संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
कम्पद्वारलक्षणपटलः

अंशुमत्काश्यपागमः - कम्पद्वारलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण कंपद्वारविधिं परम् ।
प्रासादमण्टपादीनां चतुर्दिक्षु विदिक्षु च ॥१॥

तयोर्मध्यान्तराले वा ह्योमाभीष्टं तु यत्र वै ।
तत्रैव कल्पयेत्सम्यक् कंपद्वारं द्विजोत्तम ! ॥२॥

वस्त्रचितकृतं पंक्तिव्यासं यत्तु विशालकम् ।
स्थालादुत्तरसीमान्तं कंपद्वारोदयं भवेत् ॥३॥

भुवंगं च पतंगं च योगं प्राग्वद्घनं ततम् ।
कृत्वा दृढतरं बध्व योजयेदन्तरंघ्रयः ॥४॥

योगव्यासनतन्दीर्घं अन्तरांघ्रिं तथा कुरु ।
मूलाग्रयोः शिखेह्येता तारांघ्रिं परिकल्पयेत् ॥५॥

भुवंगे च पतंगे च छिद्रे युज्याद् दृढीकृतम् ।
चतुः पंच षडष्टौ वा दश द्वादश एव वा ॥६॥

ममुषोडशसंख्या वा कल्पयेदन्तरांघ्रयः ।
अन्तरायन्तरामत्या गमागमक्षमं विना ॥७॥

अन्तरांघ्रीन्सुयुंजीयात् स्थापयेद्द्वारयोगवत् ।
योजयेत्तु कवाटं च व्योमै प्रत्येकमेव वा ॥८॥

कवाटं व्योमद्वयं ग्रासं त्रिव्योमग्रवस एव वा ।
कल्पयेत्सुदृढं द्वारं न चलं हस्तिनापि च ॥९॥

कंपद्वारं समाख्यातं प्रस्तरं तु ततः शृणु ।

इत्यंशुमान्काश्यपे कंपद्वारलक्षणपटलः (सप्तदश) ॥१७॥

N/A

References : N/A
Last Updated : November 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP