संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २०९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २०९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २०९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एकस्य जीवितं पुंसः सुहृदा मरणं द्विषा ।मृत्वार्थितं प्रयागादौ क्षेत्रे यत्तदिदं श्रृणु ॥१॥क्षेत्राणामर्थधर्माणां सर्वेषां प्रति तं फलम् ।ब्रह्मणा कल्पितं सर्गे स्वके संकल्पपत्तने ॥२॥यत्र पुण्यं यदर्थं च क्षेत्रं ताभ्यां तथा कृतम् ।यदि तद्विनियोज्यस्य तस्योन्नमति निष्कृतात् ॥३॥तत्तस्मान्महतः पापाद्भागमेनोखिलं च वा ।चितिशक्त्यात्म तत्पुण्यं परिभ्राम्योपशाम्यति ॥४॥विनेयपापमल्पं चेत्क्षेत्रधर्मोऽधिकस्ततः ।तत्पापं नाशयित्वा तच्छब्द एव विवल्गति ॥५॥क्षेत्रधर्मेण तेनास्य विनेयस्य महीपते ।द्वे शरीरे विदौ सम्यक्कचतः प्रतिभात्मिके ॥६॥इत्येवमादिपापानां पुण्यानां च फलं महत् ।ब्रह्मसंकल्पकचितं यथा यद्यत्तथैव तत् ॥७॥ब्रह्मोच्यतेऽसौ चिद्धातुः सोऽब्जजाद्यहमादि च ।स यथास्ते तथा तत्तत्तस्य संकल्पनं जगत् ॥८॥प्रतिभैव विनेयस्य क्षेत्रपुण्येन तादृशी ।तथैवोदेति सा धातुर्विपरीतवतो यथा ॥९॥एकात्मनाहमद्यैष मृतोऽमी मम बन्धवः ।रुदन्तीमे परं लोकं प्राप्तोऽयमहमेककः ॥१०॥बन्धूनामपि तत्रैव तदैवास्य तथैव च ।प्रतिभा तादृशैवेति धातुक्षोभवतामिव ॥११॥अत्युग्रैः पुण्यपापैः स्वैर्वा महात्मभिरीक्षिते ।लक्ष्याण्यप्यन्यथा सन्ति नृणां चित्कल्पनावशात् ॥१२॥अचेतनं शवीभूतं तेऽपि पश्यन्ति तं मृतम् ।रुदन्ति तं च दहने क्षिपन्ति सह बान्धवैः ॥१३॥विनेयः स यथान्येन संविद्रूपेण देहिना-।ऽजरामरणमात्मानं वेत्ति स्थितमदुःखितम् ॥१४॥यथास्थितेन देहेन वेत्त्यसौ जीवितस्थितम् ।मृतिं त्वदृश्येनान्येन क्षेत्रपुण्यविदेरितः ॥१५॥आविला संविदा संविच्छून्यया वेद्यते क्षणात् ।न हि सन्नद्धगात्रस्य क्लेशोऽसन्नद्धमेदने ॥१६॥पश्यन्ति बन्धवोऽप्येनं तथैवामरतां गतम् ।द्वयमित्येष लभते जीवितं मरणं समम् ॥१७॥इदमप्रतिघारम्भं भ्रान्तिमात्रं जगत्त्रयम् ।न संभवति को नाम भ्रान्तौ भ्रान्तिविपर्ययः ॥१८॥संकल्पस्वप्नपुरयोर्या भ्रान्तिरनुभूयते ।ततोऽधिकोऽयं न न्यूनाज्जाग्रत्स्वप्नेऽनुभूयते ॥१९॥राजोवाच ।धर्माधर्मौ कथं ब्रह्मन्कारणं देहसंविदः ।तस्यामूर्तौ कथं चैको द्विशरीरत्वमृच्छति ॥२०॥श्रीवसिष्ठ उवाच ।संकल्पनगरे ब्राह्मे जगत्यस्मिन्महामते ।किं नाम नो संभवति सत्यं वाप्यसमञ्जसम् ॥२१॥यथैव संकल्पपुरे यन्न संभवतीह हि ।तन्नास्त्येव तदेतस्मिन्किं वाऽस्तु ब्रह्मकल्पने ॥२२॥स्वप्नसंकल्पपुरयोरेको गच्छति लक्षताम् ।तथा चैकैव चित्स्वप्ने सेनात्वमुपगच्छति ॥२३॥सहस्राण्येकतां यान्ति तथा सैव सुषुप्तकम् ।अन्यथा स्वप्नसंकल्पसेनानुभवसंस्मृतौ ॥२४॥संकल्पस्वप्नपुरयोरिति को नानुभूतवान् ।संविदाकाशमात्रेऽस्मिञ्जगत्यनुभवात्मनि ॥२५॥तस्मादस्मिंश्चिदाकाशसंकल्पे जगदात्मनि ।न संभवति किं नाम तत्संभवति वापि किम् ॥२६॥एवमेवमियं भ्रान्तिर्भाति भास्वन्नभोमयम् ।नेह किंचन सन्नासन्न वाऽऽसदिह किंचन ॥२७॥यथानुभूयते यद्यत्तत्तथा तत्त्वदर्शिनः ।प्रबुद्धस्यात्र किं नाम तत्स एवाङ्गतेत्यलम् ॥२८॥इह चेद्विहितो धर्मस्तत्स्वर्गेऽमृतपर्वताः ।स्थिता इतीह संकल्पे कस्मान्न प्राप्तवान्गिरीन् ॥२९॥इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।इतीह संकल्पपुरे सर्वमेवासमञ्जसम् ॥३०॥यदि स्यात्सुस्थिरं किंचिद्वस्तु तद्दृश्यको भवेत् ।न्याय एषोऽखिलः किंतु संवित्त्वात्स्वस्वकं स्थितः ॥३१॥इत्येष कथितो न्यायः सिद्धास्वनुभवस्ततः ।यतो जगन्ति संकल्पश्चितो ब्रह्मस्वरूपतः ॥३२॥इव संकल्पनगरे नास्त्येवासंभवो यथा ।सर्वार्थानां तथा ब्राह्मे संकल्पे नास्त्यसंभवः ॥३३॥यद्यथा कल्पितं तत्र यावत्संकल्पमेव तत् ।स्वभावेन तथैवास्ति यतस्तत्संनिवेशवत् ॥३४॥ततः संप्रेक्षणमिह संकरो न प्रवर्तते ।विनान्यच्चित्प्रयत्नेन भवत्यर्थस्तु नान्यथा ॥३५॥आकल्पमजसंकल्पे यथा भातं जगत्स्थितम् ।पुनरन्येन संकल्परूपेणान्यदुपैष्यति ॥३६॥संकल्पात्म स्वयं भाति कल्पे कल्पे जगत्तथा ।प्रतिजीवं चितिस्वप्ने स्वप्ने स्वाप्नपुरं यथा ॥३७॥संकल्पपत्तनतनोर्न तदस्ति किंचि-द्यद्यन्न संभवति तच्च चिदात्मनोऽस्मात् ।नान्यत्प्रकम्पयितुराद्यपरस्वरूपा-द्ब्रह्मैव तेन सकलं जगदङ्ग विद्धि ॥३८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० महा० सर्वास्तित्वानुभूतिदर्शनं नाम नवाधिकद्विशततमः सर्गः ॥२०९॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP