संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| अधिष्ठानलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - अधिष्ठानलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत अधिष्ठानलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये त्वधिष्ठान विधानं शृणु सुव्रत ! ।धरातलमधिष्ठानं आधारं धरणी तया ॥१॥भुवनं पृथिवी भूमिः पर्याय वचनादिभिः ।हर्म्यतारं तु कूटादि नीव्राधिष्ठाननीव्रकम् ॥२॥तस्मात्तदुपपीठं स्यात् नीव्रं होमा विनिर्गमम् ।तस्मात्प्रकृति नीव्रं च सूत्र पातं तु कारयेत् ॥३॥यत्रैवाद्येष्टकान्यासं तत्रैवं मानलक्षयेत् ।तस्मात्तु घनभित्त्येवं प्रकृत्यन्तं प्रकल्पयेत् ॥४॥स्वभाव प्रकृतेरूर्ध्वे प्रकृत्युच्चैकहस्तकम् ।द्विहस्तं वा प्रकृत्युच्चं त्रिहस्तं वा घनाकृतिः ॥५॥षडंगुल्यसमुत्सेधं षट्षडंगुलवर्धनात् ।उत्तमं मध्यमं चैव अधमं च तथापि वा ॥६॥प्रकृत्यन्तं स्थलं ख्यातं अन्तर्मण्डलकस्य तु ।एवं कृत्वा प्रकृत्यूर्ध्वे होमं संकल्प्य देशिकः ॥७॥भित्तिपादस्य विष्कंभं द्विगुणं त्रिगुणं तु वा ।होमनीव्रमिति ख्यातं तदर्धं बहुलान्वितम् ॥८॥तद्धोमाप्रकृतीनीव्रैः द्वित्रिदण्डमथापि वा ।कुड्यपादाद् बहिर्नीव्र दुपपीठगलं तु वा ॥९॥होमनीव्रसमं प्रोक्तं द्विविधं द्विजसत्तम ! ।होमतुंगार्धमानेन होमोर्ध्वाब्जं प्रकल्पयेत् ॥१०॥अब्जस्योच्चसमं वेशं अब्जाच्चोर्ध्वोपमानकम् ।तस्योपरित्वधिष्ठानं सोपपीठान्वितं तु वा ॥११॥अन्यद्धोमात्प्रकृत्यूर्ध्वे उपोपानं प्रकल्पयेत् ।तत्तदूर्ध्वे धरातलं वाथ सोपपीठमथापि वा ॥१२॥उपापानं विनाधारं होमोर्ध्वे वा प्रकल्पयेत् ।प्रकृतीसमसूत्रे तु कल्पयेच्छिल्पिकोत्तमः ॥१३॥होमापद्मोपपानादीन् हर्म्ये निवेशयेत् ।आप्तोत्सेधांशमानेन त्वधिष्ठानस्य चोच्छ्रयम् ॥१४॥पादोदयार्धमानं वा षट्षडष्टांशमेव वा ।अग्रपादविशालं तु दण्डमित्यभिधीयते ॥१५॥एकदण्डं समारभ्य त्वर्धदण्ड विवर्धनात् ।यावता पंचसंख्या तु अग्निदण्डावसानकम् ॥१६॥पाद्बाह्ये परनिष्क्रान्तं तत्त्रिभागविभाजिते ।उपानव्यासमेकांशं शेषं जगति विस्तरम् ॥१७॥कुमुदं वेदमेकांशं तन्निव्रं जगतेस्समम् ।कुमुदोर्ध्वे पट्टवेशं तत्समं कण्ठवेशनम् ॥१८॥सर्वेषामम्बुजानां तु नीव्रतुंगसमं भवेत् ।ऊर्ध्वपट्टमशेषं तत् समं वा कण्ठवेशनम् ॥१९॥कम्पानामपि सर्वेषां चतुर्भागेन नीव्रकम् ।महावाजन्निष्क्रान्तं तुंगतुल्यार्धमेव वा ॥२०॥त्रिपादं वाथ निष्क्रान्तिं यथाबलवशान्नयेत् ।जन्मादिपंचवर्गेषु तत्तदंगावसानकम् ॥२१॥द्वारार्धं वा स्थलार्धं वा छेदयेत्तद्धरातलम् ।उपानं जगतीं चैव कुमुदं कण्ठपट्टिका ॥२२॥पंचवर्गेति विख्यातं पादबन्धतले बुधः ।द्वारं च जलधारं च स्थलं च प्रतिबन्धकैः ॥२३॥प्रतिरूर्ध्वे तु कर्तव्यं अंगच्छेदं न कारयेत् ।प्रत्यंगच्छेदनं चेत्तु विपदामास्पदं सदा ॥२४॥तस्मात्सर्वप्रयत्नेन प्रत्यंगच्छेदनं विना ।अधिष्ठानं द्विधा ज्ञेयं प्रतिबन्धांघ्रिबन्धनम् ॥२५॥प्रत्येकानेकभेदेन प्रोच्यते द्विजसत्तम ! ।सर्वेषां प्रतिबन्धानां कुमुदं वृत्तमुच्यते ॥२६॥पादबन्धतलानां तु वस्वश्रं कुमुदं भवेत् ।तयोस्संकरमेकस्मिन् कर्तव्ये कर्तृनाशनम् ॥२७॥प्रासादं प्रतिबन्धं च तत्तद्भेदेन संकरम् ।कूटकोष्ठादिकानां तु कर्तव्यं तच्छुभावहम् ॥२८॥तथैवांघ्रिप्रबन्धं चेत् तस्मिन्संकरमुत्तमम् ।अशुभं विपरीतं चेत् वास्तु राष्ट्रनृपस्य च ॥२९॥तस्मात्सर्वप्रयत्नेन वर्ज्यो वर्गेण संकरम् ।अधिष्ठानस्य चोत्सेधं एकोनाविंशदंशके ॥३०॥उपानं चैकभागेन सप्तांशं जगती भवेत् ।षट्त्रिंशं कुमुदोच्चं तु आलिंलं चैकभागया ॥३१॥त्रिपट्टं चैकभागेन प्रत्युत्सेधाद्विभागया ।वाजनं चैकभागेन प्रतिबन्धमिदं भवेत् ॥३२॥उपानरहितं शेषं पूर्ववत् तत्त्वनेकधा ।अधिष्ठानस्य चोत्सेधं पंचविंशतिभाजिते ॥३३॥शिवांशं पादुकोत्सेधं जगती वसुभागया ।धात्वंशं कुमुदोच्चं तु व्योमांशं कंपमानकम् ॥३४॥अनलांशं गलोत्सेधं शश्यंशं चोर्ध्वकम्पकम् ।महापट्टी गुणांशं तु तदूर्ध्वेऽंशेन कम्पकम् ॥३५॥पादबन्धमितिख्यातं उपानरहितं तथा ।एतच्च पादबन्धं च नानाभेदेन कीर्तितम् ॥३६॥त्रिस्सप्तांशे तलोत्सेधं कृत्वांशेनैव पादुकाम् ।अम्बुजं सार्धभागं स्यात् कम्पमर्धांशमुच्यते ॥३७॥सप्तांशं जगतेरुच्चं रसांशं कुमुदोदयम् ।आलिंगमेकभागेन त्रिपट्टं चैकभागया ॥३८॥द्विभागं प्रतितुंगं स्यात् भागेनैकेन वाजनम् ।प्रतिक्रममिदं नाम्ना प्रतिबन्धं तु भेदितम् ॥३९॥तदेव पक्षभागेन उपानं परिकल्पयेत् ।आलिंगोच्चं द्विभागेन शेषं पूर्ववदेव हि ॥४०॥उपानोपरि पद्मं च कम्पं चैव परित्यजेत् ।तदुच्चं प्रतिक्रमं ख्यातं सर्वदेवालयावहम् ॥४१॥षड्विंशद्विभजेदुच्चं उपानं चैकभागया ।द्विभागेन दलं कुर्यात् कम्पमेकेन कारयेत् ॥४२॥षडंशं जगते रुच्चं एकांशं दलमानकम् ।कण्ठमेकेन कर्तव्यं कण्ठोच्चं तद्द्विभागया ॥४३॥एकांशं कम्पतुंगन्तु तत्समं तु दलोदयम् ।महापट्टी द्विभागेन दलमेकांशमानतः ॥४४॥कम्पमेकेन कर्तव्यं अष्टाश्रं कुमुदान्वितम् ।अंभोजकेसरं ख्यातं पादबन्धे तु भेदितम् ॥४५॥एकोनविंशदंशं तु तलोत्सेधं विभाजिते ।उपानमेकभागेन पद्मोच्चमनलांशकम् ॥४६॥कम्पोच्चं त्वर्धभागेन जगत्युच्चं युगांशकम् ।अम्बुजं चार्धभागेन गलमर्धांशमानतः ॥४७॥अर्धांशं पद्म तुंगं तु गुणांशं पट्टमानकम् ।पद्ममर्धांशमानेन तत्समं कम्पमुच्यते ॥४८॥अध्यर्धांशं तु कंठोच्चं कम्पमर्धेन कारयेत् ।पद्ममर्धेन कर्तव्यं पट्टिका सार्धभागया ॥४९॥अम्बुजं चार्धभागेन कम्पमर्धेन कारयेत् ।पुष्पपुष्कलमाख्यातं पादबन्धे तु भेदितम् ॥५०॥द्वात्रिंशद्विभजेदुच्चं उपोपानं द्विभागया ।उपानं चैकभागं स्यात् सप्तांशं कमलोच्छ्रयम् ॥५१॥कण्ठमेकेन कर्तव्यं पद्ममेकेन कारयेत् ।कुमुदोच्चं चतुर्भागं एकांशं गलमुच्यते ॥५२॥कम्पमेकेन कर्तव्यं गुणांशं गलमानकम् ।एकेनकम्पमेकेन ऊर्ध्वे पद्मं प्रकल्पयेत् ॥५३॥कपोतोच्चं युगांशेन आलिंगं चैकभागया ।एकेनान्तरितं कुर्यात् प्रतितुंगं द्विभागया ॥५४॥वाजनं चैकभागेन कल्पयेत्तु क्रमेण तु ।प्रतिबन्धे तु भेदं स्यात् श्रीबन्धान्तरिताद्धृतम् ॥५५॥अधिष्ठानस्य चोत्सेधं अष्टाविंशति भाजिते ।उपानं चैकभागेन जगत्युच्चं रसांशकम् ॥५६॥कुमुदं पंचभागेन कम्पमेकेन कारयेत् ।गलांशं गुणमानं तु कम्पमेकेन कारयेत् ॥५७॥पद्ममेकेन कर्तव्यं कपोतोच्चं गुणांशकम् ।आलिंगमेकभागेन अन्तरीतं तु कल्पयेत् ॥५८॥प्रतितुंगं द्विभागेन शिवांशं वाजनं तथा ।प्रतिबन्धस्य वर्गस्य मंचबन्धमुदाहृतम् ॥५९॥तदेवालिंगिकामूर्ध्वं ऊर्ध्वं द्वाविंशदंशकैः ।कल्यं श्रीकान्तकं नाम्ना पादबन्धे तु भेदितः ॥६०॥तुंगे षट्विंशदंशे तु एकांशं पादुकं भवेत् ।द्विभागं गलमानं तु कम्पोच्चं शशिभागया ॥६१॥षडंशं तु जगत्युच्चं चतुर्भागं घटोदयम् ।कम्पमेकेन कर्तव्यं कण्ठोच्चं तु द्विभागया ॥६२॥ऊर्ध्वकम्पमथैकांशं अगमानं द्विभागया ।वाजनं * * * * * द्विभागं कण्ठमुच्यते ॥६३॥वाजनं चैकभागेन सार्धांशं कमलोदयम् ।कम्पमर्धेन कर्तव्यं श्रोणीबन्धमिदं परम् ॥६४॥पादबन्धे तु भेदं स्यात् संहव्यालैर्विभूषितम् ।त्रिष्षडंगं तलोत्सेधं कृत्वा सार्धांश पादुकम् ॥६५॥कम्पमर्धांशमित्युक्तं भूतांशं पंकजोदयम् ।गलमेकेन कर्तव्यं पद्ममेकेन कारयेत् ॥६६॥कुमुदोच्चं त्रिभिर्भागैः दलमेकांशमानतः ।आलिंगमेकभागेन त्वन्तरीतत्समं भवेत् ॥६७॥प्रतेरुच्चं द्विभागेन वाजनं चैकभागया ।अब्जबन्धमिदं नाम्ना भेदं तत्प्रतिबन्धके ॥६८॥तलं द्वाविंशदंशे तु द्विभागं पादुकोन्नतम् ।अब्जमेकेन कम्पं तु त्वेकांशेन प्रकल्पयेत् ॥६९॥जगती भाग तु कुमुदं चतुरंशकैः ।पद्ममेकेन कर्तव्यं कम्पमेकेन कारयेत् ॥७०॥कण्ठतुंगं द्विभागेन कम्पमेकेन कारयेत् ।शिवांशं दलमानं तु महापट्टीद्विभागया ॥७१॥कम्पमेकेन कर्तव्यं वप्रबन्धमिदं स्मृतम् ।पादबन्धस्य वर्गस्य सर्वधामसु पूजितम् ॥७२॥तन्महापट्टिकामाने कपोतं कपोतबन्धकम् ।कपोतोपरिकम्पोर्ध्वे त्रिपट्टं चैकभागया ॥७३॥प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया ।तुंगे षड्विंशदंशे तु कल्पं तत्प्रतिसुन्दरम् ॥७४॥अधिष्ठानस्य चोत्सेधं त्रयोविंशति भाजिते ।उपानमेकभागेन पद्ममेकेन कम्पकम् ॥७५॥कण्ठं द्विभागमंशेन कम्पमेकेन पद्मकम् ।द्व्यंशेन पट्टिकां विद्यात् कम्पमेकेन कल्पयेत् ॥७६॥पद्ममेकेन कण्ठं तु एकांशेनैव कल्पयेत् ।एकांशेनाम्बुजं कुर्यात् गुणांशं कुमुदोदयम् ॥७७॥पद्ममेकेन कर्तव्यं आलिंगं चैकभागया ।त्रिपट्टं शिवभागेन द्विभागं प्रतिमानकम् ॥७८॥वाजनं चैकभागेन कल्पयेत्तु यथाक्रमम् ।प्रतिबन्धे तु भेदं स्यात् श्रीकण्ठं तदुदाहृतम् ॥७९॥उपानमेकभागेन पद्ममंशेन कम्पकम् ।कण्ठं द्विभागमंशेन कम्पं द्व्यंशेन पट्टिका ॥८०॥कम्पमेकेन पद्मं तु एकांशेन प्रकल्पयेत् ।कुमुदं तु त्रियंशेन पद्ममेकांशमानतः ॥८१॥आलिंगमेकभागेनान्तरितं शशिभागया ।द्विभागेन प्रतिं कुर्याद् वाजनं चैक भागया ॥८२॥अधिष्ठानस्य चोत्सेधं द्वाविंशति विभाजिते ।एतत्करीरबन्धं स्यात् प्रतिबन्धे तु भेदितम् ॥८३॥पादुकं चैकभागेन द्विभागेनाब्ज तुंगकम् ।कम्पमेकेन कर्तव्यं कण्ठमानं द्विभागया ॥८४॥कम्पमेकं द्विभागेन पट्टिकांशेन कम्पकम् ।द्विभागं गलमानं तु गलमेकांशमानतः ॥८५॥अम्बुजं चैकभागेन कुम्भमानं गुणांशकम् ।एकांशं गलमानं तु द्व्यंशेनालिंगमुच्यते ॥८६॥त्रिपट्टं चैकभागेन प्रतिमानं द्विभागया ।वाजनं चैकभागेन भागं द्विगुणितांशके ॥८७॥एतच्च प्रतिबन्धं स्यात् भेदं कलशबन्धनम् ।अधिष्ठानस्य चोत्सेधं चतुर्विंशति भाजिते ॥८८॥पादुकांशं तु भागेन तत्समं पंकजोदयम् ।खुरमेकेन कर्तव्यं जगत्युच्चं रसांशकम् ॥८९॥पद्ममेकेन भागेन कण्ठं पद्मं तु भागया ।वेदांशं * * * त्सेधं कलशं चैकभागया ॥९०॥आलिंगमेकभागेन भागेनान्तरितं भवेत् ।द्विभागं प्रतितुंगं तु वाजनं चैकभागया ॥९१॥प्रतिबन्धं तु भेदं स्यात् श्रीकरं नामचोच्यते ।भानुद्व्यंशे तलोच्चं तु द्विभागं पादुकं भवेत् ॥९२॥उपोपानं शिवांशं स्यात् षडंशं गलमानकम् ।कण्ठमंशेन कर्तव्यं अंशेनाब्जं प्रकल्पयेत् ॥९३॥गुणांशं घटमानं तु गलमेकेन वृत्तकम् ।कम्पमेकेन कण्ठं तु गुणांशमेकेन कम्पकम् ॥९४॥व्योमांशं कम्पमंशं तु द्विभागं पट्टिका भवेत् ।एकांशं गलमानं तु कम्पमेकेन कारयेत् ॥९५॥सुन्दराम्बुज नाम्ना तु पादबन्धे तु भेदितम् ।चतुस्सप्तद्विभागं तु तत्तन्मानं विभाजिते ॥९६॥द्विभागं पादुकं ख्यातं दलमानं युगांशकम् ।गलमेकेन कर्तव्यं अम्बुजं तु द्विभागया ॥९७॥द्विभागं पट्टिकामानं अंशं पादुकमुच्यते ।जगती चतुरंशं तु पद्ममंशे द्विजोत्तम ! ॥९८॥कण्ठमंशेन पद्मं तु शश्यंशं प्रविधीयते ।गुणांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् ॥९९॥कम्पमंशेन कर्तव्यं त्रिपट्टं चैकभागया ।द्व्यंशेन प्रतिमानं तु वाजनं च शिवांशकम् ॥१००॥एवं नलिनकान्तं स्यात् सर्वदेवप्रियावहम् ।त्रयोविंशति भागं तु तलोच्चं तु विभाजिते ॥१०१॥सार्धांशं पादुकोत्सेधं उपोपानं शिवांशकम् ।अधः पद्मं द्विभागं स्यात् एकांशं कण्ठमुच्यते ॥१०२॥तदूर्ध्वे पद्ममेकांशं कुमुदोच्चं गुणांशकम् ।तदूर्ध्वे पद्ममेकांशं एकांशं कम्पमानकम् ॥१०३॥कण्ठं द्व्यंशेन कर्तव्यं एकांशं चोर्ध्वपट्टिका ।एकांशं पद्मतुंगं तु सार्धांशं वाजनोदयम् ॥१०४॥एकांशं पद्मतुंगं तु आलिंगं चैकभागया ।त्रिपट्टं तु तथांशेन प्रतिमानं द्विभागया ॥१०५॥एकेन वाजनं कुर्यात् श्रीसौन्दर्यं समुच्यते ।प्रतिबन्धस्य भेदं स्यात् एतच्चं पुरतस्तथा ॥१०६॥चतुर्विंशति भागं तु तलोच्चं तु विभाजिते ।उपानं चैकभागेन द्विभागेन तु दलोदयम् ॥१०७॥तदूर्ध्वे कंपमेकांशं जगत्युच्चं शरांशकम् ।वेदांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् ॥१०८॥कण्ठमेकांशमित्युक्तं ऊर्ध्वपद्मं शिवांशकम् ।वाजनोच्चं द्विभागेन एकांशं पद्मभागकम् ॥१०९॥आलिंगमेकभागेन त्रिपट्टं तत्समं भवेत् ।प्रतिमानं द्विभागं स्यात् वाजनं चैकभागया ॥११०॥स्कन्दकान्तमिदं नाम्ना प्रतिबन्धस्य भेदिते ।धरातलोच्चं विभजेत् त्रयोविंशति भागया ॥१११॥उपानोदयमेकांशं षडंशमम्बुजोदयम् ।एकांशं कण्ठमानं तु ऊर्ध्वं पद्मं शिवांशकम् ॥११२॥युमांशं कुंभकोत्सेधं एकांशं पद्ममानकम् ।कम्पमेकेन कर्तव्यं द्विभागं कन्धरोदयम् ॥११३॥एकांशं कंपमानं तु ऊर्ध्वपद्मं च तत्समम् ।कपोतोच्चं गुणांशं तु आलिंगं चैकभागया ॥११४॥एतच्चाम्बुजकान्तं स्यात् पादबन्धे तु भेदितम् ।एवं त्वनेकभेदेन प्रोच्यते तु धरातलम् ॥११५॥तथैवोच्चैकमात्रं वा हीनाधिकं न दोषभाक् ।अर्धं वार्ध त्रिपादं वा बलांगद बलान्वितम् ॥११६॥त्रिपट्टस्य विशालं तु द्विविधं प्रविधीयते ।मूलपादस्य माव्यास पादमूले त्रिपट्टिकम् ॥११७॥पादान्तरे त्रिपट्टानां व्यासं त्रिपादमर्धकम् ।पादबाह्यसमावेशं नीव्रं चैव समं भवेत् ॥११८॥युग्मा व युग संख्या वा पादान्तरेषु कल्पयेत् ।सिंहेभमकरैर्व्यालैः भूतहंसैर्विभूषितम् ॥११९॥प्रत्यग्रमकरैर्व्यालैः पादाधारस्य निर्गमम् ।त्रिपट्टोर्ध्वे प्रतिं हेम सर्वत्र परिकल्पयेत् ॥१२०॥ऊर्ध्वाधस्तम्बुजोपेतं कुमुदं वृत्तमाचरेत् ।अन्ये द्वे कुसुमास्सर्वे प्रतिबन्धांघ्रि बन्धयेत् ॥१२१॥वृत्तं च वसुकोणं च क्रमेणैव तु कल्पयेत् ।इत्यंशुमान्काश्यपे अधिष्ठानलक्षणपटलः (षष्ठः) ॥६॥ N/A References : N/A Last Updated : October 14, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP