संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
मध्यमनवतालविधिपटलः

अंशुमत्काश्यपागमः - मध्यमनवतालविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


मध्यमं नवतालं तु वक्ष्ये संक्षेपतः क्रमात् ।
यक्षाप्सरोगणाश्चैव अस्त्रमूर्तिमरुद्गणाः ॥१॥

मध्यमं नवतालेन कर्तव्यं द्विजसत्तम ! ।
अष्टोत्तरशतांगुल्यं पतिमोच्चं विभाजिते ॥२॥

उष्णीषं व्योमभागेन केशं पादोनकं त्रिकम् ।
केशान्तान्नेत्रसूत्रान्तं युगांशं तद्यवोनकम् ॥३॥

पुटान्तं चैव तत्तुल्यं हन्वन्तं तथा भवेत् ।
पादोन चतुरंशं तु ग्रीवमानमुदाहृतम् ॥४॥

भान्वंशानि यवोनं तु हिक्काद् हृदयावधि ।
वाभ्यन्तं चैव तत्तुल्यं मेढ्रमूलान्तकं तथा ॥५॥

पादाधिकगुणोपेतं विंशांशं चोरुदीर्घकम् ।
जानुग्रीवसमं तुंगं जंघा चोरुसमं भवेत् ॥६॥

जानु तुल्यं तलोत्सेधं बाहुचोरुसमं भवेत् ।
सप्तदशांगुलं प्रोक्तं प्रकोष्ठस्य तु दैर्घ्यकम् ॥७॥

षडंशाग्नियवोनं तु तलायामं करस्य तु ।
तत्समं मध्यमायामं शेषं युक्त्या समाचरेत् ॥८॥

इत्यंशुमान्काश्यपे मध्यमनवतालविधिपटलः (षष्ठितमः) ॥६०॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP