संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ४९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ४९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।परिपुष्टविवेकानां वासनामलमुज्झताम् ।महत्ता महतामन्तः काप्यपूर्वैव जायते ॥१॥औदार्योदारमर्यादां मतिं गाम्भीर्यसुन्दरीम् ।महतां नावगाहन्ते भुवनानि चतुर्दश ॥२॥चित्तभ्रान्तिर्जगदिति प्ररूढे प्रत्यये सताम् ।बाह्यश्चान्तश्चरन्नक्रग्रहो मोहश्च शाम्यति ॥३॥द्वीन्दुवत्तापजलवत्केशोण्ड्रकवदम्बरे ।विस्फुरन्त्यां जगद्भ्रान्तौ वासनाप्रत्ययः कुतः ॥४॥वासनाप्रत्यये शून्ये शून्यं व्योमैव शिष्यते ।साप्यवस्था मनोऽसत्त्वे कुतस्त्याज्या विवेकिना ॥५॥त्रयमेतत्तु यावस्थात्रयेणानेन वर्जिता ।पश्यन्तीवाप्यपश्यन्ती सावस्था परमोच्यते ॥६॥विचित्ररत्नरश्म्योघ इव नानात्मकं जगत् ।आभासमात्रं न त्वात्मा न घनं न च पार्थिवम् ॥७॥रूपालोकनमात्रं हि शून्यमेव जगत्स्थितम् ।खे विचित्रमणिव्यूहकरजालमिवोत्थितम् ॥८॥नेह सत्यानि भूतानि न जगत्ता न शून्यता ।इदं ब्रह्माख्यरत्नेशप्रभाजालं विजृम्भितम् ॥९॥सृष्टयोऽसृष्टयो ब्राह्म्यो नानाता च न नाशताः ।अमूर्ता एव भासन्ते कल्पनार्कगणा घनाः ॥१०॥एवं तावद्धनीभूतः पिण्डग्राहो न विद्यते ।संकल्पिते च व्योम्नीव शून्यतैवावगम्यते ॥११॥तस्यामवस्तुभूतायां कथं भावनिबन्धनम् ।भविष्यदाकाशतरौ विश्रान्तः को विहंगमः ॥१२॥पिण्डत्वं नास्ति भूतानां शून्यता च न विद्यते ।चित्तमप्यत एवास्तं शेषं सत्तन्न चास्थिति ॥१३॥अनानासममेवास्ते नानारूपो विबोधवान् ।अन्तरालीननानार्थो यथा कनकपिण्डकः ॥१४॥यथास्थितस्य साहंत्वं विश्वं चित्तं विलीयते ।ज्ञस्यावाच्यमचित्त्वं सत्स्वरूपमवशिष्यते ॥१५॥क्लिश्यते केवलं बुद्धिरुत्तराधरदर्शनैः ।स्तोकयाभ्यस्तया युक्त्या सत्योऽर्थो ह्यवगम्यते ॥१६॥विराडोजोविरहितं कार्यकारणतादिभिः ।भूतभव्यभविष्यस्य जगदङ्गस्य संभवम् ॥१७॥येन बोधात्मना बुद्धं स ज्ञ इत्यभिधीयते ।अद्वैतस्योपशान्तस्य तस्य विश्वं न विद्यते ॥१८॥पूर्वोक्ताः सर्व एवैते उपदेशा विशेषणाः ।ज्ञस्यानुभवमायान्ति स्वतः साधुकथा इव ॥१९॥पिण्डत्वं नास्ति भूतानां शून्यत्वं चाप्यसंभवात् ।अत एव मनो नास्ति शेषं सत्तत्तव स्थितिः ॥२०॥चेत्योन्मुखत्वमेवान्तश्चेतनस्यास्य चेतनम् ।उदितं तदनर्थाय श्रेयसेऽनुदितं भवेत् ॥२१॥उदितं वाह्यतामेति तत्र गच्छति पिण्डताम् ।स्वयं संवेदनादेव जाड्यादम्ब्विव शैलताम् ॥२२॥स्वप्नाद्यर्थवदादत्ते बोधोऽबोधेन पिण्डताम् ।तद्ग्राहकतया चित्तं भूत्वा बध्नाति देहकम् ॥२३॥एतावतीष्ववस्थासु बोधस्योदेति नान्यता ।शब्दकल्पनया भेदः केवलं परिकल्पितः ॥२४॥बहिरन्तश्च बोधस्य भात्यात्मैवार्थदृष्टिभिः ।अन्तस्त्वेन बहिष्ट्वेन नैवास्य मनसो यथा ॥२५॥बोधस्याकाशकल्पत्वात्कालाकाशादि तद्वपुः ।पदार्थाश्चैव स्वात्मानः स्वप्नवन्नार्थरूपि खम् ॥२६॥बाह्यार्थता नान्तरत्वं तद्वद्बोधवशाद्व्रजेत् ।नासादृश्यं हि बोधत्वं गन्तुं शक्तं जडं क्वचित् ॥२७॥बोधो दृश्यदशां नैति प्राप्तो वापि च तां स्थितिम् ।स यथास्थितमेवास्ते मनागप्येति नान्यताम् ॥२८॥अत्यर्थं शुद्धबोधैकपरिणामे कृतोदये ।बोधाबोधार्थशब्दानां श्रुतिरप्यस्तमेष्यति ॥२९॥आतिवाहिकदेहानां चित्तानामेव जायते ।आधिभौतिकताबोधो दृढभावनया स्वया ॥३०॥आकाशविशदैश्चित्तैर्भावितैषातिवाहिकैः ।आधिभौतिकता मिथ्या नटैरिव पिशाचता ॥३१॥भ्रान्तिरभ्रमणाभ्यासात्प्रज्ञातैषोपशाम्यति ।नोन्मत्तोऽस्मीति संबोधाच्छाम्यत्युन्मत्तता किल ॥३२॥भ्रान्तेः स्वयं परिज्ञानाद्वासना विनिवर्तते ।स्वप्ने स्वप्नतया बुद्धे कस्य स्यात्किल भावना ॥३३॥वासनातानवेनैव संसार उपशाम्यति ।वासनैव महायक्षिण्येतच्छेदपरा बुधाः ॥३४॥अज्ञानोन्मत्तता पुंसां यथाभ्यासेन भाविता ।तथैव बोधात्स्वभ्यासात्सा कालेनोपशाम्यति॥३५॥आतिवाहिकदेहोऽयमाधिभौतिकतां यथा ।नीयते भावनां तज्ज्ञैर्बोधसत्ताप्रसादतः ॥३६॥आतिवाहिकदेहोऽपि नीत्वा जीवपदं तथा ।दृढेन बोधाभ्यासेन नेतव्यो ब्रह्मतामपि ॥३७॥स्ववस्तुवच्चेदुत्पत्तिर्बुध्यते बोधरूपिणी ।तदातिवाहिकी बुद्धिः कथमित्यपि बुध्यते ॥३८॥नो चेत्तत्प्रतिवाक्यार्थात्तद्ग्रन्थिर्विनिवर्तते ।भूतोत्सादनसूत्रस्य प्रतिपत्तृपदं यथा ॥३९॥जगद्बोधैकतां बुद्ध्वा बोद्धव्या तावदव्रणम् ।अत्यन्तपरिणामेन यावत्सापि न बुध्यते ॥४०॥सबाह्याभ्यन्तरे चित्ते शान्ते भाति स्वभावता ।शीतलां व्योमनिर्भासां तामेवाश्रित्य शाम्यताम् ॥४१॥ज्ञानवान्ज्ञानयज्ञस्थो ध्यानयूपं विरोपयन् ।जगद्विजित्य जयति सर्वत्यागैकदक्षिणः ॥४२॥पतत्यङ्गारवर्षे च वाति वा प्रलयानिले ।भूतले व्रजति व्योम्नि सममास्ते ज्ञ आत्मनि ॥४३॥वैतृष्ण्यशान्तमनसो निरोधमलमीयुषः ।स्थितिर्वज्रसमाधानं विना नान्योपपद्यते ॥४४॥यथा बाह्यार्थवैतृष्ण्ये नोपशाम्यत्यलं मनः ।न तथा शास्त्रसंदर्भैर्नोपदेशतपोदमैः ॥४५॥मनस्तृणस्य सर्वार्थवैतृष्ण्याग्निर्विबोधितः ।सर्वत्यागानिलैः संपदत्यापदिति भावनात् ॥४६॥बहिरन्तश्च मोहश्च पिण्डग्राहोऽर्थवेदनम् ।ज्ञप्तिरेवेति कचति ज्ञात्वा मणिरिवात्मनि ॥४७॥नरनागासुरागारगिरिगह्वरदृष्टिभिः ।चितिरेवेति विसृता धूमोऽम्बुदतयेव खे ॥४८॥वेपन्ते चिद्द्रवत्वेन ब्रह्माण्डजडभाण्डगाः ।स्वविवर्ततरङ्गिण्यो जीवशक्त्याऽऽपतद्रसाः ॥४९॥जीवकाजीर्णशफरी व्योमवारिविहारिणी ।मोहजालेन वलिता न स्मरत्यात्मनि स्थितिम् ॥५०॥घनीभूता घनत्वेन चिद्घना गगनाङ्गणे ।नानापदार्थरूपेण स्फुरति स्वात्मनात्मनि ॥५१॥सर्व एव समा जीवा वासनामन्तरेण च ।शुष्कपर्णवदुड्डीना जडाः श्वसनवेणवः ॥५२॥आहृत्य पौरुषबलान्यवजित्य तन्द्री-मुत्थाय तर्जितसमर्जितवासनौघम् ।संसारपाशघनपञ्जरमञ्जसैवभङ्क्त्वाभ्युदेयमभितोऽज्ञसमेन भाव्यम् ॥५३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्त० सर्वोपशान्तिर्नामैकोनपञ्चाशः सर्गः ॥४९॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP