संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
गलभूषणलक्षणपटलः

अंशुमत्काश्यपागमः - गलभूषणलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण गलभूषणलक्षणम् ।
ऊर्ध्वभूमं च तुंगं तु गलमानमुदाहृतम् ॥१॥

आप्तोत्सेधांशमानं वा गलमानं द्विजोत्तम ! ।
तदुच्चं त्रिचतुष्पंच अंशं वा वेदिकोदयम् ॥२॥

शेषं गलोदयं ख्यातं अशेषं वा गलोदयम् ।
वेदिकायास्तु विस्तारं चतुष्पंच षडंशकैः ॥३॥

त्रिचतुष्पंचगलव्यासं तत्संख्या तु यथाक्रमम् ।
अंघ्रोर्वेद्यंघ्रिवेशं यत् तद्वेदार्गलवेशनम् ॥४॥

त्रिपादं वा तदर्धं वा वेद्यंघ्रेर्गल वेशनम् ।
एवं त्वनेकभेदेषु कर्तुरिच्छावशान्नयेत् ॥५॥

वेदाश्रं नागरे कण्ठं वस्वश्रं द्राविडे गलम् ।
वृत्तं तु वेसरे हर्म्ये शिष्टानुकूलकं नयेत् ॥१६॥

दिशि भद्रसमायुक्तं नासिकानुकूलिकांघ्रिकम् ।
भानुद्व्यंशेगलोत्सेधे कलांशं तु गलोदयम् ॥७॥

उत्तरोच्चं गुणांशं तु वाजनं त्वेकभागया ।
अग्न्यंशं वलभीमानं व्योमांशं वाजनोदयम् ॥८॥

उत्तरेऽर्धंगलान्नीव्रं वाजनादीनि पूर्ववत् ।
अथवा नानु भागं तु गलोदयमुदाहृतम् ॥९॥

उत्तरोच्चं गुणांशं तु शिवांशं वाजनोदयम् ।
तदूर्ध्वे मुष्टिबन्धोच्चं अध्यर्धांशमुदाहृतम् ॥१०॥

मृणाल्युच्चं गुणांशं तु एकांशं पट्टिका भवेत् ।
सार्धांशं दण्डिकोत्सेधं व्योमांशं वर्णपट्टिका ॥११॥

गोपानं कम्पयेदूर्ध्वे लुपारोहणमेव वा ।
वाजनादीनि निष्क्रान्तं तत्तदुच्चसमं भवेत् ॥१२॥

एवं गलोन्नतं व्यासं अलंकारं च कीर्तितम् ।

इत्यंशुमान्काश्यपे गलभूषणलक्षणपटलः (एकोनविंशः) ॥१९॥

N/A

References : N/A
Last Updated : November 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP