संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| समारोपः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - समारोपः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत समारोपः Translation - भाषांतर बाह्य लक्षणमुद्दिष्टं शृणुष्वाभ्यन्तरं तु यत् ।चतुरश्रां शिलां सम्यक् छेदयेत् तु विचक्षणः ॥१॥तक्षकच्छेदके चैव शूलं यत्र प्रदृश्यते ।स गर्भान्तं विजानीयाद्यत्नेन तु परीक्ष्यते ॥२॥मंजिष्ठवर्णे मण्डूकं कर्कटं हरितालके ।पीतकोयासिता सर्पं खद्योतमधुवर्णकैः ॥३॥कपिले मूषिकं विद्यात् स्फटिकाभे जपं स्मृतम् ।रक्तमण्डलिकं तत्र चित्रवर्णेन वृश्चिका ॥४॥शफरं कृष्णचित्रे तु किंशुकाभेन्द्रगोपकम् ।एते ....शंकोत्सेधे षण्णवत्यष्टभागंएकैकांशं द्व्यंगुलं तस्य धीमान् ।युक्त्या युक्त्या शंकुतुंगस्य मानंछायाश्चायाद् दक्षिणे दक्षिणे च ॥५॥अर्थलाभगृहच्छेदं गृहिणी मरणं तथा ।क्लेशोऽर्थ लाभो मरणं सुखमैश्वर्यमेव च ॥६॥क्रमाच्चक्रादिकं विद्यान्मध्ये कूपं विनाशयेत् ।मध्यकोणं तथा रज्जु द्वारपार्श्वे तु वर्जयेत् ॥७॥क्षेत्रारामगृणाणां तु कूपन्यासविधिक्रमम् ।देवालये च चाग्नेय्यां विशेषेण विधीयते ॥८॥कर्तुराश्यानुकूलं वा वास्तु क्षेत्रे विधीयते ।अधोमुखं निरीक्ष्याणि पूजितानि विशेषतः ॥९॥तिर्यङ्मुखानि मध्यानि वर्जयेदूर्ध्ववक्त्रकम् ।पक्षच्छिद्राणि रिक्तां च वर्जयेत् कृष्ण ऋक्षकम् ॥१०॥व्यतीपातं च परिघं वैधृतिं परिवर्जयेत् ।गुरुशुक्रज्ञवारेषु सोमवारेषु खानयेत् ॥११॥दशाहे कूपसूतिः स्यात् पश्चात् पुण्याहमाचरेत् ।एवमेव विधानेन कूपन्यासविधिक्रमम् ॥१२॥अष्टविद्येश्वरा ह्येते त्रिणेत्राश्च चतुर्भुजाः ।अभया वरदोपेताः टंकशूलसमन्विताः ॥१३॥रक्तं श्वेतं तथा नीलं पीतं कृष्णं च कुंकुमम् ।अरुणाभांजनप्रख्यं क्रमाद्वर्ण प्रमाणकम् ॥१४॥अनन्तादि शिखण्ड्यन्तं प्राग्दलादिषु पूजयेत् ।आयुधानां मुखं दीर्घं कारयेत् तु विचक्षणः ॥१५॥एकादि चेष्टपर्यन्तं नाहमानं विधीयते ।पूर्णमुष्टिस्तु नाहं स्यात् कारयेत् तु विचक्षणः ॥१६॥सहजं चलनं चैव आयुधानां विधीयते॥महाशिवाराधनं वक्ष्ये शृणुत्वं शरवणोद्भव ! ।लिंगे बेरे तथा चान्ये पीठे वा पूजयेच्छिवम् ॥१॥निष्कलं निष्कलं ज्ञेयं सकलं सकलाकृतिम् ।तयोस्तु पीठमाख्यातं कल्पयेत् कल्पवित्तमः ॥२॥पूर्वे वा पश्चिमे वापि दक्षिणे चोत्तरेऽपि वा ।द्वारं कुर्याद्विशेषेण पश्चिमं मुक्तिदं गुह ॥३॥उत्तरं शान्तिदं ज्ञेयं विजयं दक्षिणामुखम् ।देविकं मानवं तद्वान्नरैर्दक्षिणोत्तरम् ।स्वायंभूर्देविकं बाणं सर्वदेवदिगाश्रयम् ॥५॥लिंगं प्रधानमेवं हि रन्ध्रं कुर्यात्तु षण्मुख ! ।बेरं चैव तथै * हं देविके चार्षकेऽपि वा ॥६॥शैलजे लोहजे वाथ सौधजेनैव कारयेत् ।सौधजेनैव सिध्यर्थं शैलजं मुक्तिदं परम् ॥७॥लोहजं सुखदं ज्ञेयं शैलं चैव चलाचलम् ।स्थानकं चासनं यानं नृत्तरूपं तथैव च ॥८॥स्थानकं सर्व सिध्यर्थं आसनं सौख्यदं स्मृतम् ।स्थानकं चासनाख्यं च तामसं शयनं गुह ! ॥९॥धर्मकामार्थमोक्षार्थं नृत्तरूपं सुखावहम् ।लिंगे चैव विशेषेण स्थानकासनकं शृणु ॥१०॥वर्धमानं स्थितं लिंगं आसीनं तु शिवाधिकम् ।या कर्म शिवं ज्ञेयं एवं तद्भेदमुच्यते ॥११॥हर्म्यमानेन लिंगं वा बेरं वापि प्रकल्पयेत् ।लिंगबेरवशाद्धाम कारयेद्वा विजायते ॥१२॥कल्पनाद्रूपमेवोक्तं ध्यानरूपमथ शृणु ।त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा ॥१३॥एकवक्त्रं द्विवक्त्रं वा त्रिवक्त्रं वेदवक्त्रकम् ।पंचवक्त्रयुतो वापि शतसाहस्रमेव वा ॥१४॥द्विशतादि सहस्रान्तं एवमेवं विधीयते ।एकपादं द्विपादं वा त्रिपादं सहस्रमेव वा ॥१५॥श्वेतवर्णं च रक्तं च श्यामवर्णं तथैव च ।नीलवर्णं च कृष्णं च वर्णमेवं विधीयते ॥१६॥जटाजूटोर्ध्वकेशं वा जटापिंगसमोऽपि वा ।नागखड्गायुधो वापि शूलपाशायुधोऽपि वा ॥१७॥टंकशूलायुधो वापि सर्वायुधकरोऽपि वा ।निरायुधकरो वापि एवमेवं तु कारयेत् ॥१८॥सर्वायुध धृतो वापि निरायुध करोऽपि वा ।जटाग्रे जाह्नवीं चैव त्रिधारूपं तु मेव वा ॥१९॥पूर्णचन्द्रधरो वापि भूषयेन्मकुटोपरि ।हर्यर्धं गिरिजार्धं वा कल्पयेत्तु महाशिवम् ॥२०॥हर्यर्धं दक्षिणे भागे वामभागेऽर्धनारिणम् ।वामे तु गिरिजार्धं स्याद् दक्षिणे रुद्ररूपकम् ॥२१॥विपरीतनृपां सर्वधर्मकामार्थमोक्षदम् ।विष्णुं प्रजापतिं चैव धनदो विजयोऽपि वा ॥२२॥गौरी स्कन्दो वृषो वापि सव्यवामे सहासने ।प्राग्वच्च स्थापयेद्वापि कारयेद्द्विविधा मतः ॥२३॥लिंगं वा सकलं वापि केवलं कारयेत्पुनः ।तयोर्योगप्रतिष्ठां चेत् सकलं भित्तिमाश्रितम् ॥२४॥बाणं वा मानुषं लिंगं स्थापयेद्धाममध्यमे ।चललिंगं तु वा वत्स ! पूजयेच्छिवसंनिधौ ॥२५॥बाणं रत्नजलिंगं वा स्फटिकं चलमेव च ।पट्टिकान्तं गलान्तं वा होमान्तं कुमुदान्तकम् ॥२६॥तत्सीमे जलनिस्रा वा नालं तत्रैव विन्यसेत् ।पूर्वे वा चोत्तरे वापि नालस्थानं वदाम्यहम् ॥२७॥प्रतिबन्धं पद्मबन्धं पादबन्धमथापि वा ।अधिष्ठानं तथा शक्तिमार्गेणैव तु कारयेत् ॥२८॥जातिच्छन्दविकल्पाद्यैः एकमेकेन कारयेत् ।नागरं द्राविडं वापि वेसरं चतुरायतम् ॥२९॥वृत्तं वृत्तायतं चैव सभाकृतिरथापि वा ।विस्तारद्विगुणोत्तुंगं अल्प्य हर्म्येति चोच्यते ॥३०॥एकनासियुतो वापि देवनासियुतोऽपि वा ।नासिकारहितो वापि वाहनं रहितोऽपि वा ॥३१॥सिंहारूढं वृषारूढं भूतारूढमथापि वा ।दिङ्मूर्तिरहितं वापि एभिमूर्तिरथापि वा ॥३२॥देवाश्च दानवाश्चैव यक्षराप्स ऋषिस्तथा ।नानानासिसमायुक्तं नानायोनिसमाकुलम् ॥३३॥एवमेवक्रमं धाम कल्पयेत् तु षडानन ! ।बेरस्योच्छ्रार्धमानाश्च मानेनैवासनं गुरुः ॥३४॥पूजापीठं तु कर्तव्यं सप्तमात्रप्रमाणतः ।मेखलत्रयसंयुक्तं दलाष्टकसमन्वितम् ॥३५॥अर्चापीठमिति ख्यातं कल्पयेदेवमेव तु ।अर्चारूपमिदं प्रोक्तं पूजाभागन्न विद्यते ॥३६॥आवाहनोद्वहं नोक्तं पूजाभेदं न विद्यते ।आवहनोद्वहं नोक्तं पूजयेत्प्रति संधिषु ॥३७॥प्रतिदिनं प्रतिपक्षं प्रतिमासं प्रतिवत्सरम् ।युगे युगेषु पे वत्स पूजां कुर्याद्विशेषतः ॥३८॥वैदिकैस्तांत्रिकैर्मन्त्रैः एतत् तन्त्रोक्तमार्गतः ।पूजयेद्देव देवेशं अन्यतन्त्रैर्नकारयेत् ॥३९॥रथाकारं लिखेच्चक्रं नवावयवसंयुतम् ।रथांगानां चतुष्कं च द्वयं तत्रैव कीलकम् ॥१॥अग्रे द्वयं तथा पीठे स्वामिनक्षत्रमादिनः ।रथांगं च त्रयं पूर्वं कीलके भत्रयं तथा ॥२॥रज्जु द्वयं रथांगानां द्वयं कीलकमेव च ।पश्चाद्रथांगं पीठं च क्रमादक्षाणि विन्यसेत् ॥३॥स्थानेष्वेतेषु ऋक्षाणां विन्यसेच्च त्रयं त्रयम् ।त्वक् स्थाने शास्तु मन्दारा स्थिता तत्र विनाशदा ॥४॥रथांगेर्कधरासूनुशनिराह्वादयः स्थिताः ।तदिग्भागरथांगे तु भिन्नं भवति भूतले ॥५॥रव्यादयः कीलके च द्विग्रहो वा त्रयोऽपि वा ।रविलुप्तकरा नीचाः तस्य भंगं विनिर्दिशेत् ॥६॥रज्जौ रज्जु विनाशं च पीठे देवस्य नाशनम् ।क्षीणे नीचारिमूढस्थाः चन्द्रयोगे ध्रुवं फलम् ॥७॥शुक्रः पणफरे ज्ञो वा आपोक्लीवगतोऽपि वा ।रथचक्रं विजानीयाद् दारुभिन्दन्न संशयः ॥८॥केन्द्रे पणफरे चक्रे मन्दारफणवीक्षिते ।रथचक्रं नरं हन्ति रज्जुभीन्नं न संशयः ॥९॥उत्सवे चरलग्ने च स्थापने च स्थिरे तथा ।रथारोहे ध्वजारोहे चरे चोभय राशिषु ॥१०॥नेष्टं चतुष्टये वक्रं भयभे तद्वर्गोऽपि विलग्नकः ।करोति वसुधा नाशं तद्द्वारेऽपि शुयासतः ॥११॥चरामुख्यास्तत्र व्ययकटकतौलि तु धनुर्मीने ।चावस्थितः सकल पापाः शुभकराः ॥१२॥शशिन्यापोक्लीबे गुरुभृगुज केन्द्रेऽपि च तथा ।रथानां यात्रा स्युः शुचिनि निधने पंचम पदे ॥१२॥यात्रालग्ने नैधने नाम पुंत्रिकोणे मातेद्युने ।चन्द्रसूर्यारसौराद्य पश्चाच्छक्र भिद्यते राहुदण्डताकेतुः कर्ता पुत्रभार्यार्थ हानिम् ॥१३॥त्रिषडायगतैः पापैः कण्टकाद्यैः शुभयुतैः ।रथमायाति तच्छीघ्रं शरत्काले च भानुवत् ॥१४॥लग्नेशे बलवर्जिते निधनगे क्रूरेक्षिते संयुते ।रज्जुर्मृतिलग्नगे दिनपतौ भौ पेतन्ति ध्वजाः ।मन्दे विप्रतिचक्रकीलसहितः राहौ * * संयुते ।चिद्यः स्याच्छदिलग्नगे रथपतिभूमौ निवेशस्तथा ॥१५॥रथप्रयाणलग्नेशे चक्रेशे क्रूरसंयुते ।चक्रं निपतितं भूमौ कीलेन सह भिद्यते ॥१६॥त्रिकोणे सबले जीवे केन्द्रे च बलसंयुते ।रथमायाति तच्छीघ्रं शरत्काले च भानुवत् ॥१७॥रथप्रयाणकेन्द्रेषु रविराह्वारभानुजाः ।निघ्नन्ति रज्जुकीलाद्यैः तच्चक्रं च पतेद्भुवि ॥१८॥यात्रोदये यदा भानुः अस्तगे तत्सुतो यदि ।विनाशयति तच्छीघ्रं चक्रं कीलेन रज्जुभिः ॥१९॥निमज्जति रथं चक्रं न भूमेर्मन्दिरो यथा ।आदित्ये सबले केन्द्रे न गच्छति * कं पतिः ॥२०॥सबले केन्द्रगे सौम्ये त्रिकोणो वाथ नायके ।त्रिषडायगताः पापाः रथं सम्यक् प्रवर्तते ॥२१॥त्रिकोणे कण्टके पापे रथयात्रोदये सति ।कर्ता मरणमायाति स राष्ट्रं नाशयत्यसौ ॥२२॥विनाशती च तच्चक्रं सरथं रज्जुना सह ॥२३॥रथयात्रा चरेष्विष्टा द्विस्वभावेषु मध्यमा ।केन्द्र त्रिकोणगे पापे शुभषष्ठान्त्यगो यदि ॥२४॥पापेक्षिते शुभैर्मुक्ते रथयानं चिराद्भवेत् ।केन्द्र त्रिकोणगे मन्दे द्वादशाष्टमगो यदि ॥२५॥दिनत्रयेणरित्यादि रथभंगं च निर्दिशेत् ।केन्द्रे चन्द्रे गुरौ कोणे भृणु सौम्य निरीक्षिते ॥२६॥चरलग्ने यदा यानं घटिकानां त्रयोदश ।द्वादशे नवमे पापे पापलग्ने शुभेक्षिते ॥२७॥द्वितीये केन्द्रगे सौम्ये रथयानं दिनार्धतः ।पीठे राहुसमायुक्ते रथांगे शनिसंगते ॥२८॥कीलके पापसंयुक्ते रथभंगोऽत्र विद्यते ।पीठे दिनमणौ भौमे रथांगे पापसंयुते ॥२९॥रज्जौ च कीलके सौम्ये रथयानं चिरेण तु ।अचिराद्रथयानं स्यात् पीठे दे * न्दु पूजिते ॥३०॥रथांगे शशिविच्छक्रा रज्जौ सूर्ये शुभेक्षिते॥बलि पीठं प्रवक्ष्यामि बाह्ये पीठ चतुष्टयम् ।प्राच्यां वै स्थापिते पीठे श्रीकरं चेति कीर्तितम् ॥१॥दक्षिणे स्थापिते पीठे श्रीविशालमिति स्मृतम् ।पश्चिमे स्थापिते पीठे श्रीभद्रमिति कीर्तितम् ॥२॥उत्तरे स्थापितं पीठं श्रीनिवासमिति स्मृतम् ।प्राच्यां श्रीकरस्य प्रतिष्ठायां ब्राह्मणानां तु वृद्धये ॥३॥श्रीविशालप्रतिष्ठायां क्षत्रियाणां च वृद्धये ।श्रीभद्रस्य प्रतिष्ठायां वैश्यानां च विवृद्धये ॥४॥श्रीनिवासप्रतिष्ठायां शूद्राणां चाभिवृद्धये ।एवमेव प्रकारेण चतुर्द्वारे विशेषतः ॥५॥श्रीश्च सरस्वती चैव ब्राह्मी सावित्रि एव च ।पीठस्याधिपतीनां तु पूर्वादीनां यथाक्रमम् ॥६॥सुप्रभेदे -------- बलि पीठलक्षणम्॥४२०) गर्भगेहस्य पंचांशे चतुष्कं चोत्तमोन्नतम् ।त्रिभागं मध्यमं प्रोक्तं द्विभागमधमं स्मृतम् ॥७॥द्वारोत्सेधसमं श्रेष्ठं तत्त्रिभागं तु मध्यमम् ।द्वारार्धमधमं विद्यात् उत्सेध समविस्तृतम् ॥८॥उत्सेधं सुविभज्याथ भागमेकोनविंशति ।भागेनोपानकोच्चं तु चतुर्भिर्जगती भवेत् ॥९॥कुमुदं तु त्रिभागे तु तदूर्ध्वैकेन पट्टिका ।कर्णं कुर्यात्त्रिभागैः एकेनैवोर्ध्व पट्टिका ॥१०॥महापट्टिका द्व्यंशेन दलोत्सेधं त्रिदलाष्टकम् ।कर्णिका चैकभागेन प्रोक्तमुत्सेधमुत्तमम् ॥११॥प्रवेशनिर्गमं वक्ष्ये विस्तारोत्सेधकांशकम् ।समस्तांशमुपानन्तु मन्वंशं जगती तथा ॥१२॥भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिका तथा ।अष्टांशं कण्ठविस्तारं दशांशं चोर्ध्वपट्टिका ॥१३॥द्वादशांशं महापट्टी दशांशमष्टदलविस्तरम् ।चतुरश्रं यथा पीठं कुर्यात्पद्मदलं विना ।स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः ॥१५॥प्रतिष्ठाविधिमार्गेण कारयेद्देशिकोत्तमः ।कारणे परिवारबलिः॥मूलधाम्नश्च द्वारोच्चं उत्तमं पीठविस्तृतम् ।त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् ॥१॥शुद्धद्वारस्य विस्तारं अधमं पीठमुच्यते ।द्विगुणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते ॥२॥अथवा व्योमहस्तेन अधमं पीठविस्तृतम् ।द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ॥३॥तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति ।उपानोच्चं द्विभागं स्यात् षडंशं जगती भवेत् ॥४॥कुमुदोच्चं तु भूतांशं कंपमेकांशमुच्यते ।वेदांशं कर्णमानं तु ऊर्ध्वकंपं शिवांशकम् ॥५॥महापट्टीद्वयांशं तु द्विभागं वा विशेषतः ।वेदांशं पद्मतुंगं तु द्विभागं कर्णिकोदयम् ॥६॥अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।पद्मोच्चं पंचभागं तु महापट्टी द्विभागतः ॥७॥उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।क्षुद्रपीठलक्षणम्॥अन्तर्मण्डलमध्ये तु भित्याश्रयमथापि वा ॥८॥बलिपीठं प्रकर्तव्यं कौशिकांगुलसंयुतम् ।अधमं द्विगुणं मध्यं त्रिगुणं चोत्तमोन्नतम् ॥९॥वेदाश्रं वाथ वृत्तं वा सर्वपीठं प्रकल्पयेत् ।विस्तारसमतुंगं स्यात् त्रिपादं चार्धमेव वा ॥१०॥त्रिमेखलं तु कुर्वीत द्विमेखलमथापि वा ।एकमेखलया युक्तं ऊर्ध्वे पद्मसमन्वितम् ॥११॥पद्मपीठं तु कुर्वीत पद्माकारं स कर्णिकम् ।मातॄणां नवपीठं स्यात् ज्येष्ठायां पीठकत्रयम् ॥१२॥अन्येषामेकमेवं स्यात् चण्डेशस्य तथैव हि ।अन्तर्मण्डलदेशे तु इन्द्रादि बलिपीठकम् ॥१३॥स्थापयेत् तु क्रमेणैव मण्डपोपान बाह्यतः ।अन्तर्मण्डलतारस्य सदृशं द्विगुणं तु वा ॥१४॥अन्तस्तारस्य बाह्ये तु कल्पयेत्कल्पवित्तमः ।तस्यास्तु मध्यमे भागे परिवाराष्ट विन्यसेत् ॥१५॥वृषादि चण्डपर्यन्तं स्थापयेदष्टदिक्षु च ।यस्य विस्तारपचत आयामं च विधीयते ॥१६॥चतुर्भागाधिकं पंचभागं वाधिकमेव वा ।त्रिभागेनाधिकं चैव द्विद्धं पंचार्धमाधिकम् ॥१७॥मेव वा द्विगुणं तद्द्विगुणं पादाधिकं तु वा ।द्विगुणार्धं तु आयामं गोपुरेषु विधीयते ॥१८॥प्रासादस्य विस्तारं यत्तद्दण्डमिहोच्यते ।मूलहर्म्यं समारभ्य षडष्टदण्डमानतः ॥१९॥दशद्वादशदण्डो वा मनुदण्डावसानकम् ।षोडशाष्टादशो वापि महापीठं प्रकल्पयेत् ॥२०॥अथवान्यप्रकारेण पीठस्थानं विधीयते ।तृतीय साले चतुष्पंचसाले चैव तु मध्यमे ॥२१॥महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते ।मूलधामस्य द्वारोच्चं उत्तमं पीठविस्तृतम् ॥२२॥त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् ।शुद्धद्वारस्य विस्तारं अधमं पीठविस्तृतम् ॥२३॥द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ।तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति ॥२४॥उपानोच्चं द्विभागं स्यात् षडंशं जगतिर्भवेत् ।कुमुदोच्चं तु भूतांशं कंपमेकांशमुच्यते ॥२५॥वेदांशं कर्णमानं तु ऊर्ध्वकंपं शिवांशकम् ।महापट्टी गुणांशं तु द्विभागं वा विशेषतः ॥२६॥वेदांशं पद्मतुंगं तु महापट्टी द्विभागया ।उपानोच्चं शिवांशेन द्विभागं कर्णिकोदयम् ॥२७॥अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।पद्मोच्चं पंचभागं तु महापट्टी द्विभागया ॥२८॥उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।अथवा पीठोदयं विप्र धरातलं यथा कुरु ॥२९॥तदूर्ध्व पद्ममानं तु पीठोच्चे न्यंशमुच्यते ।अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत् ॥३०॥पद्मतारे युगांशं वा भूतांशं कर्णिकायतम् ।पीठागारं युगाश्रं वा वृत्तं वाष्टाश्रमेव वा ॥३१॥कलाश्रं वाथ कर्तव्यं तद्द्व्यया मण्डलाम्बुजम् ।लोहजं शैलजं वाथ इष्टकामयमेव वा ॥३२॥सुधया वेष्टकागर्भं नानाचित्रैर्विचित्रितम् ।भूतैश्च मकरैर्व्यालैः वृषभैश्च विभूषितम् ॥३३॥नानावर्णैर्विचित्रं यत् भूषयेद्धेमराजतैः ।पीठव्यासे तु षट्सप्त वसुनन्दांशकेऽपि वा ॥३४॥अंशमस्योपपीठोच्चं उपपीठोक्तवत् कुरु ।तदूर्ध्वे तु महापीठं उक्तवस्योदयान्वितम् ॥३५॥उपपीठं विना पीठं कर्तव्यं वा द्विजोत्तम ! ।आमोदं प्राग्दले चैव प्रमोदो याम्यदिग्दले ॥३६॥प्रमुखः पश्चिमे चैव उत्तरे विमुखस्तथा ।अविघ्नस्त्वीशदिग्भागे विघ्नकर्तारमानले ॥३७॥सात्विकं नैर्-ऋते भागे राजसं वायुकोणके ।तामसं कर्णिकामध्ये नीलरुद्रस्वरूपकम् ॥३८॥भूम्यन्तरिक्ष स्वर्गं च सर्वभूतगुणात्मकम् ।तत्सर्वात्मकमित्युक्तं महापीठं द्विजोत्तम ! ॥३९॥पश्चिमाभिमुखे हर्म्ये किंचिद्भेदं वदाम्यहम् ।वृषस्थाने कुमारं तु कौमारे वृषभं न्यसेत् ॥४०॥वारुणे तु महापीठं शेषं पूर्ववदाचरेत् ।परिवारविधिः प्रोक्तः पश्चाल्लिंगस्य लक्षणम् ॥४१॥क्रमुकं वेणुदण्डं वा चन्दनं वापि खादिरम् ।चम्पका देवदारुश्च स्तवका जाति बिल्वकम् ॥४२॥अवक्रं निर्व्रणं चैव कृमिकोटरवर्जितम् ।प्रासादस्य समं वापि प्रासादग्रीवमेव वा ॥४३॥वृषस्थल समं वापि गोपुरोत्सेधमेव वा ।द्वितल त्रितलान्तं वा दण्डस्योत्सेधमुच्यते ॥४४॥पूगनालिकतालं च चम्पकं बिल्वचन्दनम् ।अश्वत्थं खादिरं चैव न्यग्रोर्धसार तिंत्रिणी ॥४५॥पलाशं नृपसारं च बिल्वसारं तथैव च ।मधूकसारवृक्षं च ध्वजदण्डमिहोच्यते ॥४६॥वृषस्थलावसानान्तं ग्रीवान्तं गोपुरान्तकम् ।दण्डमानमिति प्रोक्तं ध्वजदण्डमिहोच्यते ॥४७॥बलिपीठं तु तन्मानं उच्छ्रयं कर्णिकासमम् ।गेहगोपुरयोर्मध्ये बलिपीठं तु विन्यसेत् ॥४८॥वाहनं बलिपीठं तु ध्वजपीठं तु विन्यसेत् ।महत्यल्पं च द्विविधं ध्वजमुत्तुंगमिष्यते ॥४९॥क्षुद्रं प्रासादमुत्सेधं ध्वजदण्डमिति स्मृतम् ।स्तूप्यन्तं शिखरान्तं च नासिकान्तं गलान्तकम् ॥५०॥प्रस्तरान्तसमुत्सेधं उपदण्डं द्विहस्तकम् ।हस्तार्धपादहीनं तु एकहस्तावसानकम् ॥५१॥एवं दीर्घविधि प्रोक्तं अयदूर्ध्वं तु पद्मकम् ।मूलप्रासादविस्तारं तत्समं वा त्रिपादकम् ॥५२॥ध्वजदण्डोच्छ्रयं प्रोक्तं मानमार्गमितीष्यते ।गोपुरात्पूर्वा परान्तं तु प्रासादसममेव वा ॥५३॥पैशाच पीठं न्यस्ताध धामार्ध त्रिपदांशकम् ।हस्त त्रिपंचसप्ताभि नवहस्तान्तमेव वा ॥५४॥उच्छ्रयेति दशा सप्त पद्मत्रयंशं तु गजासरा ।एकांशं पद्मतुंगं तु कम्पमंशांशमम्बुजम् ॥५५॥कुमुदं त्रिभागमेवं तु ऊर्ध्वपद्मं शिवांशकम् ।मधोकंपपद्मांशं प्रोक्तं वेदांशं कण्ठमुच्यते ॥५६॥कम्पभागेन कर्तव्यं पद्मांशं पट्टिका गुणम् ।एकपत्रपद्ममधा कम्पमंशं मथकर्णिका ॥५७॥पंचमधोर्ध्वपद्मं तु गुणभागं विधीयते ।चक्रं वापि त्रिशूलं वा प्रासाद स्यार्धमेव वा ॥५८॥पादोनाष्टांशभागेन आयुधस्य समुच्छ्रयम् ।एकादि नवहस्तान्तं माननिर्णयमिष्यते ॥५९॥एवं तु परिवाराणि प्रोक्तानि शास्त्रपारग ।नन्दाष्टपंक्त्याष्ट नव विंशदष्टा-कुम्भे च मूर्ध्नि गलप्रस्तरान्तम् ।पादोन पादादि अधस्तूपिकान्तंनारायण्यमेकभूमं प्रधानम् ॥६०॥यानकं स्थानकं शयनमासनं च चतुर्विधम् ।आर्षकं स्थानकं चैव स्वायंभुवमथासनम् ॥६१॥मानुषं राक्षसं बाणं गाणवं शयनं भवेत् ।देविकं यानकं प्रोक्तं एवं लक्षणमुच्यते ॥६२॥चतुरश्रं स्थानकं प्रोक्तं आसनं तु सुवृत्तकम् ।यानकं त्वश्रमेवोक्तं अष्टाश्रं शयनं भवेत् ॥६३॥पीठाकृतितताश्चैव एवं लक्षणमुच्यते ।वृत्तपीठस्थिता गौरी भद्रपीठं तु चासनम् ॥६४॥शयनं पद्मपीठा च बलिपीठाधिपीशक्तिमिहोच्यते ।आमोदश्च प्रमोदश्च प्रमुखो विमुखस्तथा ॥६५॥अविघ्नो विघ्नकर्तारो बलिपीठाधिदेवताः ।विस्तारस्तम्भतो बाह्ये जन्मात् स्तूप्यन्तमुन्नतम् ॥६६॥अथवा शिखरान्तं स्यात् विमानानां समुन्नतम् ।बलिदेवताः॥दैविकं तु भवादीनां इन्द्रादीनां तु मानुषम् ॥६७॥भूतादीनां स्वयं भूतं आर्षकं परिवारकम् ।वसूनां बाणलिंगे तु विद्येशानां तु दैविकम् ॥६८॥यक्षादि राक्षसा लिंगं बलिदेवाः प्रकीर्तिताः ।भवश्शर्वस्तथेशानः पशुपतिर्नीललोहितः ॥६९॥उग्रो भीमो महा देवो इत्यष्टौ मूर्तयस्तथा ।पीतं च कुंकुमं कृष्णं अरुणं भिन्नांजनप्रभम् ॥७०॥नीलं श्वेतं तथा रक्तं अष्टमूर्तेश्च वर्णकम् ।अभयवरदाः सर्वे पाशांकुश चतुर्भुजाः ॥७१॥त्रिणेत्रास्त्वेकवक्त्राश्च द्विपादाश्चैव नूपुराः ।जटामकुटसंयुक्ता मूर्तिरूपाः प्रकीर्तिताः ॥७२॥सालास्सालान्तरे मध्ये ध्वजस्थानं विधीयते ।अथवा दण्डमानेन मूलं प्रासादमारभेत् ॥७३॥द्वित्रिदण्डविवृद्ध्या तु पंचसप्तनवान्तकम् ।रुद्रत्रयोदशान्तं वा दशपंचसुसप्तकम् ॥७४॥एकोनविंशतिश्चैव दण्डमानं प्रकीर्तितम् ।पंचभागद्विभागं तु सप्तभागे त्रिभागिकम् ॥७५॥नवभागे चतुर्भागं प्राकाराणां विधीयते ।पूर्वं शून्यविशालं चेत् यथाशोभं यथा रुचि ॥७६॥एवं तु बहुधा प्रोक्तं कल्पयेत् तु यथारुचि ।अन्तर्मण्डल सालादिमध्यगोपुरमध्यतः ॥७७॥नवपंचैकदण्डोऽपि वसुदिक्षु चतसृषु ।प्रधान स्वग्रदेशस्था ध्वजं तत्संख्यया मताः ॥७८॥॥ शुभमस्तु॥पीठरन्ध्रे भगाकारं योनिमध्ये सलक्षणम् ।ऊर्ध्वाग्रं तत्प्रकर्तव्यं अथवा रन्ध्रमुच्यते ॥७९॥भगाकारं कृताख्याता योनि मध्ये क्रमोध्वयुक् ।बाणरत्नादिकं चैव देवी पीठस्य लक्षणम् ॥८०॥रन्ध्रमध्ये भगाकारं ऊर्ध्वाग्रं लक्ष्मपीठकम् ।रन्ध्रस्यैव द्विभागेन तन्मूले भ्रमरे लिखेत् ॥८१॥पीठोदयकलांशं तु एकांशं रत्नमेव च ।दशांशं सिकतैर्युक्तं पंचांशं बन्धयेत् क्रमात् ॥८२॥पूजांश षोडशांशैकं उत्सेधं तु विधीयते ।तन्मानं पदविस्तारं अष्टबन्धं तथोच्यते ॥८३॥भिन्ने घटे यथाकाशे तथाकाशे प्रलीयते ।जीर्णबेरं तु न त्याज्यं पूजितं निष्फलं भवेत् ॥८४॥न दर्शनं न सेवा च नार्चनं नाभिवन्दितम् ।मोहेन पूजनं कुर्यात् तत्कर्ता मरणं व्रजेत् ॥८५॥देवे जीर्णे पुनः सृष्टे देव्या प्राच्या पति स्थितः ।ताभिरेव पुनर्देव्या योज्यानन्य सृजेत् पुनः ॥८६॥नोद्वाहं च न कर्तव्यं सन्तदेवासु पूजयेत् ।लिंगे जीर्णे पुनः सृष्टे योगे प्राच्या पतिस्थितः ॥८७॥भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः ।नोद्वाहं च कर्तव्यं सन्तदेवासु पूजने ॥८८॥लिंगस्य जीर्णिते सत्ति लिंगमात्रं परित्यजेत् ।पीठस्य जीर्णिते सत्ति पीठमात्रं परित्यजेत् ॥८९॥लिंगपिण्डिसमं जीर्णं लिंगपीठं परित्यजेत् ।भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः ॥९०॥लिंगं चतुर्विधं ज्ञात्वा स्थावरं शास्त्रचोदितम् ।दैविकं चार्षकं चैव गाणवं मानुषं तथा ॥९१॥चतुर्विधेषु भेदेषु दैविकं लक्षणं शृणु ।दैविकलिंगम्॥दीर्घाकारं भवेल्लिंगं निम्नोन्नतसमन्वितम् ॥९२॥रेखाकोटर संयुक्तं मुखे तारायतोन्नतम् ।पार्वताग्राकृतिं लिंगं वह्वग्रं त्वग्रतः शिखा ॥९३॥कराभ्यां संपुटाकारं ब्रह्मसूत्रविवर्जितम् ।इत्येतैर्लक्षणैर्युक्तं लिंगं दैविकमुच्यते ॥९४॥आर्षलिंगम्॥मूलस्थूलं भवेल्लिंगं अग्रमूलं तथैव च ।मध्यस्थूलं तु लिंगानां नालिकेरफलाकृति ॥९५॥कदलीफलाकृति श्रीबिल्वस्यैव फलाकृतिः ।लिंगमार्षकमाख्यातं ब्रह्मसूत्रविवर्जितम् ॥९६॥गाणवलिंगम्॥कूष्माण्डस्य फलाकारं मातुलुंगफलाकृति ।उर्वारुकफलाकारं कपित्थस्य फलाकृति ॥९७॥तालफलवदाकारं गाणवं लिंगमुच्यते ।मानुष लिंगम्॥द्वारं वा गर्भमानं वा हस्तमानमथापि वा ॥९८॥शिल्पशास्त्रोक्तमानं वा छत्राकारशिरोन्नतम् ।एकवर्णं सुसंस्निग्धं ब्रह्मसूत्रसमन्वितम् ॥९९॥इत्येतैर्लक्षणैर्युक्तं लिंगं मानुषमुच्यते ।अथ वक्ष्ये विशेषेण शिवरात्रिं सुपूजयेत् ॥१००॥कृतत्रेतायुगे चैव द्वापरे च कलौ युगे ।युगे युगे तु संपूज्य कृतायां तु गुहो यजेत् ॥१०१॥त्रेतायां विघ्नराजेन द्वापरे चाच्युतो यजेत् ।ब्रह्मेन्द्र ऋषिभिश्चैव कलौ संपूजितो हरः ॥१०२॥माघकृष्णचतुर्दश्यां फाल्गुने च द्वितीयके ।चैत्रमासे त्रयोदश्यां वैशाखे कृष्णपंचमी ॥१०३॥ज्येष्ठे शुक्लतृतीये च आषाढे चाष्टमी यजेत् ।द्वादश्यां श्रावणे चैव पूर्वाषाढे तु पंचमी ॥१०४॥तुलायां सप्तमी चैव कृष्णाष्टम्यां तु कृत्तिकाम् ।द्वादश्याभार्द्रमासे तु पुष्यमासे तु सप्तमी ॥१०५॥एवं संवत्सरे पूज्यशिवरात्र्युपवासके ।माघमासे चतुर्दश्यां तत्फलं शिवरात्रिकम् ॥१०६॥एकमासे द्विपक्षे तु रात्राधिक्य तिथिर्वरम् ।शिवं संपूज्य तद्रात्रौ तत्फलं लभते नरः ॥१०७॥पक्षाक्षं सममेवं स्यात् पूर्वरात्रौ शिवं यजेत् ।तस्मात् सर्वप्रयत्नेन सर्वरात्रौ विशेषतः ॥१०८॥रात्रावधिकपक्षे तु शिवपूजा विधीयते ।तद्रात्रौ शिवरात्रिः स्याद्देवसान्निध्यमेव च ॥१०९॥शर्वरी पक्षहीनं तु सा दोषाबहुलास्तथा ।तस्मात् सर्वप्रयत्नेन सर्वमासं क्रमेण तु ॥११०॥नित्यसिध्यवसने तु शिवरात्रिं समाचरेत् ।यामं प्रतिविशेषेण शिवपूजां विशेषतः ॥११॥ न वाहे चैव सप्ताहे पंचाहे वांकुरार्पणम् ।अंकुराण्यर्पयेत् पश्चात् पूर्वोक्त विधिना सह ॥११२॥तद्दिनस्य तु पूर्वे तु मण्डपं शोधयेत्ततः ।पंचगव्येन संपूज्य कौतुकं बन्धयेत् ततः ॥११३॥बिल्वपत्रं तु संपूज्य सर्वगन्धसमन्वितम् ।वस्त्रेण वेष्टयेद्धीमान् बिलपत्राधिवासनम् ॥११४॥प्रभाते विमले धीमान् देशिकः स्नानमाचरेत् ।पूर्वाह्ने तर्पणं चैव मध्याह्ने तु प्रदक्षिणम् ॥११५॥सायाह्ने पूजनं कृत्वाप्येवमेवं व्रतं चरेत् ।ब्रह्मक्षत्त्रिय विट्छूद्रा उपवाससमन्विताः ॥११६॥द्विजानां शिवभक्तानां सर्वेषां प्राणिनामपि ।सर्वासां चैव नारीणां उपवासं तथैव च ॥११७॥न निद्रानं प्रयत्नेन सर्वकार्याणि साधयेत् ।यत्फलं सर्वसिद्धिं च इष्टकाम्यं तथैव च ॥११८॥आयुष्यकं च सिद्धिं च सर्वमोक्षं तथैव च ।अमंगल्योपवासी च पुनर्जन्म सुमंगली ॥११९॥अपत्नीकोपवासी च पुनः पत्नी समन्वितः ।इष्टकाम्यफलं काम्यं शिवरात्र्युपवासके ॥१२०॥निद्रायां तु फलं हीनं निद्राहीनं तु तत्फलम् ।तस्मात् सर्वप्रयत्नेन उपवासमनिद्रकम् ॥१२१॥ऋग्यजुस्सामवेदानां चतुर्भिः प्रतियामके ।ब्राह्मणैर्मुनिभिस्सार्धं देशिकस्संप्रपूजयेत् ॥१२॥विघ्नेशं पूजयेत् पूर्वं सौरपूजामतः परम् ।शालिभिः स्थण्डिलं कृत्वा पुण्याहं वाचयेत्ततः ॥१२॥पूर्वे तु पंचगव्यं स्यात् पंचामृतं द्वितीयके ।तृतीये स्नानमाप्यं तु इक्षुसारं चतुर्थके ॥१२४॥यामं प्रतिविशेषेण पूजयेद्देशिकोत्तमः ।पूर्वे तु स्नपनं प्रोक्तं अष्टोत्तरशतं भवेत् ॥१२५॥द्वितीये स्नपनं प्रोक्तं पंचाशत्कलशं भवेत् ।तृतीये स्नपनं चैव पंचविंशति संख्यया ॥१२६॥चतुर्थे स्नपनं चैव नवकुम्भेन पूजयेत् ।यामं प्रति विशेषेण स्नपनं कारयेद्बुधः ॥१२७॥पूर्वयामे तु संस्थाप्य बिल्वपत्रैस्समर्चयेत् ।द्वितीये पद्मपुष्पैश्च तृतीये जातिपुष्पकैः ॥१२८॥नन्द्यावर्तैश्च संपूज्य चतुर्यामं तु पूजयेत् ।चतुस्संध्यार्चनं कुर्यात् बिल्वपत्रैस्समन्वितम् ॥१२९॥मुद्गान्नं प्रथमे चैव द्वितीये पायसान्नकम् ।तृतीये कृसरान्नं स्यात् शुद्धान्नं स्याच्चतुर्थके ॥१३०॥यामं प्रतिविशेषेण क्षेत्रपालं समर्चयेत् ।यामं प्रतिविशेषेण बलिहोमं समाचरेत् ॥१३१॥देशिकं पूजयेत्तत्र वस्त्र हेमांगुलीयकैः ।एवं संपूज्य विधिवत् शिवलोके महीयते ।---------------------------------सूर्येन्दु वह्निमय भास्वर दीप्य पीठांस्वेच्छा गृहीत सृणिपाशशरेक्षु चापाम् ।बालेन्दु मौलिमलकाभरणां त्रिणेत्रांनित्यं नमामि मनसा महनीयकीर्तितम् ॥१३३॥पृथ्वी गृहं सुरदलाम्बुजमष्टपत्रंलोकाश्रकं द्विदशकोणमथाष्टकोणम् ।अन्तस्त्रिकोणमदि मध्यममादि पीठंतत्सर्वमम्ब तव रूपमनुस्मरामि ॥१३४॥बालार्क मण्डलाभासं चतुर्बाहुं त्रिलोचनाम् ।पाशांकुशधनुर्बाणान् धारयन्तीं शिवांभजे॥(शुभमस्तु) N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP