संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| विनायकलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - विनायकलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत विनायकलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण विघ्नराजस्य लक्षणम् ।पादादुष्णीषपर्यन्तं चतुष्षष्ट्यंशभाजितम् ॥१॥मूर्ध्ना मस्तकनिम्नान्तं अंगुलद्वयमुच्यते ।तस्माद्वै नेत्रसूत्रान्तं चतुर्मात्रमुदाहृतम् ॥२॥नेत्रसूत्राच्च हन्वन्तं भागमष्टांगुलं भवेत् ।तस्माच्च कर्णमानं स्यात् द्वयंगुलमुदाहृतम् ॥३॥मेढ्रादुदरनिष्क्रान्तं वसुमात्रमिति स्मृतम् ।ऊरुः षडंशमानः स्यात् जानुदीर्घं गुणांगुलम् ॥४॥जंघा चोरुसमं दीर्घं गुणं पादतलोन्नतम् ।सप्तांगुलसमायामं अंगुष्ठादि वसानकम् ॥५॥स पादांगुष्ठायतं द्व्यंशं सार्धांशं तु कनिष्ठिका ।तर्जन्यादिकनिष्ठान्तं प्रत्येकं तु यवोनकम् ॥६॥त्रयोदशांगुलं बाहु प्रकोष्ठायां नवांगुलम् ।चतुर्मात्रं तलायामं अग्न्यंशं मध्यमांगुलम् ॥७॥तर्जन्या नामिका द्वौ च एकविंशद्यवं पदम् ।कनिष्ठांगुष्ठयोश्चैव दीर्घं सप्तदशा यवम् ॥८॥द्वादशाष्टौ नवाष्टौ च सप्तसंख्या यवं क्रमात् ।अंगुष्ठादि कनिष्ठान्तं व्यासमित्यभिधीयते ॥९॥तद्व्यासं स त्रिपादं स्याद् नखव्यासमुदाहृतम् ।नखव्यासं त्रिपादं स्याद् नखदीर्घाय वृत्तवत् ॥१०॥वेदं करतलव्यासं मणिबन्धं त्रयर्धकम् ।प्रकोष्ठान्तं युगांगुल्यं बाहुव्यासं षडर्धकम् ॥११॥बाहुमूलं तु वस्वंशं मस्तकोष्टांशकं ततम् ।सप्तांगुलं नतं निम्नो मुखमध्ये दशांगुलम् ॥१२॥हस्तमूले षडंगुल्यं नाभ्यन्तं तस्य दीर्घकम् ।तदंगुलाग्रविस्तारं सार्धमात्रं द्विजोत्तम ! ॥१३॥क्रमेण कृशतां हस्तमध्ये तु सुषिरद्वयम् ।वामदन्तायतद्भवेत् वेदमात्रमित्यभिधीयते ॥१४॥दक्षिणे दन्तमूलस्य द्व्ययोच्चं समतलं भवेत् ।अधरस्य तु निष्क्रान्ताल्लम्बनं द्व्यंगुलं भवेत् ॥१५॥नेत्रायामविशालं च षड्यवं परिकीर्तितम् ।कर्णभूतांगुल व्यासं उत्सेधं चैव तत्समम् ॥१६॥अर्धांगुलं घनं चैव कर्णमूलं द्वियं गुलम् ।यद्वद्गजाननं तद्वत् कर्तव्यं तु मुखं द्विज ॥१७॥बाहुपर्यन्तविस्तारं द्वात्रिंशदंगुलं भवेत् ।एकोनविंशदंगुल्यं कक्षान्तरमुदाहृतम् ॥११८॥स्तनान्तरं दशांगुल्यं हिक्कायस्तनद्वदेव हि ।स्तनाक्षं स यवव्यासं द्व्यंगुलं स्तनमण्डलम् ॥१९॥स्तनतारविशालं तु त्रिःपंचांगुलमुच्यते ।द्वाविंशदंगुलं ख्यातं मध्योदरविशालकम् ॥२०॥नाभिनिम्नविशालं तु अध्यर्धांगुलमुच्यते ।लिंगायामं गुणांगुल्यं तस्यार्धं तस्य विस्तृतम् ॥२१॥मुष्लायामं विशालं तु गुणांगुलमुदाहृतम् ।ऊरुमूलं द्वादशांगुल्यं ऊरुमध्यं षडर्धकम् ॥२२॥जानुभागं ततांगुल्यं जंघातारं समांगुलम् ।नलकातारयुगांशं स्या पंचांशं पादविस्तृतम् ॥२३॥द्वादशाष्टौ षडर्धं च षट्पंचकयवं क्रमात् ।अंगुष्ठादिकनिष्ठान्तं पादांगुलि विशालकम् ॥२४॥तत्त्रिपादनखव्यासं तदर्धायतमण्डनम् ।स्थानकं त्वासनं वापि पद्मपीठे विशेषतः ॥२५॥स्वदन्तं दक्षिणे हस्ते वामहस्ते कपित्थकम् ।मोदकं गजहस्ते तु अंकुशं दक्षिणे करे ॥२६॥वामहस्ते तु पाशं वा नागं वा अक्षमालिकाम् ।त्रिणेत्रं हेमसंकाशं दुकूलवसनच्छदम् ॥२७॥आभंगं समभंगं वा स्थानके तु प्रकल्पयेत् ।आसने त्वासनं चेतु वामपादं तु शाययेत् ॥२८॥वामेतरोरुमूर्ध्वस्थ पादेनोकुटिकासनम् ।ईषद्वक्रतनुर्वामे कर्तव्यं तु विशेषतः ॥२९॥व्यालयज्ञोपवीतं तु किरीटमकुटान्वितम् ।सर्वाभरणसंयुक्तं महाकायं महोदरम् ॥३०॥एवं विनायक ख्यातं शृणु षण्मुखलक्षणम् ।इत्यंशुमान्काश्यपे विनायकलक्षणपटलः (अष्टचत्वारिंशः) ॥४८॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP