संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १०५

निर्वाणप्रकरणं - सर्गः १०५

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
स्वभावं जगदाकारं चिद्भावोऽनुभवन्स्थितः ।
स्वतः स्वप्नमिवानन्यमात्मनः कल्पनाभिधम् ॥१॥
जाग्रत्सुषुप्तमेवेदं शिलाजठरमेव वा ।
आकाशमेव वा शून्यं जगत्त्वेन च नोज्झितम् ॥२॥
स्वप्न एवात्र दृष्टान्तः पुरमण्डलमण्डितः ।
स्वप्ने जगन्न किंचित्सदित्थमाभाति भासुरम् ॥३॥
त्रैलोक्यमसदेवेदं यथा स्वप्नेऽवभासते ।
जाग्रत्यस्मिंस्तथैवेदं मनागप्यत्र नान्यथा ॥४॥
न जाग्रति न च स्वप्ने जगच्छब्दार्थसंभवः ।
स्वं वस्तुतस्तु चिद्व्योम्नो भानं बुद्धं जगत्तया ॥५॥
चिद्व्योम्ना स्वचमत्कारो व्योमन्यश्चादिरूपभृत् ।
जगदित्येव बुद्धोऽन्तर्जाग्रत्स्वप्ने स्वयंभुवा ॥६॥
जगन्न किंचिदेवेदं चिद्रूपं च न किंचन ।
एते किंचिदिवाभातो नभश्चिज्जगती मुधा ॥७॥
आभातमेव त्रैलोक्यं यथा स्वप्ने न किंचन ।
शून्यमेव भवेदेवमेवं जाग्रति निर्वपुः ॥८॥
स्वप्ने किल महाबुद्धे नानानिर्माणशालिनि ।
आरम्भा एव नारम्भा असत्सदिव चाततम् ॥९॥
अव्योमैवातिविततं व्योमान्तपरिवर्जितम् ।
व्योमैवाचलसंघातो नानापुरगणोत्करः ॥१०॥
अप्यब्दाब्ध्यद्रिनिर्घोषो मौनमेव यथा तथा ।
न श्रृणोत्येव पार्श्वस्थः संप्रबुध्यापि किंचन ॥११॥
प्रजायते वाऽजातोऽपि वन्ध्यायास्तनयो यथा ।
जातोऽप्यजात एवास्ते यथात्ममृतिविस्मृतौ ॥१२॥
सदसद्भवति क्षिप्रं भुवोऽननुभवो यथा ।
विपर्यस्यति सर्वं च रात्रिरेव यथा दिनम् ॥१३॥
असद्यत्संभवत्याशु दिनमेव यथा निशा ।
असंभवः संभवति यथा स्वमृतिदर्शनम् ॥१४॥
असंभवः संभवति जगद्भानमिवाम्बरे ।
तम एव महालोको यः सनिद्रः सवासरः ॥१५॥
आलोक एवैति तमो यन्निद्रा स्वप्नवासरा ।
वसुधैव भवेद्व्योम श्वभ्रादिपतने यथा ॥१६॥
असत्यरूपमेवेति भाति स्वप्ने जगद्यथा ।
तथैव जाग्रदाभाति मनागप्यत्र नान्यता ॥१७॥
यथा द्वौ सदृशौ सूर्यौ यथा द्वौ सदृशौ नरौ ।
जाग्रत्स्वप्नौ तथैवैतौ मनागप्यत्र नान्यता ॥१८॥
श्रीराम उवाच ।
नैतदेवमपि क्षिप्रात्प्रत्ययो यत्र बाधकः ।
स्वप्ने तद्दर्शनेनान्तः कथं जाग्रन्समं भवेत् ॥१९॥
श्रीवसिष्ठ उवाच ।
विहृत्य स्वप्नजगति स्वप्नबन्धुजनैः समम् ।
मृतिमाप्नोति तत्रासौ द्रष्टा स्वप्नस्य राघव ॥२०॥
मृतः सन्स्वप्नजगति स्वप्नजन्तुवियोगवान् ।
इह प्रबुध्यते जन्तुर्निद्रामुक्तश्च कथ्यते ॥२१॥
सुखदुःखदशामोहान्दिनरात्रिविपर्ययान् ।
अनुभूय बहून्द्रष्टा म्रियते स्वप्नसंसृतौ ॥२२॥
गतनिद्रतया पश्चान्निद्रान्त इह जायते ।
न सत्यमेतदित्येवं ततः प्रत्ययवान्भवेत् ॥२३॥
स्वप्नद्रष्टा यथा स्वप्नसंसारे मृतिमाप्तवान् ।
अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः प्रजायते ॥२४॥
जाग्रद्द्रष्टा तथा जाग्रत्संसारे मृतिमाप्तवान् ।
अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः स जायते ॥२५॥
न स्वप्नमसदित्येवं पूर्वस्मिञ्जाग्रदात्मनि ।
पुनः प्रत्ययमादत्ते स्वप्नात्स्वप्नान्तरं गतः ॥२६॥
स जाग्रत्प्रत्ययं तत्र पुनर्गृह्णाति मुग्धधीः ।
स्वप्नसंदर्शनं त्वन्यत्तत्राप्यनुभवत्यथ ॥२७॥
स्वप्नं जाग्रत्तया जाग्रत्स्वप्नत्वं चेति नामनि ।
न जायते न म्रियते जायते म्रियतेऽपि च ॥२८॥
स्वप्नद्रष्टा स्वप्नमृतः प्रबुद्ध इह कथ्यते ।
इह जाग्रन्मृतो जन्तुः प्रबुद्धोऽन्यत्र कथ्यते ॥२९॥
स्वप्नात्स्वप्नस्थितौ जाग्रज्जाग्रत्स्वप्नप्रदर्शनम् ।
मृत्वान्यत्र प्रबुद्धस्य जाग्रत्स्वप्नो भवत्यलम् ॥३०॥
इतिहासमयावेव जाग्रत्स्वप्नावुभावपि ।
परस्परं गतावेतावुपमानोपमेयताम् ॥३१॥
स्वप्नो जाग्रदिवाभाति जाग्रत्स्वप्नमिवोदितम् ।
वस्तुतस्तु द्वयमसच्चित्खं कचति केवलम् ॥३२॥
स्थावरं जंगमं चैव भूतजातमशेषतः ।
चिन्मात्रव्यतिरेकेण किमन्यदुपपद्यते ॥३३॥
मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते ।
चिच्चमत्कारमात्रात्म तथा काष्ठोपलाद्यपि ॥३४॥
वस्तुजातमिदं स्वप्ने जाग्रत्यपि तथैव नः ।
दृष्टो य उपलः स्वप्ने चिच्चमत्करणादृते ॥३५॥
किमन्यत्संवद प्राज्ञ किलावश्यं चिदेव सा ।
ननु यादृग्वपुः स्वप्ने जाग्रत्तादृगखण्डितम् ॥३६॥
जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मखण्डितम् ।
जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मकुट्टिमम् ॥३७॥
मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥३८॥
शैलात्मकं यथा भाण्डं शैलशून्यं न लभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥३९॥
द्रवरूपं यथा वारि द्रवरिक्तं न लभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥४०॥
ऊष्मरूपो यथा वह्निर्निरूष्मा नोपलभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥४१॥
यथा स्पन्दमयो वायुरस्पन्दो नोपलभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥४२॥
यद्यन्मयं तद्विना तु तत्कथं किल लभ्यते ।
क्वाशून्यं लभ्यते व्योम क्वाघना लभ्यते मही ॥४३॥
चिद्व्योममयमेवेदं यथा घटपटादिकम् ।
स्वप्ने तथेदं शैलादि चिद्व्योमाभासमात्रकम् ॥४४॥
स्वप्ने यथा गगनमेव पुराचलादि
संविन्मयं सुभग जाग्रति तद्वदेव ।
स्वप्नोऽथ जाग्रदिति शान्तमनन्तमेकं
चिन्मात्रमत्र ननु नाम विनास्तु वादः ॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० जाग्रत्स्वप्नैक्यप्रतिपादनं नाम पञ्चोत्तरशततमः सर्गः ॥१०५॥

N/A

References : N/A
Last Updated : October 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP