संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| दक्षिणामूर्तिलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - दक्षिणामूर्तिलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत दक्षिणामूर्तिलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण दक्षिणामूर्तिलक्षणम् ।लम्बितं दक्षिणं पादं वामांघ्रेर्नलकाग्रकम् ॥१॥सव्योर्वग्रे निधातव्यं वामपादं तु शाययेत् ।ललाटदक्षिणे सव्ये नेत्रान्ते तत्पुटान्तके ॥२॥हिक्कामध्यस्य वामे तु हृदयं मध्यवामके ।यवत्रयान्तरं नीत्वा लम्ब्य वामे तु मध्यमे ॥३॥मेढ्रमूलस्य मध्यात्तु पूर्वसूत्रं प्रलम्बयेत् ।नत मध्यर्धमात्रं स्यात् चतुर्भुजसमन्वितम् ॥४॥दक्षिणे पूर्वहस्तं तु ज्ञानमुद्रां तु कारयेत् ।दक्षिणे परहस्तं तु अक्षमालासमन्वितम् ॥५॥वरदं वामहस्तं स्यात् दण्डहस्तमथापि वा ।वामजानूपरिष्टात्तु वरदे तलपृष्ठकम् ॥६॥वामजानूपरिष्टात्तु दण्डं चेत्कोर्परं न्यसेत् ।वामे त्वपरहस्ते तु वह्निं वा व्यालमेव वा ॥७॥अत्यर्जुवक्त्रं सर्वांगं मार्दवं स्फटिकावटम् ।सुकीर्णमूर्धांगं वापि जटामण्डलमेव वा ॥८॥वामे धूर्धूरनागं च दक्षिणेऽर्धेन्दुशेखरम् ।हसितं वक्त्रसंयुक्तं सर्वाभरणभूषितम् ॥९॥सितवस्त्रोत्तरीयं च सितयज्ञोपवीतकम् ।त्रिणेत्रं शंखपत्रं तु वामे सर्वं तु कुण्डलम् ॥१०॥कर्णौ द्वौ शंख पत्रं वा कुण्डलं वाथ मण्डितम् ।रुद्राक्षैः कण्ठमाला च भस्मना च विभूषितम् ॥११॥व्याघ्रचर्माम्बरोपेतं सर्वक्लेश विवर्ज्तम् ।नारदो जमदग्निश्च वसिष्ठो भृगु दक्षिणे ॥१२॥भारद्वाजः शोनकश्च अगस्त्यो वामपार्श्वके ।नान्दिना किंनराद्यैश्च वटवृक्षसमुद्गृहम् ॥१३॥अपस्मारोपरिष्टात्तु लम्बपादतलं न्यसेत् ।सूत्रात्पादजंघापार्ष्ण्यन्तं त्रिवेदमनुमात्रकम् ॥१४॥सूत्रात्तत्पादजान्वोस्तु अन्तरं मनुमात्रकम् ।श्यामवर्णमपस्मारं नागलीलासमन्वितम् ॥१५॥धर्मव्याख्यानमूर्त्येवं कल्पयेत्कल्पवित्तमः ।तदेव वामपादेन कुटीकासनसंयुतम् ॥१६॥पूर्वहस्तद्वये वीणाधृतो वै तु द्विजोत्तम ! ।शेषं प्रागिव कर्तव्यं एतद्वीणाकरं भवेत् ॥१७॥तदेव वीणाहीनं तु ज्ञानमुद्राभयान्वितम् ।वामं प्रसारितं हस्तं वामजानुर्ध्वकोपरि ॥१८॥दक्षिणे ह्यपरे चाक्षमाला वामेब्जवोत्पलम् ।शुद्धश्वेतनिभं वर्णं शेषं पूर्ववदाचरेत् ॥१९॥ज्ञानमूर्तिरिति ख्यातं सर्वकारणकारणम् ।अन्योन्यांघ्रितलं विप्र ! स्फिक् पिण्डाधः प्रकल्पयेत् ॥२०॥ज्ञानमुद्राहृदस्थाने भ्यन्तरमुखं करम् ।वरदं वामहस्तं तु मेढ्रपीठोपरिन्यसेत् ॥२१॥अपरे दक्षिणे वाब्जमालाक्षं वामहस्तके ।नासाग्रं तु समीश्चक्ष्याक्षवार्जवं सूत्रदेहके ॥२२ ।अपरे तु जटालं स्यात् ऋषिभिस्सेवितं वरम् ।योगमूर्तिरिति ख्यातं सर्वपापहरं परम् ॥२३॥एवं चानेकभेदेन दक्षिणामूर्तिरुच्यते ।इत्यंशुमान्काश्यपे दक्षिणामूर्तिलक्षणपटलः (एकोनाशीतितमः) ॥७९॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP