संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
षोडशभूमिविधिपटलः

अंशुमत्काश्यपागमः - षोडशभूमिविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ षोडशभूमेस्तु लक्षणं वक्ष्यतेऽधुना ।
एवं क्रमेण संकल्प्य पंचालीन्दसमन्वितम् ॥१॥

पंचहारसमायुक्तं गृहपिण्डिस्तु बाह्यकम् ।
गर्भगेहं रसांशं च वेदांशं गृहपिण्डिका ॥२॥

शेषं पूर्ववदुद्दिष्टं अलिन्दादि द्विजोत्तम ! ।
एकद्वित्रिचतुष्पंच भूमौ वाथ धरातले ॥३॥

देवतास्थापनं कुर्यात् षोडशस्थलहर्म्यके ।
देवस्थापनभूम्यन्तं यावत्तावद्घनं कुरु ॥४॥

बाह्ये तु चित्रालंकारं घनभूम्यन्तरं कुरु ।
अलिन्दं लजपादं वा छादितं वा तुलादिभिः ॥५॥

प्रस्तरान्तं घनं वाथ हारान्तं वाथ तद्घनम् ।
व्यासे स वेदित्रिंशांशे कर्णकूटं शिवांशकम् ॥६॥

हर्म्यमध्ये तु वेदांशं शालायाममुदाहृतम् ।
तयोर्मध्ये द्विभागेन शालादीर्घमुदाहृतम् ॥७॥

तयोर्मध्ये च शालां तु पक्षांशेनैव कल्पयेत् ।
तयोर्मध्ये विधांशेन पंजरं कर्णकूटवत् ॥८॥

हारान्तरं तयोर्मध्ये अर्धांशेनैव कल्पयेत् ।
एवं हि कल्पयेदादिभूमिशालाष्टविंशतिः ॥९॥

कर्णकूटं तु वेदाः स्युः द्वात्रिंशत्पंजरं भवेत् ।
सवेदषष्टि संख्याः स्युः हारान्तरं द्विजोत्तम ! ॥१०॥

एवमादितलं ख्यातं द्वितीयं द्वात्रिंशदंशके ।
द्विभागं मध्यशाला स्यात् शेषं पूर्ववदेव हि ॥११॥

द्वितीया ह्येवमाख्यातं तृतीयमधुनोच्यते ।
त्रिंशदंशविभागं तु कृत्वा तृतीयभूतलम् ॥१२॥

कर्णकूटस्थ पार्श्वस्थं पंजरं चार्धभागया ।
हारान्तरं तदर्धं स्यात् शेषं द्वितीय भूमिवत् ॥१३॥

चतुर्थभू विशालं तु साष्टविंशति भाजिते ।
कर्णकूटसमं पिण्डीशालायास्तु द्विपार्श्वयोः ॥१४॥

पंजरव्यासमर्धांशं शेषं प्रागिव कल्पितम् ।
पंचमे तल विस्तारे षड्विंशत्यंश भाजिते ॥१५॥

मध्यशाला तु वेदांशं व्योमांशं कर्णकूटकम् ।
तयोर्मध्यस्थशाला च तयोर्मध्ये च कोष्ठकम् ॥१६॥

प्रत्येकं द्विद्विभागेन कल्पयेत्कल्पवित्तमः ।
तयोर्मध्येऽर्धभागेनपंजरं कर्णकूटवत् ॥१७॥

हारान्तरं तदर्धेन तेषां संख्यादिभूमिवत् ।
षष्ठं च भूमिविस्तारं चतुर्विंशति भाजिते ॥१८॥

मध्ये कोष्ठद्विभागेन शेषं पूर्ववदेव हि ।
सप्तमं भूमिविस्तारं द्वाविंशत्यंशकं भजेत् ॥१९॥

शिवांशं कर्णकूटं स्यात् मध्ये शाला द्विभागया ।
तयोर्मध्ये शिवांशेन क्षुद्रं कोष्ठं प्रकल्पयेत् ॥२०॥

तयोर्मध्ये द्विभागेन शालां कुर्याद्विशेषतः ।
अध्यर्धं पंजरव्यासं तदर्धं हारयोन्तरम् ॥२१॥

पंजरं कूटकोष्ठं च संख्या वै प्रागिवैव तु ।
अष्टमं भूमि विस्तारं विंशत्यंशविभाजिते ॥२२॥

व्योमांशं कर्णकूटं स्यात् मध्ये कोष्ठद्विभागया ।
तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् ॥२३॥

तयोर्मध्ये शिवांशेन क्षुद्रकोष्ठं प्रकल्पयेत् ।
शेषं प्रागिव कर्तव्यं तेषां संख्या तु पूर्ववत् ॥२४॥

नवभूमि विशाल्ं तु त्रिष्षडंश विभाजिते ।
शिवांशं कर्णकूटं स्यात् मध्ये शाला द्विभागया ॥२५॥

तयोर्मध्येऽर्धभागेन पंजरं परिकल्पयेत् ।
तस्यार्धेनैव तत्पार्श्वेदयो हारान्तरं भवेत् ॥२६॥

तत्पार्श्वयोर्द्विभागं स्यात् कोष्ठं कुर्याद्विशेषतः ।
कूटकोष्ठान्तरे चैव कोष्ठयोरन्तरेऽपि वा ॥२७॥

पंजरं कल्पयेद्धीमान् अर्धांशेनैव सुव्रत ! ।
हारान्तरं तदर्धांशं कल्पयेत्कल्पवित्तमः ॥२८॥

विंशत्कोष्ठं च तत्कूटं पंजरं भानुभिर्द्वयम् ।
कल्प्येवं नवमे भूमौ दशभूमेस्तु विस्तरम् ॥२९॥

दशभूमेस्तु विस्तारं षोडशांशविभाजिते ।
कर्णकूटं शिवांशं स्यात् तत्समं पंजरस्ततम् ॥३०॥

शालायामं द्विभागेन त्वर्धांशं हारयोन्तरम् ।
भानुशाला चतुष्कूटं कलापंजरसंयुतम् ॥३१॥

हारान्तरं तु द्वात्रिंशत् कल्पयेद्दशमे तले ।
एकादशतलव्यासं मनुभाग विभाजिते ॥३२॥

शिवांशं कर्णकूटं तु मध्ये शाला द्विभागया ।
तयोर्मध्ये स्थलांशानां गुणांशं परिकल्पयेत् ॥३३॥

अर्धांशं पंजरव्यासं तस्यार्धं हारयोन्तरम् ।
चतुष्कूटा तु शाला च पंजरं षोडशान्वितम् ॥३४॥

हारान्तरं तु द्वात्रिंशत् कल्प्यं रुद्रतलेऽपि च ।
भानुभूमिविशालं तु भानुभागविभाजिते ॥३५॥

पंजरं कूटकोष्ठं च संख्या रुद्रतलोक्तवत् ।
सर्वेषामपि कोष्ठानां पंचांशं प्रविधीयते ॥३६॥

त्रयोदशतलव्यासं दशभागविभाजिते ।
कर्णकूटं शिवांशेन मध्ये शाला द्विभागया ॥३७॥

तयोमध्यैकभागेन शालाकारं प्रकल्पयेत् ।
तयोर्मध्ये विभागेन पंजरं कर्णकूटवत् ॥३८॥

हारान्तरस्य तस्यार्धं संख्या द्वादशभूमिवत् ।
चतुर्दशतलव्यासं वसुभागविभाजिते ॥३९॥

कर्णकूटं शिवांशेन मध्ये शाला द्विभागया ।
अर्धांशं पंजरव्यासं तस्यार्धं हारयोन्तरम् ॥४०॥

चतुष्कूटं चतुश्शाला पंजरं षोडशान्वितम् ।
हारान्तरं चतुर्विंशत् कल्प्यमेवमनुक्रमात् ॥४१॥

त्रिपंचभूमिविस्तारं षड्भागं विभजेत्समम् ।
कर्णकूटं तु व्योमांशं मध्येशाला द्विभागया ॥४२॥

हारान्तरं तु शश्यंशं युगपंजरसंयुतम् ।
अशेषोर्ध्वतलं व्यासं वेदभागविभाजिते ॥४३॥

द्विभागं विस्तृतं दण्डमाननीव्रं तु मध्यमे ।
कृत्वा प्रासादतुंगं तु द्विभागेन शतद्वयम् ॥४४॥

धरातलं तु सप्तांशं चरणोच्चं त्रयोदश ।
सार्धषट्कं तु मंचोच्चं पादोच्चं भानुसंख्यया ॥४५॥

प्रस्तरोच्चं तु षड्भागं रुद्रांशं चरणोदयम् ।
सार्धभूतांशमंचं स्यात् दशांशं चरणोदयम् ॥४६॥

सार्धवेदांश मंचोच्चं कल्पयेत्कल्पवित्तमः ।
पादोच्चं सार्धवस्वंशं मंचमानं युगांशकम् ॥४७॥

वस्वंशं चरणोच्चं तु मंचं पादोनकं युगम् ।
चरणं सार्धसप्तांशं प्रस्तरं सार्धत्रिभागिकम् ॥४८॥

सप्तांशं पाददीर्घं वा पादाधिकाग्निमंचकम् ।
अर्धाधिकषडंशं तु पादोच्चमग्निमंचकम् ॥४९॥

षडंशं पादमानं तु पादोन त्र्यंशमंचकम् ।
अर्धाधिकं तु भूतांशं पाददीर्घमुदाहृतम् ॥५०॥

अर्धाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् ।
सपादं पंचभागं तु पाददीर्घमुदाहृतम् ॥५१॥

सार्धपक्षांश मंचोच्चं भूतांशं चरणोदयम् ।
सपादं पक्षभागं तु मंचदीर्घमुदीरितम् ॥५२॥

पादोन पक्षभागं तु चरणोदयमीरितम् ।
मंचमानं द्विभागं स्यात् सार्धवेदांशमंघ्रिकम् ॥५३॥

स त्रिपादशिवांशं तु प्रस्तरस्य समुच्छ्रयम् ।
शश्यंशं वेदिकामानं कण्ठोच्चं तु द्विभागया ॥५४॥

अर्धाधिक युगांशं तु शिखरोदयमीरितम् ।
सपादांशं शिखामानं कल्पयेत्तु क्रमेण तु ॥५५॥

होमादिस्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् ।
शिखरे तु चतुर्दिक्षु महानासी समन्वितम् ॥५६॥

पादं प्रत्यल्पनास्याढ्यं ब्रह्मकान्तमुदाहृतम् ।
तदेव सान्तरं मंचं सौष्टिकं नत कोष्ठकम् ॥५७॥

सारस्वतमिदं ख्यातं शिवप्रियकरं गृहम् ।
तदेव नतकूटं च कोष्ठोन्नत स मंचकाः ॥५८॥

प्रादेशमिति विख्यातं सर्वेषामृद्धिकारणम् ।
तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् ॥५९॥

शिखरेऽष्टमहानासी युक्तं तच्छ्रीकरं भवेत् ।
तदेव मध्यभद्राढ्यं कूटकोष्ठसमन्वितम् ॥६०॥

समंचो वा विमंचो वा कूटशाला द्विजोत्तम ! ।
पार्वतीकमिदं ख्यातं उपप्रतिकरं भवेत् ॥६१॥

तदेव शिखरं कण्ठं वृत्तं वाष्टाश्रवेदिका ।
वेदिकोर्ध्वे तयावैव वृत्ताकार समन्वितम् ॥६२॥

सुशांभवमिदं ख्यातं शंकरस्य प्रियं हितम् ।
पंजरं कूटकोष्ठं च शिखरं च घटं तथा ॥६३॥

एवमादीनि सर्वाणि नागराद्युचितं कुरु ।
अनेनैवाथवा कुर्यात् एकाद्यानेकभूमिकम् ॥६४॥

    * थ तलं ह्येष कर्तव्यं तस्यादिमंचकम् ।
तत्तद्युचितविस्तारं तुंगकुड्यं च गर्भकम् ॥६५॥

कर्तव्यं विधिनानेन गं च लंकारसंयुतम् ।
सालिन्दसदनानां तु सोपानारोहणं यथा ॥६६॥

तत्र तत्रोचितं कुर्यात् शिलाभिर्वेष्टकाद्रुमैः ।
तस्याग्रं मण्डलं कुर्यात् एकानेकतलं तु वा ॥६७॥

प्रागुक्त विधिना कुर्यात् सर्वालंकारसंयुतम् ।
करालमुद्गीगुल्माष कल्कचिक्कणकर्मवान् ॥६८ ।

नानावर्णैर्विचित्रं तु कर्तव्यं विधि चोदितम् ।
एवं यः कुरुते हर्म्यं अशक्यापेक्षितं तु वा ॥६९॥

इहैव धनवान् श्रीमान् पुत्रपौत्रकलत्रवान् ।
दासीदासादिभिश्चान्यै स्वच्छावशमुदा स्वभिः ॥७०॥

सोऽन्ते कुलैकविंशच्च धावयेत्तु मुदानुमम् ।

इत्यंशुमान्काश्यपे षोडशभूमिविधिपटलः (चत्वारिंशः) ॥४०॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP