संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ११३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ११३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ११३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।बलान्यनुतरन्तोऽथ तदित्थं द्रवतां द्विषाम् ।दूराद्दूरतरं प्राप्ताश्चत्वारस्ते विपश्चितः ॥१॥सर्वशक्तिमयैकेन चेतनेनेश्वरेण ते ।प्रहिता दिग्जयं चक्रुः सर्व एव समाशयाः ॥२॥दूरात्तावदविच्छिन्नमनुसस्रुर्बलानि ते ।यावत्तीरं समुद्राणां प्रवाहाः सरितामिव ॥३॥दूराविश्रान्तयानेन तेषां तत्सर्वसाधनम् ।आत्मीयं परकीयं च क्षीणं कुसरिदम्बुवत् ॥४॥आत्मीयान्यन्यदीयानि तेषां वीक्ष्यबलान्यलम् ।क्षीणानीव मुमुक्षूणां पुण्यपापानि धावताम् ॥५॥स्वयमस्त्राणि शान्तानि कृतकृत्यान्यथाम्बरे ।ज्वालाजालानि वह्नीनां दाह्यस्यासंभवादिव ॥६॥आलयेषु रथाश्वेभवृक्षौघादिषु हेतयः ।आसन्निद्रालवो लीना दिनान्ते विहगा इव ॥७॥तरङ्गा इव तोयेऽन्तर्नीहारा इव वारिदे ।मेघा वायाविवामोदा व्योमनीव निलिल्यिरे ॥८॥धारापङ्कतलालीनशान्तहेतिजलेचरः ।नाराचसीकरासारनीहारपरिवर्जितः ॥९॥चक्रावर्तशतोन्मुक्तो युक्तः सौम्यतयाच्छया ।प्रशान्तमेघसंरम्भतरङ्गोत्तुङ्गवर्षणः ॥१०॥अन्तर्लीनर्क्षरत्नौघकोणसंस्थार्कवाडवः ।शून्यतावारिरमलो व्योमैकाब्धिरभूत्पृथुः ॥११॥लम्बप्रकाशगम्भीरं प्रसन्नं कान्तिमत्ततम् ।रजोविरहितं रेजे खं मनो महतामिव ॥१२॥अथार्णवांस्ते ददृशुराकाशस्यानुजानिव ।विस्तीर्णान्विमलाकारान्पूरिताखिलदिक्तटान् ॥१३॥तरङ्गकणकल्लोलमहागुलुगुलाकुलान् ।भूरिसीकरनीहारहारिहारिशरीरिणः ॥१४॥स्थितानात्मानमास्तीर्य भूमौ व्याध्यातुरानिव ।श्वसनार्तांश्चलद्देहान्विवर्तोर्मिमहाभुजान् ॥१५॥जडानपि स्पन्दमयान्कल्लोलाकोटकोटरान् ।संसारानिव विस्तीर्णांश्चक्रावर्तदशाकुलान् ॥१६॥रत्नराशितटोद्दद्योतपीवरीकृतभास्करान् ।शङ्खराशिविशद्वातशब्दतर्जितघुंघुमान् ॥१७॥मांसलोर्मिघटाघोषघर्घराम्बरडम्बरान् ।वर्तुलावर्तविस्तारप्रभ्रमद्विद्रुमद्रुमान् ॥१८॥मकरव्यूहनिर्ह्रादघर्घरोदरघुंघुमान् ।मत्स्यपुच्छच्छटाच्छिन्नमज्जत्पोतकृतारवान् ॥१९॥उद्ग्रीवकूर्ममकरनिगीर्णौर्णनरोत्करान् ।ऊर्मिबिम्बितसप्ताश्वसहस्रार्कनभोनिभान् ॥२०॥भांकारकारिपवनपतद्भूत्यततोद्धटान् ।ऊर्म्युदस्तमणिव्रातबलाज्झणझणध्वनीन् ॥२१॥नानाजालैर्बलभुजैर्हेलास्पृष्टार्कमण्डलान् ।नमदुन्नमदुद्रश्मिरत्नमाणिक्यमण्डलान् ॥२२॥उत्फालफेनिलावर्तविवर्तमकरोत्करान् ।क्वचित्करिकरोन्नामैः क्षणं वंशवनीकृतान् ॥२३॥लहरीवल्लरीवालान्पृष्ठतालिषु माधवान् ।क्वचिदन्तरविश्रान्तसपरिच्छदमाधवान् ॥२४॥एकदेशस्थितासंख्यनानासुरसुरालयान् ।तारानवतरङ्गौघपरिदन्तुरिताम्बरान् ॥२५॥गुहामशकवद्गर्तभीतशाखायिताचलान् ।नयतोम्बुतरङ्गौघैर्वेलाद्रीनतिखर्वताम् ॥२६॥खक्षेत्रारोपितानल्परत्नरश्मिपथाङ्कुरान् ।शुद्धशुक्तिमुखोन्मुक्तमुक्तान्तरितसैकतान् ॥२७॥नानारत्नांशुकौशेयसूत्रचित्रांस्तरङ्गितान् ।विशन्नदीन्दशादिग्भिः समाकीर्णान्पटानिव ॥२८॥इन्द्रनीलतटैर्व्युप्तमुक्ताशुक्तिशताङ्कितैः ।क्वचिद्दर्शयतः कान्तशतेन्दुकनखश्रियम् ॥२९॥रत्नांशुजालसंदिग्धास्तरङ्गादेशबिम्बिताः ।परिवर्तयतः फुल्लास्तीरतालीवनावलीः ॥३०॥एलालवङ्गकङ्कोलफलमालां जिघृक्षुभिः ।वेलावनलताभ्रष्टामात्तावृत्तीञ्जलेचरैः ॥३१॥चूतनीपकदम्बाग्रविहगान्प्रतिबिम्बितान् ।भुञ्जानैर्विप्रलम्भेन कृताच्छोटाञ्जलेचरैः ॥३२॥खेचरप्रतिबिम्बेन विद्रवद्भिरितस्ततः ।भग्नबन्धबृहत्सेतून्क्षणं प्रति जलेचरैः ॥३३॥अमूर्तान्प्रतिबिम्बेन हृदयस्थजगत्र्त्रयान् ।चतुरो व्योमविपुलान्दिक्षु नारायणानिव ॥३४॥अतिगाम्भीर्यनैर्मल्यविस्तारविभवैर्नभः ।निगीर्य संदर्शयतो हृदयादिव बिम्बितम् ॥३५॥जलचारिविहङ्गानां साकाशं प्रतिबिम्बितम् ।आशयैर्दधतः सारैः पद्मान्भृङ्गमिवात्मगम् ॥३६॥तरङ्गतरलास्फालमारुतैराहताम्बरान् ।कन्दरोद्गारगम्भीरैः कल्पान्तजलदालयान् ॥३७॥गुहागुलुगुलावर्तनिर्घोषाशनिभाषणान् ।भृशं भावयतो ग्रस्तानगस्त्यौर्वानलानिव ॥३८॥भूरिसीकरपुष्पाणि तरङ्गौघतरूणि च ।प्राप्तान्यम्बुवनानीव लहरीमञ्जरीणि खम् ॥३९॥सरत्तरङ्गजालानि प्रोड्डीनप्राणिमन्त्यधः ।आकाशखण्डखण्डत्वात्पतितानीव विभ्रमात् ॥४०॥एलालवंगबकुलामलकीतमाल-हिंतालतालदलताण्डवखण्डिताग्रे ।प्राप्ते पतल्लवणवारिधिदीर्घतीरंरेखा बभावलिनिभाम्बरशैलमूर्ध्नि ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० अवि० विप० समुद्रवर्णनं नाम त्रयोदशाधिकशततमः सर्गः ॥११३॥ N/A References : N/A Last Updated : October 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP