संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| प्रतिमालक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - प्रतिमालक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत प्रतिमालक्षणपटलः Translation - भाषांतर प्रतिमालक्षणं वक्ष्ये शृणुत्वैकाग्रमानसः ।अचलं च चलं चैव चलाचलमिति त्रिधा ॥१॥मृण्मयं शर्करां चैव सौधजं च चलं स्मृतम् ।शैलजं दारुजं चैव धातुजं रत्नजं तथा ॥२॥चलाचलमिति ख्यातं चलमेवं तु लोहजम् ।अर्धचित्रं च चित्रं च चित्राभासमिति त्रिधा ॥३॥अर्धांगदर्शनं बिम्बं अर्धचित्रमिति स्मृतम् ।सर्वावयव दृष्टं यत् तच्चित्रं हि विधीयते ॥४॥निम्नोन्नतविहीनेन पटभित्त्यादिकल्पना ।अर्धचित्रं तु सुधया चान्यैश्चित्रवदर्धकम् ॥५॥आभासं धातुभिः कुर्यात् चित्रकर्मविधानतः ।चित्रं चित्रार्धमाभासं फलं श्रेष्ठान्तराधमम् ॥६॥इष्टकायाः पटं श्रेष्ठं पटादाभासकं वरम् ।आभासादर्ध चित्रं तु तस्माद्वै मृण्मयं वरम् ॥७॥मृण्मयाद्दारुजं श्रेष्ठं दारुजाच्छैलजं वरम् ।शैलजाल्लोहजं श्रेष्ठं कर्तॄणां च फलं तथा ॥८॥लोहजेषूत्तमं स्वर्णं मध्यमं रजतं भवेत् ।ताम्रजं कन्यसं ख्यातं तेषु तेषु फलं तथा ॥९॥बिम्बमानं च द्रव्यं च श्रेष्ठान्तराधमं भवेत् ।सर्वद्रव्येषु दैवत्यं सममेवेति विद्यते ॥१०॥समं चेद्दिव्यदेवेशं फलं श्रेष्ठादयं कथम् ।ऊषरे सुन्धभूमौ च मार्दवे च महीतले ॥११॥पृथगेकजातिवृक्षं तु स्थापने तु विशेषतः ।फलस्थलानुसारेण यथालाभं तथा भजेत् ॥१२॥स्थलभेदेन वृक्षस्यं भेदमात्रं न विद्यते ।तथा द्रव्यफलं तुल्यं द्रव्यभेदे फलप्रदम् ॥१३॥तस्मात्तेषु यथा लाभं द्रव्येण सकलं कुरु ।यो नरः कृतवान्भूमौ पुत्रमित्रकलत्र युक् ॥१४॥यथेष्टविषयोपेतः शक्रादि विषयं सुखम् ।न नश्यते ततो विप्र ! सालोद्यादि पदाश्रितम् ॥१५॥मनसा कर्मणा वाचा यो नरः सहकारिणा ।असौ वित्तानुसारेण कर्तृलब्धफलानुभाक् ॥१६॥तस्मादन्येन कर्तव्यं स कर्तुं शिवात्मकम् ।सुखासनं तु प्रथमं उमा स्कन्दं द्वितीयकम् ॥१७॥तृतीयं चन्द्रमौलिं च चतुर्थं वृषवाहनम् ।पंचमं नृत्तमूर्तिं च गंगाधरमतः परम् ॥१८॥सप्तमं त्रिपुरारिं च वैवाह्यं त्वष्ठमं तथा ।नवमं चार्धनारिं च दशमं गजहारिणम् ॥१९॥ततो पाशुपतं विद्यात् कंकालं द्वादशं स्मृतम् ।त्रयोदशं हरेरर्धं भिक्षाटनं चतुर्दश ॥२०॥चण्डेश्वर प्रसादं तु पंचादशमुदाहृतम् ।षोडशं दक्षिणामूर्तिं ततः कालारिमुच्यते ॥२१॥ततो वै लिंगमुद्भूतं मूर्तिरष्टादशा भवेत् ।सर्वासां प्रतिमानां तु मानमादौ वदाम्यहम् ॥२२॥सर्वेषामपि लिंगानां शिरोमानं विनोदयम् ।गृहीतं विद्यमानेषु अन्येषु शिरसा सह ॥२३॥स्थूलदेशे परीणाहं विस्तारं चैव तत्रैव ।पूजांश द्विगुणं ग्राह्य द्वात्रिंशद्विभजेत्समम् ॥२४॥तेषु वै सप्तविंशांशं पंचविंशांशमेव वा ।त्रिभागाधिकविंशच्च एकविंशतिरेव वा ॥२५॥एकोन विंशदंशं वा षोडशं वा त्रयोदश ।रुद्रांशं नन्दभागं वा सप्तांशं पंच एव वा ॥२६॥अथवा रुद्रभागोच्चं नवभागविभाजिते ।तेष्वेकांशं समारभ्य एकैकांश विवर्धनात् ॥२७॥यावद्वै सप्तविंशांशं तावद्वै सप्तविंशतिः ।रुद्रांशोच्चे तु बिम्बोच्चं साष्टत्रिंशति भेदकम् ॥२८॥तथैव लिंगतारे च लिंगनाहे च कल्पयेत् ।लिंगे बिम्बोच्च भेदं तु मन्वाधिकशतं भवेत् ॥२९॥गर्भगेहं तदाद्यं तु भागे नन्दविधोन्नतम् ।अथवा गर्भगेहं तु त्रिन्नवांशविभाजिते ॥३०॥सप्तविंशतिमानं स्युरेकादेकांशवर्धनात् ।अथवा गर्भगेहं तु द्विनवांशं विभाजिते ॥३१॥एकांशदेकवृद्ध्या तु बिम्बमष्टादशान्वितम् ।शुद्धद्वारस्य चोत्सेधं चतुर्भागविभाजिते ॥३२॥पंचांशमुत्तमोत्सेधं मध्यमं चतुरंशकम् ।अधमं तु गुणांशं स्यात् त्रिविधं द्वारमानकम् ॥३३॥अधमोत्तमयोर्मध्ये वसुभागविभाजिते ।नवधा स गलोत्तुंगं द्वारमाने विधीयते ॥३४॥अथवा द्वारतुंगं तु सप्तविंशति भाजिते ।एकैकांशविहीनेन बिम्बोच्चं सप्तविंशतिः ॥३५॥एवं हि द्वारमानेन षट्त्रिंशत्कौतुकोदयम् ।तथाधिष्ठानमाने च स्तम्भमानविभाजिते ॥३६॥सद्मबाह्यस्य विस्तारे हस्ते चैव प्रकल्पयेत् ।एकादिनवहस्तान्तं नवधा हस्तमानकम् ॥३७॥तलादि नवतालान्तं तथा नवविधं भवेत् ।कर्तुश्च हृदयान्तं वा स्तनान्तं बाहुसीमकम् ॥३८॥हन्वन्तं चास्य सीमान्तं नेत्र सूत्रावसानकम् ।कर्तुश्चोदयतुल्यं वा यजमानवशादिमे ॥३९॥अथवा कर्तृतुंगं तु नवभागविभाजिते ।एकैकांशविहीनेन नवधा सकलोदयम् ॥४०॥चतुर्विंशच्छतं भागं पूजांशं तु विभाजिते ।एकांशमंगुलं ख्यातं मूललिंगांगुलान्वितम् ॥४१॥मानांगुलं पुराप्रोक्तं नव प्रासादमानके ।कर्तुर्दक्षिणहस्ते तु मध्यमांगुलिमध्यमे ॥४२॥पर्वदीर्घं तु तारं वा मात्रांगुलविधिः स्मृतः ।सप्तांगुलं समारभ्य द्विद्व्यंगुलविवर्धनात् ॥४३॥त्रयोविंशतिकं यावत् शतान्तत्रिभिरंगुलैः ।बिम्बमानं तु कर्तव्यं मानौ द्वाभ्यां परार्थकम् ॥४४॥गृहे त्वात्मार्थ बिम्बानां मानं मात्रांगुलेन तु ।कर्तव्यमन्यथा चेत्तु कर्तव्ये कर्तृनाशनम् ॥४५॥अंगुलैनिर्मितं बिम्बं सर्वजात्यर्हकं शुभम् ।अंगुलें गुलसंख्याभिशायादीषच्छुभेक्षणम् ॥४६॥त्रिष्वंगुलि प्रमाणेषु जात्यंशं च न रोपयेत् ।अंगुलादन्यद्यन्मानं वेदाशीति विभज्य च ॥४७॥एकांशं रोपयेत्तस्मात् जात्यंशं तद्द्विजादिभम् ।द्विभागाधिकषष्ट्यंशं भज्यैकांशसमन्वितम् ॥४८॥नृपजात्यंशकं ह्येवं नृपाणामृद्धिकारणम् ।चतुर्विंशति भागं तु कृत्वैकांशसमन्वितम् ॥४९॥वैश्यजात्यंशकं ख्यातं वैश्यानामभिवृद्धिदम् ।षोडशांशेंशमारोप्य शूद्र-ऋद्धिकरं भवेत् ॥५०॥एवं जात्यंशसंयुक्तं अंशमष्टगुणीकृतम् ।सप्तविंशतिभिर्ह्रासे शेषमश्वादिमं भवेत् ॥५१॥तद्दिनं जाति ऋक्षं स्यान्नृपवास्तुदिनान्वितम् ।सुशोभनेन युक्तं चेत् कर्तृवास्तु नृपादिनाम् ॥५२॥त्रिंशाद्या शतभागान्तं बिम्बोच्चं तु विभाजिते ।शश्यंशं रोपयेद्यावत् शुभायादीनि संभवम् ॥५३॥तन्मानं कौतुकोच्चं स्यात्पादादुष्णीषकावधि ।आयांशकमिदं ख्यातं चैकांशायादिकल्पयेत् ॥५४॥अष्टाभिर्वर्धयेद्यंशं भानुभिर्ह्रासयेद्द्विज ! ।शेषमायमिति ख्यातं अंशमष्टगुणीकृतम् ॥५५॥सप्तविंशतिभिर्ह्रासे शेषमश्वादिभं भवेत् ।नवभिर्गुणिते त्वंशं नाडिभिर्ह्रासयेत्ततः ॥५६॥सेषं व्ययमिति ख्यातं अंशं वै त्वनलेन तु ।वर्धयेद्वसुभिर्ह्रासे शेषं ध्वजादयो भवेत् ॥५७॥नवभिर्वर्धयेत्त्वंशं सप्तभिर्ह्रासवारकम् ।वर्धयेद्वेदसंख्या तु ह्रासयेन्नवसंख्यया ॥५८॥शेषमंशकमित्युक्तं एवमायादिषड्भवेत् ।आयाधिक्यं व्ययं क्षीणं पुष्कलायं सुशोभनम् ॥५९॥ध्वजधूमश्च सिंहश्च श्वावृषोखरहस्तिकाकयः ।योनयश्चाष्ट ते तेषु तेषु केतुहरी वृषम् ॥६०॥गजश्च शुभदा ज्ञेया गर्हिताः शेषयोनयः ।विपत्तिः प्रत्यरं चैव वर्ज्यं वैनाशिकं तथा ॥६१॥षष्ठाष्ट द्वादशं लग्नं वर्ज्यं शेषाः शुभावहाः ।कर्तुश्च ग्रामनक्षत्रात् नृपवास्तुदिनं तथा ॥६२॥गणयेद्बिम्ब-ऋक्षान्तं शोभनं तु परिग्रहेत् ।वारं सूर्यादि संख्या तु भौमवारं विवर्जयेत् ॥६३॥सूर्यारवारसौरिश्च मध्यमं च इति स्मृतम् ।भानु वारादि संयुक्तं विशाखादि चतुश्चतुः ॥६४॥योगं तु मरणं नाशं अमृतं च यथा क्रमम् ।तस्करं भुक्तिशक्तिश्च धन्यं राजं च षण्डकम् ॥६५॥अभयं रथनं प्रेष्य नवांशकमुदाहृतम् ।तेषु तस्कर षण्डं च ऋणं चैव तु वर्जयेत् ॥६६॥गणेषु सुरमानुष्यं योगमात्र विवर्जयेत् ।एवं परीक्ष्य शोभाढ्यं आयामं तु सुयोजयेत् ॥६७॥चातुर्वर्णाभिवृध्यर्थं जात्यंशकं प्रयोजयेत् ।तस्मादुभयभागोऽपि प्रशस्ता वेशकाण्डपा ॥६८॥इत्यंशुमान्काश्यपे प्रतिमालक्षणपटलः (पंचपंचाशः) ॥५५॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP