संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| नागरादिविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - नागरादिविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत नागरादिविधिपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण आयादिलक्षणं परम् ।हर्म्यविस्तारहस्तं तु गुणवृद्ध्यावसुभिर्हरेत् ॥१॥शेषं ध्वजादि योनिः स्यात् उत्सेधं तु करं बुधः ।वर्धयेद्वसुभिर्ह्रासे नक्षत्रेणाहयादिभम् ॥२॥नववृद्धिं परितो हस्तं पातालैस्त्रासयेद्बुधः ।शेषमर्कादिवारं स्यात् व्यासायामकरं गुणैः ॥३॥वर्धयेत्त्रिंशतिर्ह्रासे शेषं प्रतिपदोदयः ।तिथयस्तु समाख्याता तुंगहस्ताष्ट वृद्धितौ ॥४॥नागरादि विमानानां लक्षणं वक्ष्यतेऽधुना ।हिमाद्रिकन्ययोरन्त * तो देशमुदाहृतम् ॥१॥सोऽपि देशं त्रिधाभिन्नं तत्तद्देशोद्भवै गुणः ।यथैव देहिनां देवं हं वातपित्तकफात्मकम् ॥२॥तथैव दण्डवत्सर्वं यज्ञेयं त्रिगुणात्मकम् ।सात्विकं तामसं चैव राजसं च त्रिधा स्मृताः ॥३॥हिमद्रि सिद्धयोरन्तर्गता तस्मात्सात्विका धराः ।सिद्धादि कृष्णवर्णान्तं तामसाख्यं महीतलम् ॥४॥कृष्णवर्णादिकन्यान्तं राजसं भूतलं भवेत् ।नागरं सात्विकं देशं तामसं वेसरं तथा ॥५॥राजसं द्राविडं देशं क्रमशः परिकीर्तिताः ।सात्विकं नागरं हर्म्यं तामसं वेसरालयम् ॥६॥राजसं द्राविडं हर्म्यं क्रमात्पुंषण्डयोषितः ।विष्णुर्महेश्वरो धाता क्रमाद्धर्म्याधिदेवताः ॥७॥नागरं भूसुरं विद्यात् वेसरं वैश्यमुच्यते ।द्राविडं तु नृपो ज्ञेयो आकृतिं शृणु सुव्रत ! ॥८॥कूटकोष्ठादि निष्क्रान्ति मानसूत्रे तु संस्थिताः ।उन्नतावनतोपेतौ कूटकोष्ठौ यथा क्रमम् ॥९॥एकानेकतलस्तंभं पत्रतोरणसंयुतम् ।क्षुद्रकोष्ठसमायुक्तं महानास्यपरे द्विज ! ॥१०॥वेदिकाजालकोपेतं कूटं वेदाश्रशीर्षकम् ।एकानेकतलं वापि सालिन्दं वा विहीनकम् ॥११॥देवाग्रशीर्षकं कण्ठं शालाकारमथापि वा ।नागरं भवनं ख्यातं तद्देशं तु प्रकल्पितम् ॥१२॥प्राग्वत्कूटादि निष्क्रान्तं कोष्ठं कूटाद्गतं तु वा ।मानसूत्राद्बहिः कूटं नीव्रं कूटं तु कोष्ठकम् ॥१३॥मध्यकोष्ठं सभद्रं वा विभद्रं वा द्विजोत्तम ! ।पंजरं मानसूत्रे वा कूटनिष्क्रान्त सादृशम् ॥१४॥उन्नतावनता शाला सौष्ठिकोष्ठं यथाक्रमम् ।उन्नतं सान्तरं मंच तत प्रस्तरहीनकम् ॥१५॥चतुरश्राष्ट वृत्ताभं तले तले सौष्टिकं क्रमात् ।नानामसूरकस्तंभे वेदिकाजालक तोरणैः ॥१६॥वृत्ताख्य स्फुटितैर्हस्ति कु(तु)ण्डे कुंभलतादिभिः ।हारान्तरेषु मंचोर्ध्वे क्षुद्रकोष्ठयुतं तु वा ॥१७॥तत्रैव हस्ति कु(तु)ण्डं वा भद्रनास्यल्प एव वा ।साधारं वा निराधारं एकानेकतलं तु वा ॥१८॥शिरसो वर्तनं कण्ठं वृत्तं वाष्टाश्रमेव वा ।युगाश्रं वा शिरश्छन्दं विमानं द्राविडं भवेत् ॥१९॥तदेव चरणाधारं एकाकारेण कल्पयेत् ।हारान्तरे विशेषेण कल्प्या वृत्तस्फुटादयः ॥२०॥समौ तु कूटकोष्ठौ द्वौ सान्तरप्रस्तरान्वितौ ।हीनौ वान्तरमंचौ द्वौ नीव्रं च समसूत्रकौ ॥२१॥हारान्तरेषु कर्तव्यं भद्रपंजरसंयुतम् ।कपोतपंजरं मध्यं वा सान्तरप्रस्तरान्वितम् ॥२२॥सर्वेषां कर्णकूटानां शीर्षं तु च युगाश्रकम् ।वस्वश्रं वेदिकोपेतं मण्डलं शीर्षकं गलम् ॥२३॥वस्वश्रं वा शिरः कण्ठं युगाश्रं वा प्रकल्पयेत् ।एतच्च द्राविडं ख्यातं हेमादिकुड्मलं तथा ॥२४॥वस्वश्रं वा षडश्रं वा तच्च द्राविडमुच्यते ।एवं त्रिविधं नीत्या सु प्रोच्यते द्राविडालयम् ॥२५॥वेसरे कूटकोष्ठादि नीव्रं स्यात् समसूत्रकम् ।वृत्ताकारं शिरोपेतं कर्णकूटं प्रकल्पयेत् ॥२६॥वृत्तं गर्भगृहाकारं बाह्ये वृत्ताभमेव वा ।वृत्तग्रीवशिरोपेतं यथेष्टशिखरेण वा ॥२७॥सालिन्दं वा सभद्रं वा ह्येकानेकतलं तु वा ।समाश्रं सायताश्रं वा वृत्तं वृत्तायतं तु वा ॥२८॥द्व्यश्र वृत्तं तु वा हर्म्यं कूटकोष्ठादिभिर्युतम् ।उन्नतावनतोपेतौ कूटकोष्ठौ यथाक्रमम् ॥२९॥समौ वा कुटकोष्ठौ वा बहुभूम्यैकमेव वा ।वेसरं भवनं ख्यातं अथवान्यप्रकारतः ॥३०॥जन्मादिस्तूपिपर्यन्तं युगाश्रं नागरं भवेत् ।वस्वश्रं शीर्षकं कण्ठं द्राविडं भवनं भवेत् ॥३१॥वृत्तग्रीव शिरोपेतं वेसरं हर्म्यमीरितम् ।कूटकोष्ठविहीनानां हर्म्याणां कथितास्त्विमे ॥३२॥नानाधिष्ठानसंयुक्तं तलं प्रत्यंघ्रि भेदितम् ।सर्वत्र वृत्त पादं वां वेसरे भवने कुरु ॥३३॥लिंगं च पिण्डिकां चैव प्रासादं चैक जादिकम् ।सर्वसंपत्समृद्धिः स्यात् नृपस्य वास्तुजन्मिनाम् ॥३४॥विपरीते विपत्तिः स्यात् राजराष्ट्रभयंकरम् ।तस्मात्सर्व प्रयत्नेन एकजात्येव माचरेत् ॥३५॥नागरे सकलं शान्तं वेसरे यानमूर्तिनाम् ।भोगवीरं च नृत्तं च द्राविडे भवने भवेत् ॥३६॥अन्यथा चेद्विपत्तिः स्यात् कर्तुश्च भिक्षदेहिनाम् ।नागरादि विधिः प्रोक्तः गर्भन्यासविधिं शृणु ॥३७॥इत्यंशुमान्काश्यपे नागरादिविधिपटलः (चतुर्विंशः) ॥२४॥ N/A References : N/A Last Updated : November 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP