संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
अष्टतालविधिपटलः

अंशुमत्काश्यपागमः - अष्टतालविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ वक्ष्ये विशेषेण अष्टतालविधिं परम् ।
शतांशमध्यबिम्बोच्चं कृत्वोष्णीषं शिवांशकम् ॥१॥

सार्धद्वांशं तु केशान्तं केशान्ताद्धनुसीमकम् ।
पादोनरुद्रभागं स्यात् तत्त्रिभागं विभाजिते ॥२॥

शिवांशं व्यक्षिसूत्रान्तं पुटान्तं चैव तत्समम् ।
पुटान्ताद्धन्वन्तकं शेषं सार्धाग्न्यंशं गलोदयम् ॥३॥

हिक्कादि हृदयान्तं तु रुद्रांशं तु द्व्यवोनकम् ।
नाभ्यन्तं चैव तत्तुल्यं मेढ्रमूलान्तकं तथा ॥४॥

सार्धत्रिसत्पभागं च ऊरुदीर्घमुदाहृतम् ।
जानुकर्णसमं तुंगं जंघाचोरुसमा भवेत् ॥५॥

जानुकूलतलोत्सेधं बाहुचोरुसमायतम् ।
प्रकोष्ठं तु कलांशं स्यात् सार्धभूतांगुलं तलम् ॥६॥

तत्समं मध्यमांगुल्यं शेषं प्रागिव चोदितम् ।
त्रिपंचमात्रमित्युक्तं पादस्य तु तलायतम् ॥७॥

अत्रानुक्तं तु यत्सर्वं कन्यसं दशतालवत् ।


इत्यंशुमान्काश्यपे अष्टतालविधिपटलः (द्वाषष्ठितमः) ॥६२॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP