संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ४५ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ४५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति विश्रान्तवानेष मनोहरिणकोऽरिहन् ।तत्रैव रतिमायाति न याति विटपान्तरम् ॥१॥एतावताथ कालेन स विवेकद्रुमः फलम् ।अन्तस्थं परमार्थात्म शनैः प्रकटयत्यलम् ॥२॥ध्यानद्रुमफलं पुण्यौ तदसौ स्वमनोमृगः ।अधःस्थितः प्रान्तगतं तस्य पश्यति सत्तरोः ॥३॥आरोहति नरो वृक्षं तदास्वादयितुं फलम् ।अन्यवर्गपरित्यागो वितताध्यवसायवान् ॥४॥विवेकवृक्षपान्नाम वृत्तीस्त्यजति भूगताः ।उन्नतं पदमासाद्य भूयो नाधः समीहते ॥५॥तेनोत्तमफलार्थेन संस्कारान्प्राक्तनानसौ ।विवेकपादपारूढस्त्यजत्यहिरिव त्वचम् ॥६॥हसत्युच्चैः पदारूढमात्मानभवलोकयन् ।एतावन्तमहं कालं कृपणः कोऽभवं त्विति ॥७॥करुणादिषु तेष्वस्य भ्रमञ्छाखान्तरेषु सः ।लोभव्यालमधः कुर्वन्सम्राडिव विराजते ॥८॥हृदयेन्दोर्गलश्रेणी दुःखाब्जतिमिरावलिः ।कृष्णायःशृङ्खलातृष्णा दिनानुदिनमुज्झति ॥९॥उपेक्षते न संप्राप्तं नाप्राप्तमभिवाञ्छति ।सोमसौम्यो भवत्यन्तः शीतलः सर्ववृत्तिषु ॥१०॥शास्त्रार्थपल्लवेष्वेव निषण्णात्मावतिष्ठते ।उन्नतावनता याता अधः पश्यञ्जगद्गतीः ॥११॥भीमद्रुमलतोत्कीर्णपुष्पप्रकरदन्तुराः ।प्राक्तनीः स्वाः स्थलीः पश्यन्हसत्यन्तर्वराकताम् ॥१२॥तेषु तत्स्कन्धदेशेषु तथोड्डीनविडीनया ।हारिण्या विहरञ्जात्या राजेव परिराजते ॥१३॥पुत्रदारसमग्राणि मित्राणि च धनानि च ।जन्मान्तरकृतानीव स्वप्नजानीव पश्यति ॥१४॥रागद्वेषभयोन्मादमानमोहमहत्तया ।नटस्येवास्य दृश्यन्ते शीतलामलचेतसः ॥१५॥उन्मत्तचेष्टिताकारा हसत्यपि पुरोगताः ।तरङ्गभङ्गुराधाराः संसारसरितो गतीः ॥१६॥न स चेतयते काश्चिल्लोकदारधनैषणाः ।अपूर्वपदविश्रान्तो जीवन्नेव यथा शवः ॥१७॥केवलं केवले शुद्धे बोधात्मनि महोन्नते ।दत्तदृष्टिः फले तस्मिन्परं समधिरोहति ॥१८॥स्मृत्वा स्मृत्वापदः पूर्व संतोषामृतपोषितः ।अर्थानामप्यनर्थानां नाशेषु परितुष्यति ॥१९॥व्यवहारेषु कार्येषु भोगसंपादकेष्वपि ।परमुद्वेगमायाति सनिद्र इव बोधितः ॥२०॥दीर्घाध्यग इवोदारामनारतमबाधिताम् ।चिरं मौर्ख्यश्रमाक्रान्तो विश्रान्तिमभिवाञ्छति ॥२१॥निःश्वासबोधितोऽप्यग्निरनिन्धन इवात्मनि ।श्वासमात्रसमोऽप्यन्तरतिष्ठन्नेव शाम्यति ॥२२॥आपतन्तीं बलादेव पदार्थेष्वरतिं शनैः ।न शक्नोति निराकर्तुं दृष्टिमत्र च्युतामिव ॥२३॥तां महापदवीं गच्छन्परमार्थफलप्रदाम् ।भूमिकामप्युपायाति वचसामप्यगोचराम् ॥२४॥कुतोऽप्यचेष्टितेष्वेव संप्राप्तेषु विधेर्वशात् ।भोगेष्वरतिमायाति पान्थो मरुमहीष्विव ॥२५॥घूर्णः क्षीण इवानन्दी सुप्तः संसारवृत्तिषु ।अन्तःपूर्णमना मौनी कामपि स्थितिमृच्छति ॥२६॥स तादृग्रूपतामेत्य परमार्थफलस्य तत् ।क्रमान्निकटमाप्नोति खगोऽगपदवीमिव ॥२७॥ततस्तदखिलां बुद्धिं विहाय वियता समः ।गृह्णात्यथास्वादयति भुङ्क्तेऽथ परितृप्यति ॥२८॥संकल्पार्थपरित्यागाद्दिनानुदिनमातता ।शुद्धस्वभावविश्रान्तिः परमार्थाप्तिरुच्यते ॥२९॥भेदबुद्धिर्विलीनार्थाऽभेद एवावशिष्यते ।शुद्धमेकमनाद्यन्तं तद्ब्रह्मेति विदुर्बुधाः ॥३०॥लोकैषणाविरक्तेन त्यक्तदारैषणेन च ।धनैषणाविमुक्तेन तस्मिन्विश्रम्यते पदे ॥३१॥परेण परिणामेन मिथश्चित्परमार्थयोः ।तापेन हिमलेखेव भेदबुद्धिर्विलीयते ॥३२॥तज्ज्ञस्याकृष्टमुक्तस्य स्वभावेषूपमां विना ।स्थितिः स्रग्दामकस्येव न संभवति काचन ॥३३॥यथाऽप्रकटिताङ्गान्तःसंस्थिता शालभञ्जिका ।न सती नासती स्तम्भे तथा विश्वस्थितिः परे ॥३४॥ध्यानं न शक्यते कर्तुं न चैतदुपयुज्यते ।अबोधेन विबुद्धस्तु स्वयमत्रैव तिष्ठति ॥३५॥आत्यन्तिकी विरसता यस्य दृश्येषु दृश्यते ।स बुद्धो ना प्रबुद्धस्य दृश्यत्यागे हि शक्तता ॥३६॥दृश्यस्य बोधताबोधो यो बोधादपरिक्षयः ।स समाधानशब्देन प्रोच्यते सुसमाहितेः ॥३७॥द्रष्टृदृश्यैकतारूपः प्रत्ययो मनसो यदा ।स तदेकसमाधाने तदा विश्राम्यति स्वयम् ॥३८॥स्वभावो दृश्यवैरस्यमेव तत्त्वविदो निजः ।दृश्यस्पन्दनमेवाहुरतत्त्वज्ञत्वमुत्तमाः ॥३९॥अतज्ज्ञायैव विषयाः स्वदन्ते न तु तद्विदः ।न हि पीतामृतायान्तः स्वदते कटु काञ्जिकम् ॥४०॥वितृष्णस्यात्मनिष्ठत्वादेषणात्रयमुज्झतः ।ज्ञस्याप्यनिच्छतो ध्यानमर्थायातं प्रवर्तते ॥४१॥बोधः स्फुरति तृष्णायाः सैव यस्य न विद्यते ।तस्य स्वरूपमुत्सृज्य क्वासौ तिष्ठति कः कथम् ॥४२॥ज्ञस्यानाराधको ध्येयबोधो नयतु यो भवेत् ।अनन्ता सा वितृष्णस्य निर्विभागोदितः स्वयम् ॥४३॥अनन्तमपतृष्णस्य स्वयमेव प्रवर्तते ।ध्यानं गलितपक्षस्य संस्थानमिव भूभृतः ॥४४॥शुद्धबोधात्मनि ज्ञत्वादसमाहिततोदिता ।न जातु सुसमिद्धेऽग्नौ घृतविन्दोरवस्थितिः ॥४५॥परं विषयवैतृष्ण्यं समाधानमुदाहृतम् ।आहृतं येन तन्नूनं तस्मै नृब्रह्मणे नमः ॥४६॥नूनं विषयवैतृष्ण्ये परिप्रौढिमुपागते ।न शक्नुवन्ति निर्हर्तुं ध्यानं सेन्द्राः सुरासुराः ॥४७॥परं विषयवैतृष्ण्यं वज्रध्यानं प्रसाध्यताम् ।भेदे विगलिते ज्ञानादन्यध्यानतृणेन किम् ॥४८॥मूर्खस्थो विश्वशब्दार्थो नामूर्खविषयस्तथा ।तज्ज्ञाज्ञयोस्तयोश्चैव विश्वविश्वेशयोस्तथा ॥४९॥यत्रैकीभूय कचनं तत्र विश्राम्यतां बुधाः ।बोधभूमिषु सिद्धानामर्थानां वा विवेकिनाम् ॥५०॥सत्तासत्ते द्वयैक्ये च निर्णीते नेह केनचित् ।उपाय एकः शास्त्रार्थो द्वितीयो ज्ञसमागमः ॥५१॥ध्यानं तृतीयं निर्वाणे श्रेष्ठस्तत्रोत्तरोत्तरः ।जीवादर्शान्मिथो रूपं गृह्णात्येषा महद्वपुः ॥५२॥जगत्युदेति संघट्टादाविशेषं समे समे ।ज्ञातपूर्वापराशेषजगदष्टापदस्थितेः ॥५३॥एकसिद्धौ द्वयोः सिद्धिर्बोधवैतृष्ण्यदीपयोः ।मतिवात्याधुतो व्योम्नि दग्धो ज्ञानाग्निनाखिलः ॥५४॥जगत्तूलः परे शान्ते न जाने क्वाशु गच्छति ।चित्राग्निनेव बोधेन तेन जाड्यं न शाम्यति ॥५५॥निर्मूलापि जगद्भ्रान्तिर्येनाशु न विलीयते ।यथाज्ञस्य जगज्ज्ञप्तिरपज्ञानात्प्रदीप्यते ॥५६॥तथा ज्ञस्य परिज्ञानात्तदज्ञप्तिः प्रदीप्यते ।तज्ज्ञस्याज्ञजगज्ज्ञप्तिशब्दार्थरहिता स्थिता ॥५७॥यथास्थितैव त्रिजगज्ज्ञप्तिश्चित्र इवोदिता ।शून्यत्वेनैव रचिता सुप्तत्वेनेव निर्मिता ॥५८॥भासते भामयी वाञ्छा जगज्ज्ञप्तिर्ज्ञचेतसि ।नूनं बोधेऽविमूढस्य नाहंता न जगत्स्थितिः ॥५९॥भासते परमाभासरूपिणः काप्यवस्थितिः ।बोधाबोधात्मकं चित्तं भाति शुष्कार्द्रकाष्ठवत् ॥६०॥बोधादेकं जगद्भावैर्जाड्यान्नात्मत्वमागतम् ।मिथो बोधाद्द्विवदति मैत्रीं भजति बोधतः ॥६१॥य एवास्याधिको भागस्तन्मयत्वेन तिष्ठति ।बुधः सतत्त्वं नावैति जगतोऽभावभावयोः ॥६२॥जाग्रत्स्वप्नसुषुप्तानां स्वभावमिव तुर्यगः ।वासनैव मनः सेयं स्वविचारेण नश्यति ॥६३॥अवस्तुत्वादतो मोक्षो नात्मनाशे प्रवर्तते ॥६४॥ध्यानद्रुमात्स्वयमुपोढमनल्पपाकात्कालेन बोधमुपयातवतः क्रमेण ।भुक्त्वा रसायनफलं परबोधमाद्यमिच्छन्मनोहरिणको निगडाद्विमुक्तः ॥६५॥इत्यार्षे श्रीवासिष्ठमहारामायणे बाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे मनोहरिणकोपाख्यानं नाम पञ्चचत्वारिंशः सर्गः ॥४५॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP