संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| कर्षणविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - कर्षणविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत कर्षणविधिपटलः Translation - भाषांतर शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥शशिधरं महादेवं सर्वलोकैकनायकम् ।महेन्द्र मध्यगं शान्तं पार्वती सहितं परम् ॥२॥देवदानवसिद्धाद्यैः सेवितं सुरपूजितम् ।प्रणम्य चरणौ देव संघैस्सह तु काश्यपः ॥३॥शुचे परमसद्भाव प्रशान्तं सृष्टिकारणम् ।जगतामभिवृद्ध्यर्थं योगिनामुपकारकम् ॥४॥देवानां च हितार्थाय शिवज्ञानसमुद्भवम् ।महार्थमल्पग्रन्थं च कर्षणादिज्ञानसीमकम् ॥५॥अंशुमानिति तन्त्रं च त्वयोक्तं हि पुरातनम् ।तन्त्रं तव च देवानां यन्त्राणामधिकारिणाम् ॥६॥अल्पायुष्यादि धर्माणां नराणां चाधिकारिणाम् ।अनुग्रहान्तं तत्तेषां संक्षेपाद्वद मे प्रभो ॥७॥साधु साधु महाविप्र ! यत्त्वया परिचोदितम् ।दुर्लभं तदहं वक्ष्ये शृणुष्वैकाग्रमानसः ॥८॥पुष्यमासादि षण्मासा माघमासेतराः शुभाः ।दक्षिणे चाश्वयुङ्मासं श्रावणी कृत्तिका तथा ॥९॥पूजिता दक्षिणादीनां शेषा मासा विवर्जिताः ।पौष्णादित्यमघास्वाती सावित्री त्वष्ट्ट मैत्रकः ॥१०॥श्रवणार्द्रा प्रजेशस्तिष्याश्वयुक् च त्रयोत्तराः ।दिनेषु पूजितास्त्वेताः प्रतिपत्षष्ठि सप्तमी ॥११॥तृतीया पंचमी चैव द्वितीया च त्रयोदशी ।दशमी तिथयः शस्ताः शुक्लपक्षे विशेषतः ॥१२॥प्रतिपत्पौर्णमासी च द्वितीया पंचमी तथा ।तृतीया मध्यमा ख्याता कृष्णपक्षे द्विजोत्तम ! ॥१३॥षष्ठी च दशमी कृष्णे कनिष्ठा चैव गर्हिताः ।सितसौम्यशशी जीववाराः श्रेष्ठतमाः शुभाः ॥१४॥तेषामंशोदयं होराद्रेक्काणाश्चैव दर्शिताः ।शुभमेवेति विज्ञेयाः तत्र शश्युदयं विना ॥१५॥कटकं तौल्यमकरं मेषं च धनुषं विना ।मेषराश्युदयं शस्तं सर्वसंपत्समृद्धिदम् ॥१६॥उच्चस्थानगतश्चन्द्रः सौख्यो मित्रगतस्तथा ।शत्रुक्षेत्रगतश्चन्द्रो नीचस्थोऽपि धनक्षयम् ॥१७॥भौमादित्येन्दु राहुश्च सौरी वा लग्नसंस्थिते ।आयुष्यं धनधान्यं च कर्तृनाशं न संशयः ॥१८॥धनस्थान गताः क्रूरा धनधान्यविनाशनाः ।तथैव चन्द्रसंयुक्तं धनधान्यविवर्धनम् ॥१९॥भ्रातृस्थानगतास्सर्वे सर्वसंपत् समृद्धिदाः ।बन्धुस्थानगताः पापाः सर्वदुःख भयावहाः ॥२०॥पुत्रस्थानगताः क्रूराः मृत्युपीडा भविष्यति ।शत्रुस्थान गताः सर्वे सर्वदुःख भयावहाः ॥२१॥भार्यास्थानगता जीवचन्द्र भार्गाश्च वै तथा ।आयुष्यं धनधान्यं च सर्वसिद्धिप्रदाः सदा ॥२२॥निधनं संगतास्सर्वे कर्तुर्निधनमादिशेत् ।शुभग्रहो नवस्थाने सर्वसौख्यधनावहः ॥२३॥कर्मस्थान गताः क्रूराः सर्वेवित्तायुषक्षयाः ।शुभग्रहाश्च कर्मस्थाः सर्ववित्तायुष प्रदाः ॥२४॥अशुभाश्च शुभाश्चैव वलस्थानगताः शुभाः ।द्वादशस्थो बुधो जीवो वित्तवृद्धिं समावहेत् ॥२५॥नक्षत्रान्ते च मासान्ते पक्षान्ते वेधितर्क्षके ।व्यतीपाते परिघशूले वै घृते कालकण्ठके ॥२६॥कण्टके च तथा स्थूलं परिवेषे च दुर्दिने ।उल्कापाते च भृगुजे वृद्ध्या च विषनाडिके ॥२७॥षडशीतिमुखे चैव मासशून्ये तथैव च ।कर्षणादि प्रतिष्ठान्तं सर्वकर्म विवर्जयेत् ॥२८॥मर्त्यानामायुषच्छेदं कृष्णपक्षे तु चन्द्रवत् ।तस्माद्युक्तेन शीघ्रं च कर्तव्यो धर्मसंग्रहः ॥२९॥अल्पदोषगुणाधिक्यं दिनं वृद्धिं च संग्रहेत् ।अनेककोटि दोषाढ्यं दिनं लग्नं च मेव च ॥३०॥दोषहीनतमं याति जीवदृष्ट्या द्विजोत्तम ।अनेककोटिदोषस्तु जीवैकेन विनाशनम् ॥३१॥तमसा परिवृतौ रात्रौ ख्येकेन विनश्यति ।तथैव जीवदृष्ट्या तु सर्वदोषसमुद्गमाः ॥३२॥एवं परीक्ष्य बहुधा कर्षणादि समाचरेत् ।पत्रैव सदनं कुर्यात् तद्देशं कर्षणं कुरु ॥३३॥अष्टदिक्षु च कर्तव्यं ग्रामादिषु शिवालयम् ।पैशाचिक पदे कुर्यात् आलयं तु पराङ्मुखम् ॥३४॥परिखास्तु त्रिदण्डादि यावत्त्रिंशत्तदान्तकम् ।तावदेवेष्टदिग्भागे कर्तव्यं शिवमन्दिरम् ॥३५॥परिखाभ्यन्तरे वापि पैशाचिक पदे कुरु ।मानुषे तु पदे वाथ कर्तव्यं शिवमंदिरम् ॥३६॥विप्रक्षत्रियविट्छूद्राः अनुलोमास्तथैव च ।समनिर्माणकर्तारः सर्वप्राणि हिताय वै ॥३७॥हस्तमात्रं तु तद्घातं कृत्वातद्भूमि मध्यमे ।पूरिते तन्मृदं धीमान् अधिके चोत्तमान्मही ॥३८॥समता मध्यमाख्याता हीना सा कन्यसा स्मृता ।गृहीता चोत्तमा मध्या गृहीता कन्यसा मही ॥३९॥श्वेता रक्ता तथा पीता कृष्णा विप्रादयः क्रमात् ।चतुर्विधा महीख्याता तत्तज्जात्यार्हता शुभा ॥४०॥परेषामपराः शस्ताः स्वपरेषां परं विना ।तत्तद्योग्यमहीग्राह्या मर्त्यानामालयं कुरु ॥४१॥सर्वा महीप्रशस्ता च देवानां तु विशेषतः ।भूतप्रेतपिशाचेभ्यो दद्याद्दध्योदनं बलिम् ॥४२॥अस्त्रेणोच्चाटयेदेतान् पश्चात्कर्षणमाचरेत् ।श्वेतौ रक्तौ च कपिलौ कृष्णौ जात्यर्हकौ क्रमात् ॥४३॥यौवने कर्षणे पूर्वौ नागहीनौ बलान्वितौ ।हेमशृंगखुरोपेतौ वर्णान्तर न संस्पृशौ ॥४४॥संपूज्य वृषगायत्र्या गन्धपुष्पादिभिर्बुधः ।पूर्वं निवेदनं कृत्वा प्राङ्मुखौ संस्थितौ वृषौ ॥४५॥याज्ञिकैस्सारवृक्षैर्वा लक्षणेन युगं हलम् ।सीरायामं त्रिहस्तं स्यात् नाहं सप्तांगुलं भवेत् ॥४६॥वृत्ताकारमशेषं तु मूलं वेदांशमश्रकम् ।मेखलोच्चं त्रितालं स्यात् त्रिमात्रं तद्घनं भवेत् ॥४७॥मूलं षण्मात्र विस्तारं घनं वेदांगुलं भवेत् ।मूलादग्रं क्रमात्क्षीणं किंचित्क्षीणं तु मध्यमम् ॥४८॥मेखलायास्तु मूले तु विर्यवेशं नवांगुलम् ।वेशांशे द्व्यंगुलं व्यासं घनमर्धार्ध मात्रकम् ॥४९॥चतुर्विंशांगुलायामं घ्राणदीर्घं तु काश्यप ।सीरोर्ध्वे घ्राण तुंगं तु पंचांगुलमुदाहृतम् ॥५०॥घ्राणकुक्ष्युन्मुखं कुर्यात् मनुमात्रं तदायतम् ।शेषं चित्रमिति ख्यातं सीरमेखलसन्धितौ ॥५१॥षण्मात्रं घ्राणविस्तारं घनं वेदांगुलं भवेत् ।अग्रं सूचिनिभाकारं अनुपूर्वात्कृशं भवेत् ॥५२॥त्रिपंच मात्रमित्युक्तं सीरघ्राणाग्रकान्तकम् ।अयसा हलजिह्वा तु घ्राणाग्रे योजयेद्बुधः ॥५३॥सीरायामसमं नाहं युगं चिद्रं युगाश्रकम् ।कनिष्ठांगुली परीणाहं गोचर्मद्विकरायतम् ॥५४॥हृदयं मंत्रमुच्चार्य बध्वा युगाश्रयौ वृषौ ।युगमध्ये हलं बध्वा किंचिद्दक्षिणमाश्रितम् ॥५५॥कर्षयेन्मतिमान्विप्रः तृणादीनि व्यपोह्य च ।तिलसर्षपमुद्गानि नेत्रमंत्रेण वापयेत् ॥५६॥आचार्यं पूजयेत्तस्मै दद्याद्युगहलौ वृषौ ।त्रिरात्रां कुरिते श्रेष्ठं वेदयत्रौ तु मध्यमम् ॥५७॥अधमं भूतरात्रं स्यात् अधमं परिवर्जयेत् ।आपुष्पात्फलगं रक्ष्य गोगणानां निवेदयेत् ॥५८॥एकरात्रं द्विरात्रं वा गावस्तत्रैव वासयेत् ।गोवक्त्रगतकेनैश्च गोमयेः प्रस्तवैरपि ॥५९॥स्थपतिं पूजयेत्पश्चात् वस्त्राद्यैश्च यथा मति ।प्रशस्तं भूतलं पश्चात् मध्ये समतलं गुरुः ॥६०॥गोमयालेपनं कृत्वा दिक्परिच्छेदनं कुरु ।शंकुं कलांगुलायामं नाहं तत्सममुच्यते ॥६१॥मूलताराष्टभागैकं हीनमग्रविशालकम् ।मूलाग्रं मुकुलाकारं मूलाग्रं क्रमशात्कृशम् ॥६२॥सुवृत्तमार्जवं कुर्यात् सारवृक्षं तु शोषितम् ।शंकु द्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ॥६३॥तन्मध्ये स्थापयेच्छंकुं चतुर्दिक्षु समं तथा ।पूर्वापराह्नयोः छायादिति तन्मण्डलान्तगौ ॥६४॥छायाग्रमध्ये संलक्ष्य तथैव तु पराह्नके ।तद्बिन्दुद्वयगं सूत्रं पूर्वापरदिगिष्यते ॥६५॥तयो मध्यन्तरं भ्राम्यश्च पराननं पृश्चिवत् ।दक्षिणोत्तरगं सूत्रं तन्मध्ये तु प्रसारयेत् ॥६६॥ये मर्त्या मध्यमार्धी तु अवच्छायांगुलं व्रजेत् ।मण्डलं कुब्जतालेन कन्यसं तु विभाजिते ॥६७॥भानुर्वानेष्टविंशांशं सप्तं विंशांशयोत्तरे ।गतेत्वार्जवमित्युक्तं कन्यायाश्च तथैव हि ॥६८॥मीनेऽष्टविंशदंशादिभाग मध्यस्थ मात्रकम् ।वर्धयेन्मिथुने सप्तविंशदंशावसानकम् ॥६९॥ततोर्धमात्रं क्षीणं स्यात् भागं प्रति विशेषतः ।कन्यायां चाष्टविंशांशात् अर्धमात्र विवर्धनात् ॥७०॥चापेऽष्टविंशदंशान्तं तथा ह्रस्वं तथैव हि ।छायावृद्धिक्षयं ह्येवं कीर्तिता शंकुमध्यमात् ॥७१॥छायामानं व्रजेन्मध्ये ब्रह्मसूत्रं प्रसारयेत् ।पूर्वापराह्वयोर्मध्ये छायामानं च वर्जयेत् ॥७२॥प्रागादि परितस्सूत्रं इष्टमानेन विन्यसेत् ।पुण्याहं वाचयेपश्चात्खात्वा प्रासादमानकः ॥७३॥यावत्प्रासादविस्तारं एकाशीतिपदं गुरुः ।तत्पदे वास्तु देवांश्च पूजयित्वा तु नामतः ॥७४॥दध्याज्यगुलसंमिश्रं ओदनं च बलिं ददेत् ।प्रणवादीन्नाममध्ये स्वाहान्तं बलिमाचरेत् ॥७५॥वास्तुहोमं ततः कृत्वा मध्ये वा चोत्तरेऽपि वा ।वास्तुहोमं विनायत्र कृतं वास्तु विनश्यति ॥७६॥पर्यग्निकरणं कृत्वा प्रोक्षयेत्पंचगव्यकैः ।स्थपतिः कृत्ययोग्यः स्यात् स्थापको मन्त्रयोग्यकः ॥७७॥कर्षणं ह्येवमाख्यातं शृणु प्रासादवास्तुकम् ।इत्यंशुमत्काश्यपे कर्षणविधिपटलः (प्रथमः) ॥१॥ N/A References : N/A Last Updated : October 14, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP