संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः ९०

निर्वाणप्रकरणं - सर्गः ९०

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
अनन्तरं वद ब्रह्मञ्जगन्ति भवता तदा ।
भूमण्डलानां हृदये क्वचिद्दृष्टानि नैव वा ॥१॥
श्रीवसिष्ठ उवाच ।
परात्मजाग्रत्स्वप्नोर्वीमण्डलौघात्मना मया ।
ततोऽनुभूतं हृदये दृष्टं च परया दृशा ॥२॥
यावत्तथैव सर्वत्र जगज्जालमवास्थितम् ।
सर्वं दृश्यमयं शान्तमपि द्बैतमयात्मकम् ॥३॥
जगन्ति सन्ति सर्वत्र सर्वत्र ब्रह्म संस्थितम् ।
सर्वं शून्यं परं शान्तं सर्वमारम्भमन्थरम् ॥४॥
सर्वत्रैवास्ति पृथ्व्यादि स्थूलं तच्च न किंचन ।
चिद्व्योमैव यथा स्वप्नपुरं परमजातवत् ॥५॥
नेह नानास्ति नो नाना न नास्तित्वं न चास्तिता ।
अहमित्येव नैवास्ति यत्र तत्र कुतोऽस्ति किम् ॥६॥
अनुभूतमपीदं सदहमित्यादिरूपकम् ।
नास्त्येव यदि वाप्यस्ति तद्ब्रह्माजमनामयम् ॥७॥
यत्स्वप्नपुरमेवेदं सर्गादावेव चिन्नभः ।
अस्तितानास्तिते तत्र कीदृशे क्व कुतः स्थिते ॥८॥
यथाहं दृष्टवांस्तानि जगन्त्यवनिरूपधृक् ।
तथा मया जलीभूय दृष्टं तादृशमेव तत् ॥९॥
वारिधारणया वारि भूत्वा जडमिवाजडम् ।
समुद्रमन्दिरेष्वन्तश्चिरं गुलगुलायितम् ॥१०॥
तृणवृक्षलतागुल्मवल्लीनां स्तम्भनाडिषु ।
मृद्वलक्षितमारूढं तवाङ्गेष्विव यूकया ॥११॥
सर्वोत्थानोपमास्तम्भे तच्छेदे वलयोपमा ।
मृद्व्या कर्णाहिगत्येव रचना प्रकृतोदरे ॥१२॥
वल्लीतमालतालादिपल्लवेषु फलेषु च ।
विश्रम्य पुष्टयाऽऽकृत्या रेखाविरचनं कृतम् ॥१३॥
मुखेनाविश्य हृदयमृतुवैधुर्यधारिणा ।
हृता विधुरिता भुक्ता लूना देहेषु धातवः ॥१४॥
सुप्तं पल्लवतल्पेषु प्रालेयकणरूपिणा ।
तुल्यकालमशेषेषु दिक्षु सर्वास्वखेदिना ॥१५॥
नानाह्रदनदीगेहग्राहिणाऽविरताध्वना ।
विश्रान्तं सेतुसुहृदः प्रसादेन क्वचित्क्वचित् ॥१६॥
विदाऽविदनुसंधानाज्जडेन तदनाश्रयात् ।
जडाशयेषूल्लसितं जलेनावर्तवर्तिना ॥१७॥
मया दुष्कृतिनेवोर्ध्वशिलास्वस्थेन भूभृताम् ।
स्वावर्तवर्तिना श्वभ्रपातेषु शतधा गतम् ॥१८॥
धूमरूपेण निर्गत्य दारुभ्यो गगनार्णवे ।
कणरत्नेन नीलर्क्षमण्यन्तर्वर्तिना स्थितम् ॥१९॥
विश्रान्तमभ्रपीठेषु विद्युद्वनितया सह ।
भिन्नेन्द्रनीलनीलेन शेषाङ्गेष्विव शौरिणा ॥२०॥
परमाणुमये सर्गे पिण्डरूपेष्वलक्षितम् ।
स्थितमन्तःपदार्थेषु ब्रह्मणैवाखिलात्मना ॥२१॥
प्राप्य जिह्वाणुभिः सङ्गमनुभूतिः कृतोत्तमा ।
यामात्मनो न देहस्य मन्ये ज्ञानस्य केवलम् ॥२२॥
न मया न च देहेन नान्येनास्वादितात्म यत् ।
तदन्तर्विवृतं चेत्यमज्ञानाय तदप्यसत् ॥२३॥
सर्वर्तुरसरूपेण नानामोदानि दिक्ष्वलम् ।
भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददतालये ॥२४॥
चतुर्दशप्रकाराणां भूतानामङ्गसन्धिषु ।
उषितं चेतनेनेव जडेनाप्यजडात्मना ॥२५॥
सीकरोत्कररूपेण रथमारुह्य मारुतम् ।
आमोदेनेव विहितं विमलव्योमवीथिषु ॥२६॥
राम तस्यामवस्थायां परमाणुकणं प्रति ।
अनुभूतमशेषेण यथास्थितमिदं जगत् ॥२७॥
अजडेन जडेनेव समया जालया तया ।
अन्तःसर्वपदार्थानां ज्ञाताज्ञातेन संस्थितम् ॥२८॥
जगतां तत्र लक्षाणि नाशोत्पातशतानि च ।
मया दृष्टानि रूढानि कदलीदलपीठवत् ॥२९॥
एवं जगच्चाजगद्वा साकारं वा निराकृति ।
चिन्मात्रगगनं सर्वमाकाशाधिकनिर्मलम् ॥३०॥
न किंचनत्वं च न किंचनेदं
शुद्धः परो बोध इदं विभाति ।
स चापि नो किंचन नापि शून्य-
माकाशमेवासि विकासमास्व ॥३१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पाषा० जलजगद्वर्णनं नाम नवतितमः सर्गः ॥९०॥  

N/A

References : N/A
Last Updated : September 30, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP