्गन्धोदकैः स्नाप्य पूर्वरात्राधिवासयेत् ॥३१॥शिवद्विजकुलोत्पन्नः शिवदीक्षासमन्वितः ।सर्वलक्षणसंपन्नो वेदाचाररतः शुचिः ॥३२॥आपोवहनकं स्नानं भस्मस्नानं च कारयेत् ।नवाम्बरधरोष्णीषाः सोत्तरीयानुलेपनः ॥३३॥गन्धमाल्यैरलंकृत्य सकलीकृतविग्रहः ।पंचांगभूषणैर्भूष्य क्षालयेत्प्रथमेष्टकाः ॥३४॥हैमैः कार्पाससूत्रैर्वा बध्वा प्रतिसरं हृदा ।स्थंडिले कर्णिकाबाह्ये महाशासु निधापयेत् ॥३५॥लकारं प्राग्दिशो भागे वकारं याम्य गोचरे ।रकारं वारुणे देशे यकारं सौम्यगोचरे ॥३६॥शालिपिष्टेन संलिख्य प्रत्येकं वस्त्रवेष्टितम् ।पूर्वाग्रं सौम्य याम्ये तु शेषौ द्वौ चोत्तराग्रकौ ॥३७॥स्थापयेत्तु समभ्यर्च्य पृथिव्याद्यात्मकं क्रमात् ।नवसंख्यानवान्कुंभान् ससूत्रान्वस्त्रवेष्टितान् ॥३८॥ससूत्रान्सापिधानांश्च नानागन्धाम्बुपूरितान् ।हेमपंकजसंयुक्तान् मध्यादिक्रमशो न्यसेत् ॥३९॥कुंभमध्ये तु सादाख्यं परितो लोकपालकान् ।तत्तन्मन्त्रं न्यसेत्कुम्भे ध्यात्वा गन्धादिभिर्यजेत् ॥४०॥नैवेद्यं दापयेद्धीमान् ततो होमं समाचरेत् ।अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥४१॥पलाशौ दुम्बराश्वत्थ वटमिन्द्रादिषु क्रमात् ।समिधस्सद्यमंत्रेण मूलेनाज्यं तु होमयेत् ॥४२॥चरुहोममघोरेण नेत्रेणैव तिलं तथा ।सर्षपं कवचेनैव प्रत्येकाष्टशताहुतिः ॥४३॥द्रव्यं प्रति विशेषेण व्याहृत्याहुतिमाचरेत् ।एवं जागरणं रात्रौ प्रभाते देशिकोत्तमः ॥४४॥आपोवगाहनादीनि प्रागिवैव समाचरेत् ।इष्टकाः कलशाग्निं च पूजयेत्तु विशेषतः ॥४५॥जयादिरभ्यातानं च राष्ट्रभृच्चैव होमयेत् ।स्विष्टमग्नेति मंत्रेण पूर्णाहुतिमथाचरेत् ॥४६॥स्थापकः स्थपतिं पूज्य वस्त्रहेमांगुलीयकैः ।मुहूर्ते समनुप्राप्ते द्वारं नीत्वाऽथ देशिकः ॥४७॥द्वारस्य दक्षिणे चांघ्रिमूले भित्त्यन्तरालके ।इष्टकां वा शिलां वा तु स्थापयेद्देशिकोत्तमः ॥४८॥प्रासादमण्टपानां च निर्गमस्य प्रदक्षिणे ।सालानां गोपुराणां च प्रवेशस्य प्रदक्षिणे ॥४९॥अभ्यन्तरे तु भित्तेस्तु गोपुराणां निधापयेत् ।अग्रमग्रं तथैशान्यां मूलमूलं च नैर्-ऋते ॥५०॥अग्रमूलसमायुक्तं अग्नौ वा वायुगोचरे ।पंचब्रह्म समुच्चार्य पूर्वादिक्रमशो न्यसेत् ॥५१॥तन्मध्ये विन्यसेद्रत्नान् हेमपंकजसंयुतम् ।पंचमृद्भिः समालिप्य कुंभस्थाद्भिः प्रपूरयेत् ॥५२॥शोभनं दक्षिणावर्तं वामावर्तमशोभनम् ।वामावर्ते भवेत्सम्यक् शान्तिहोमं समाचरेत् ॥५३॥यागोपकरणं सर्वं आचार्याय प्रदापयेत् ॥५३॥इत्यंशुमान्काश्यपे प्रथमेष्टकापटलः (चतुर्थः) ॥४ ॥ N/A References : N/A Last Updated : October 14, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP