संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| एकतलविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - एकतलविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत एकतलविधिपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण हर्म्यमेकतलं शृणु ।तस्य विस्तारतुंगं च प्रोक्तं प्रासादमानके ॥१॥युगाश्रं वृत्तमायाश्रं द्व्यश्रं वृत्तं षडश्रकम् ।अष्टाश्रं चाकृतिष्वेषां शिखरेऽपि तथैव च ॥२॥हर्म्य तारार्धमानं तु कन्यसं मुखमण्टपम् ।हर्म्य तारसमं श्रेष्ठं तयोर्मध्येष्ट भाजिते ॥३॥मुखमण्टपदीर्घं तु नवधा कथिता मया ।प्रासाद सदृशं व्यासं उत्तमत्रय मण्टपम् ॥४॥प्रासादादविशेषिता दण्डमध्यर्धदण्डकम् ।द्विदण्डं वा प्रवेशं तु मानसूत्राद्द्विजोत्तम ! ॥५॥सार्धदण्डैक दण्डं वा मानसूत्रात्तु वेशनम् ।युग्मस्तंभसमायुक्तं युक्त्या सर्वांगशोभितम् ॥६॥सावकाशान्तरालं वा कुड्यद्वारं सजालकम् ।सावकाशान्तरालं चेत् तद्दीर्घं द्वित्रिचतुष्करम् ॥७॥सोपानं पाश्वयोः कुर्यात् गजहस्त विभूषितम् ।प्रासादभित्तिविस्तारतुल्यं वार्धं त्रिपादकम् ॥८॥अन्तरालस्य भित्तेस्तु व्यासास्युर्मण्टपं तथा ।कूटकोष्ठादि युक्तं वा भिन्नं मुखमण्टपम् ॥९॥त्रिवर्गसहितं वापि तोरणाद्यैर्विचित्रितम् ।एकानेकतलं वाथ कर्तव्यं मुखमण्टपम् ॥१०॥हर्म्यतारे त्रिभागैकं गर्भगेहस्य विस्तृतम् ।पंचभागे त्रिभागं च वेदांशं सप्तभाजिते ॥११॥दशांशे भूतभागं तु रसांशं रुद्रभाजिते ।त्रयोदशांशे सप्तांशं वस्वंशं तिथि भाजिते ॥१२॥सप्तादशांशे नवांशं च व्यासार्धं च द्विजोत्तम ! ।गर्भगेहस्य विस्तारं नवधा कीर्तितां मया ॥१३॥शेषंभित्ति विशालं स्यात् परितः कल्पयेद्बुधः ।एकद्वित्रिचतुष्पंच भित्तिः स्यादेकभूमिके ॥१४॥हर्म्ये च वसुधा भज्य एकांशं हि तलोन्नतम् ।द्विभागं चरणायामं प्रस्तरार्धैकभागया ॥१५॥गलोच्चं त्वेकभागेन द्विभागं शिखरोदयम् ।एकांशं स्तूपि तुंगं तु कल्प्येवं शान्तिकं भवेत् ॥१६॥शान्तिके मंचमानं तु दशाष्टसप्तभागिकम् ।एकांशं रहितं शेषं मंचं वा प्राग्वदेव वा ॥१७॥एवं शान्तिकमाख्यातं पौष्टिकं चाधुना शृणु ।सदनोच्चे नवांशे तु शिवांशं तु तलोदयम् ॥१८॥अर्धपादसमायुक्तं द्व्यंशं तु चरणोदयम् ।मंचमानं तथैकांशं सार्धपादांशकं गलम् ॥१९॥सत्रिभागत्रिभागं तु शिखरोदयमीरितम् ।स्तूप्युत्सेधं तथैकांशं पौष्टिकं सदनान्वितम् ॥२०॥सदनोच्चदशांशे तु अधिष्ठानोदयं शिवम् ।सार्धद्व्यंशं तु पादोच्चं प्रस्तरं तु शिवांशकम् ॥२१॥सार्धांशगलमानं तु गुणांशं शिखरोदयम् ।एकांशंस्तूपिमानं तु जयदं तदुदाहृतम् ॥२२॥रुद्रांशे हर्म्य तुंगं तु सपादांशं धरातलम् ।सार्धद्व्यंशं तु पादोच्चं प्रस्तरं तु शिवांशकम् ॥२३॥अध्यर्धांशं तु कण्ठोच्चं सार्धत्र्यंशं तु शीर्षकम् ।शेषं स्तूप्युदयं ख्यातं त्वद्भुतं सदनं भवेत् ॥२४॥तुंगे सप्तांशभागे तु त्रिपादांशं धरातलम् ।पक्षांशं पादतुंगं तु त्रिपादांशं तु प्रस्तरम् ॥२५॥त्रिपादांशं गलं मानं शिखरोच्चं द्विभागकम् ।स्तूप्युत्सेधं तथैकांशं एतत्स्यात्सार्वकामिकम् ॥२६॥शान्तिकाद्युदयोपेतं हर्म्यगण्यं क्रमोदितम् ।विपरीते नृपादीनां विपत्तिं नित्यमावहेत् ॥२७॥तस्माच्छान्त्यादिगण्यं च दुदयं चैव कारयेत् ।रुद्रांशे सदनोत्सेधे तलमेकांशमानतः ॥२८॥द्व्यंशं तु चरणायामं प्रस्तरं तु शिवांशकम् ।उपग्रीवस्तु सार्धांशं त्रिपादं प्रस्तरोदयम् ॥२९॥सपादांशं गलोत्सेधं सार्धद्व्यंशं तु शीर्षकम् ।एकांशं स्तूपिमानं तु एवं चैवाद्भुतं स्मृतम् ॥३०॥अथवाष्टौ द्विरष्टौ वा नवसप्ताष्टकं तु वा ।पक्षमाधारपादं च मंचोपग्रीवमंचकम् ॥३१॥गलमूर्ध्नि शिखामानं समोवेष्टं नृपांशके ।सोपग्रीवसमंचौ ता एकभूरेव विद्येते ॥३२॥अथवाष्टौ द्विरष्टौ च सप्ताष्टशरधातुकम् ।कृत्वाचाधारपादं च मंचोपग्रीवमंचकम् ॥३३॥गलमूर्ध्नि शिखामानं समौ चाष्टनवांशके ।ऊर्ध्वमंचोपरिष्टात्तु चतुष्कोणेषु सुव्रत ! ॥३४॥कर्णकूटसमायुक्तं हीनं वा तद्विशेषतः ।अधिष्ठानादि सर्वांगं प्रागिवैव प्रकल्पयेत् ॥३५॥वृत्तग्रीवसमायुक्तं तथैव शिखरं घटम् ।शिखरे तु महानासी चत्वारस्तु महादिशि ॥३६॥दिशिभद्रयुतं वास्ते मंचाल्पानासिका कलाः ।प्रस्तरे चाल्पनासीं वा विजयं तदुदाहृतम् ॥३७॥तदेव कर्णकूटाढ्यं वर्गपंचांशवानतम् ।नागराद्युचितं कर्णकूटाकारं प्रकल्पयेत् ॥३८॥कर्णकूटस्य मध्यं भद्रं तत्तद्भद्रनासिका ।अन्तरालं च तत्तुल्यं क्षुद्रपंजरसंयुतम् ॥३९॥सुभद्रं वा कर्णकूटं पंजरं त्वल्पनासिका ।मध्यनासी विशालं वा मध्य भद्रविशालकम् ॥४०॥त्रिचतुष्पंचषट्सप्तभागं वा सदनस्ततम् ।कूटमेकद्विभागं वा मध्यभद्रविशालकम् ॥४१॥दण्डं वाध्यर्ध दण्डं वा सर्वदेवार्हकं परम् ।तदेव सदने बाह्ये मध्यभद्रयुतं तु वा ॥४२॥तदन्तो जालकैश्चाढ्यं श्रीशैलं तदुदाहृतम् ।तदेव वेदिकाकण्ठं शिखरं च घटं तथा ॥४३॥वस्वश्र पट्टसंयुक्तं चतुर्दिग्भद्रनासिका ।अभद्रनासी चत्वार शिखरे तु विदिक् स्थिताः ॥४४॥पादं प्रत्याल्पनास्याढ्यं स्वस्तिबन्धं तदुच्यते ।तदेवमध्यभद्रं च कर्णकूटविहीनकम् ॥४५॥सुशोभनावहं ख्यातं सर्वदेव प्रियावहम् ।शिखरे तु महानासी प्रस्तरेऽष्टौ द्विरष्ट वा ॥४६॥युगाश्रं शिखरं कंठं वेदिका चैव श्रीकरम् ।तदेव शिखरे चाष्टावल्पनासी समन्वितम् ॥४७॥चतुर्महानासिकोपेतं श्रीकण्ठं तदुदाहृतम् ।तानि वैद्वयश्र वृत्ताभं हस्ति पृष्ठमुदाहृतम् ॥४८॥वेदिकाकण्ठमूर्धा च षडश्रं परिकल्पयेत् ।पट्टं प्रतिमहानास्यं कल्पयेत्स्कन्दकान्तकम् ॥४९॥मध्यभद्रसमायुक्तं कर्णकूटसमन्वितम् ।महानास्यपरे कोष्ठसंयुक्तं शीर्षकं भवेत् ॥५०॥नासिका विस्तृतं दण्डं द्वयं वाथ त्रिदण्डकम् ।कोष्ठदीर्घसमाख्यातं उत्सेधं नासिकासमम् ॥५१॥विदिक्षु भद्रनास्याढ्यं शिखरं परिकल्पयेत् ।वृत्तमस्तककर्णास्यं वस्वश्रं वा गलं शिरः ॥५२॥वृत्तकेसरमाख्यातं वस्वश्रं राजकेसरम् ।प्रासादस्य तु विस्तारं पंचसप्ताष्ट वा भजेत् ॥५३॥द्विभागं वा त्रिभागं वा प्राग्वद्वा मध्यभद्रकम् ।दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् ॥५४॥मध्यभद्रस्य निष्क्रान्तं भद्रावेष्टितहर्म्यकम् ।चतुर्महानासिकोपेतं शिखरायतवृत्तकम् ॥५५॥पादं प्रत्याल्पनास्याढ्यं कण्ठं वै शीर्षकाकृतिः ।कल्याणसुन्दरं ख्यातं सर्वदेवार्हकं भवेत् ॥५६॥तदेवभद्रनास्याढ्यं पूर्वे परे द्विजोत्तम ! ।ललाटनासिकोपेतं पार्श्वयोर्द्विजसत्तम ! ॥५७॥समं वा सायतं वाथ कल्पितं कौसलं भवेत् ।तलं प्रतिविमानानां दिङ्मूर्तिमथ वक्ष्यते ॥५८॥स्कन्दं वै पूर्वदिग्भागे दक्षिणामूर्तिं दक्षिणे ।पश्चिमे विष्णुमूर्तिं वा लिंगोद्भवमथापि वा ॥५९॥धातारमुत्तरे विप्र द्वारस्थाने तु वर्जयेत् ।मण्टपे दक्षिणे भद्रे स्थापयेत्तु विनायकम् ॥६०॥पूर्वे च पश्चिमे तस्य नृत्तमूर्तिं प्रकल्पयेत् ।दुर्गामुत्तरदिग्भागे क्षेत्रपालं तथैव च ॥६१॥स्थानकं वासनं वाथ दिशां मूर्तिं प्रकल्पयेत् ।एवं धरातलोर्ध्वे तु कर्तव्यं द्विजसत्तम ! ॥६२॥स्कन्दं वा पूर्वदिग्भागे शक्रो वा हस्ति रोहितौ ।हस्ती विनाब्जकानासी नासिका रग्निविस्तरम् ॥६३॥दक्षिणे दक्षिणा मूर्तिं वीरभद्रमथापि वा ।पश्चिमे नारसिंहं तु सौम्य मूर्तिमथापि वा ॥६४॥उत्तरे तु विधातारं धनदेवं द्विजोत्तम ! ।प्रस्तरोपरिकर्तव्यं एकद्वित्रितले तथा ॥६५॥चतुर्भूम्यादि महाशासु महेशास्तु यथेष्टकम् ।उमास्कन्दादि सहिता महेशाः परिकीर्तिताः ॥६५॥अन्यामराश्च गन्धर्वान्सिद्धाद्यैवमरुद्गणाः ।कलान्तं युगभूम्यादि ग्रीवे च प्रस्तरान्तके ॥६७॥एष्वष्टमूर्तिमष्टासु कल्पयेत्कल्पवित्तमः ।गलाधस्तात्तु मंचोर्ध्वे कोणेषु वृषभं कुरु ॥६८॥कोणं प्रति द्वयं वैकं वृषभं शयनं कुरु ।भूतं वाथ चतुष्कोणे हृदयांजलि संयुतम् ॥६९॥कल्पयेत्पद्मपीठोर्ध्वे त्वासीनं तु वृहत्तनु ।आमोदमग्नि कोणे तु प्रमोदं नैर्-ऋते भवेत् ॥७०॥प्रमुखं वायु कोणे तु दुर्मुखं त्वीश कोणके ।श्वेतं रक्तं तथा पीतं कृष्णमग्न्यादिषु क्रमात् ॥७१॥ममैव ताद्येषां तासां वैवाहनं कुरु ।करालमुद्गीकुल्माषकल्कचिक्कण लेपनम् ॥७२॥नानालंकारसंयुक्तं नानालीलासमन्वितम् ।नानाक्रीडासमायुक्तं सुधया दारुभिस्तथा ॥७३॥उचितं कल्पयेद्धीमान् चरुदार्वेष्टका भवेत् ।एवमेकतलं ख्यातं द्वितलं तु ततो विदु ॥७४॥इत्यंशुमान्काश्यपे एकतलविधिपटलः (षड्विंशः) ॥२६॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP