संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।नित्यमन्तर्मुखस्तिष्ठ वीतरागो विवासनः ।चिन्मात्रममलं शान्तं कर्म सर्वत्र भावयन् ॥१॥आकाशविशदः प्राज्ञश्चिन्मात्रैकघनस्थितिः ।समः सौम्यः समानन्दः स ब्रह्माऽऽबृंहिताशयः ॥२॥शोकेष्वापत्सु घोरेषु संकटेष्ववटेषु च ।यथाप्राप्तेषु सर्वेषु खर्वेषून्नतिमत्सु च ॥३॥यथाक्रमं यथादेशं कुरु दुःखमदुःखितः ।वाष्पक्रन्दादिपर्यन्तं द्वन्द्वयुक्तसुखानि च ॥४॥समागमेषु कान्तानामुत्सवेषूदयेषु च ।आनन्दं भज सौम्यात्मा वासनाक्रान्तमूढवत् ॥५॥भूतानि मृत्युकार्येषु संग्रामादिषु निर्दह ।दावानलस्तृणानीव वासनाक्रान्तमूढवत् ॥६॥क्रमागतेष्वखिन्नोऽर्थं बकवच्चिन्तयार्जय ।अर्थोपार्जनकार्येषु वासनाक्रान्तमूढवत् ॥७॥बलाद्विदलयाशेषानरीनरिनिषूदन ।वातो रिक्तानिवाम्भोदान् वासनाक्रान्तमूढवत् ॥८॥जनेषु करुणार्हेषु धैर्यं कुरु महात्मसु ।आत्माराममना मौनी वासनाक्रान्तमूढवत् ॥९॥मुदितो भव हर्षेषु दुःखेषु भव दुःखितः ।करुणां कुरु दीनेषु भव वीरेषु वीर्यवान् ॥१०॥अन्तर्मुखः सदानन्दः स्वात्मारामतयान्वितः ।यः करोति शमोदारस्तत्र कर्तासि नानघ ॥११॥आत्मभावनया साधो नित्यमन्तर्मुखस्थितेः ।वज्रधारापि ते राम पतिता याति कुण्ठताम् ॥१२॥संकल्पकलनोन्मुक्ते स्वसंविन्मात्रकोटरे ।यस्तिष्ठत्यात्मनि स्वैरमात्मारामो महेश्वरः ॥१३॥न तं भिन्दन्ति शस्त्राणि न दहन्ति हुताशनाः ।न क्लेदयन्ति वारीणि शोषयन्ति न मारुताः ॥१४॥सुस्तम्भमजमालिङ्ग्य स्वात्मानमजरामरम् ।तिष्ठावष्टभ्य धीरात्मा सुस्तम्भमिव मन्दिरम् ॥१५॥जगद्वृक्षपदार्थौघपुष्पामोदश्रियं पूराम् ।संविदं संविदः स्वस्थामास्वान्तर्मुखमच्युतम् ॥१६॥अन्तर्मुखतया नित्यं कार्यमाहरतां बहिः ।जीवतामपि नोदेति वासना दृषदामिव ॥१७॥पुनः प्रसरणोन्मुक्तमन्तःसुप्तं मनः कुरु ।कुर्वन्सर्वाणि कर्माणि कृर्माङ्गवदवृत्तिमान् ॥१८॥अन्तर्वृत्तिविहीनेन बहिर्वृत्तिमतेव च ।सुप्तप्रबुद्धप्रायेण कार्यमाचर चेतसा ॥१९॥बालमूकादिविज्ञानवदन्तस्त्यक्तवासनम् ।भवतः कुर्वतः कार्यं खवच्चित्तं न लिप्यते ॥२०॥वृत्तित्यागविलीनेन किंचित्प्रसरता बहिः ।अन्तरत्यन्तसुप्तेन चेतसा तिष्ठ विज्वरः ॥२१॥असंकल्पकलङ्कायां ज्ञानाच्चित्तक्षयोदये ।शुद्धायां संविदि स्थित्वा कुरु मा कुरु वानघ ॥२२॥सुषुप्तसमया वृत्त्या जाग्रद्व्यवहरन्व्रजन् ।गृहाण मा किंचिदपि मा वा किंचित्परित्यज ॥२३॥जाग्रत्यपि सुषुप्तश्चेज्जागर्षि च सुषुप्तके ।जाग्रत्सषुप्तयोरैक्यात्तदस्त्यसि निरामयः ॥२४॥एवमाद्यन्तरहितमभ्यासेन शनैःशनैः ।पदमासादयाद्वन्द्वमतीतं सर्ववस्तुतः ॥२५॥न च द्वैतं न चैवैक्यं जगदित्येव निश्चयी ।परमामेहि विश्रान्तिमाकाशविशदाशयः ॥२६॥श्रीराम उवाच ।यद्येवं मुनिशार्दूल तदहंप्रत्ययात्मकः ।भवानेवेह किं तावद्वसिष्ठाख्यः स्थितो वद ॥२७॥श्रीवाल्मीकिरुवाच ।राघवे गदति त्वेवं वसिष्ठो वदतां वरः ।तूष्णीमेव मुहूर्तार्धमतिष्ठत्स्पष्टचेष्टितः ॥२८॥तस्मिंस्तूष्णीं स्थिते किं स्यादिति सभ्ये महाजने ।पतिते संशयाम्भोधौ रामः पुनरुवाच ह ॥२९॥किमर्थं भगवंस्तूष्णीं भवानहमिव स्थितः ।न सोऽस्ति जगतां न्यायः सतां यो नोत्तरक्षमः ॥३०॥श्रीवसिष्ठ उवाच ।न मे वक्तुमशक्तत्वाद्युक्तिक्षय उपस्थितः ।किंतु प्रश्नस्य कोट्यास्य तूष्णीमेवानघोत्तरम् ॥३१॥द्विविधो भवति प्रष्टा तत्त्वज्ञोऽज्ञोऽथवापि च ।अज्ञस्याज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः ॥३२॥एतावन्तमभूत्कालं भवानज्ञाततत्पदः ।भाजनं सविकल्पानामुत्तराणां महामते ॥३३॥तत्त्वज्ञस्त्वधुना जातो विश्रान्तः परमे पदे ।योग्यो न सविकल्पानामुत्तराणामसि स्फुटम् ॥३४॥यावान्कश्चित्किलोल्लेखो वाङ्मयो वदतां वर ।सूक्ष्मार्थः परमार्थो वा बहुरल्पतरोऽपि वा ॥३५॥प्रतियोगिव्यवच्छेदसंख्यातीतादिविभ्रमैः ।स च सर्वोऽन्वितः साधो भा इव त्रसरेणुभिः ॥३६॥उत्तरं सकलङ्कं च तज्ज्ञो नार्हति सुन्दर ।नाकलङ्का च वागस्ति त्वं च तज्ज्ञतरः स्थितः ॥३७॥यथाभूतं च वक्तव्यं ज्ञस्यान्तेवासिनो मया ।यथाभूतं विदुः काष्ठमौनमन्तविवर्जितम् ॥३८॥अविचारात्ससंकल्पं मौनमाहुः परं पदम् ।तदेव तव तज्ज्ञस्य दत्तः सुन्दर उत्तरः ॥३९॥यन्मयो हि भवत्यङ्ग पुरुषो वक्ति तादृशम् ।ज्ञेयमात्रमयश्चाहं वागतीते पदे स्थितः ॥४०॥वागतीतपदस्थो हि कथं गृह्णाति वाङ्मलम् ।अवाच्यं वच्मि नो तेन वाग्धि संकल्पनाङ्किता ॥४१॥श्रीराम उवाच ।वाचि ये ये प्रवर्तन्ते ताननादृत्य दोषकान् ।प्रतियोगिव्यवच्छेदिपूर्वकान्वद को भवान् ॥४२॥श्रीवसिष्ठ उवाच ।एवं स्थिते राघव हे यथाभूतमिदं श्रृणु ।कस्त्वं कोऽहं जगद्वा किमिति तत्त्वविदां वर ॥४३॥अहं तावदयं तात चिदाकाशो निरामयः ।चेत्यसंवेद्यरहितः सर्वसंकल्पनातिगः ॥४४॥स्वच्छं चिदाकाशमहं भवानाकाशमेव च ।जगच्चाकाशमखिलं सर्वमाकाशमात्रकम् ॥४५॥शुद्धज्ञानैकरूपात्मा शुद्धज्ञानमयात्मनि ।अन्यसंविद्दृशोन्मुक्तः स्वान्यद्वक्तुं न वेद्म्यहम् ॥४६॥स्वपक्षोद्भावनपरा अहंतात्मैकवर्धनम् ।मोक्षार्थमप्युद्यमिनो नयन्ति शतशाखताम् ॥४७॥जीवतोऽप्युपशान्तस्य व्यवहारवतोऽपि च ।शववद्यदवस्थानं तदाहुः परमं पदम् ॥४८॥अबहिःसाधनं शान्तमनन्तःसाधनं समम् ।न सुखं नासुखं नाहं नान्यदित्यादि तं शिवम् ॥४९॥मुक्तताया अहंतेयमभावो भावनं क्व च ।तयैवान्विष्यते सेति जात्यन्धश्चित्रमीक्षते ॥५०॥स्पन्दनेऽस्पन्दने चैव यत्पाषाणवदासितम् ।अजडस्यैव तद्विद्धि निर्वाणमजरं पदम् ॥५१॥तच्च नान्यो विजानाति स्वयमेवानुभूयते ।लोकैषणाविरक्तेन ज्ञेन ज्ञत्वमिवात्मनि ॥५२॥तत्राहंता न च त्वत्ता नानहंता न चान्यता ।केवलं केवलीभावो निर्वाणममलं शिवम् ॥५३॥चेत्योन्मुखत्वमेवाहुश्चेतनस्यास्य चेतनम् ।एष एव च संसारो बन्धः क्लेशाय भूयसे ॥५४॥चेतनस्याचेतनत्वमचेत्योन्मुखतात्मकम् ।मोक्षं विद्धि परं शान्तं पदमव्ययमेव च ॥५५॥दिक्कालाद्यनवच्छिन्ने शान्ते शान्तात्मनि स्थिते ।चेत्यं न संभवत्येव कः किं चेतयते कथम् ॥५६॥संकल्पः स्वप्नदृश्येऽन्तः संविन्मात्रात्मतां विना ।यथान्यवद्भवेद्भूपास्तथैवास्मिन्बहिर्गते ॥५७॥मनोबुद्ध्यादयश्चैते संविन्मात्रानुरूपिणः ।मनोबुद्ध्यादिशब्दार्थभावितास्तु जडात्मकाः ॥५८॥संविन्मात्रे समे स्वच्छे सबाह्याभ्यन्तरे तते ।अभिन्ने भेदबुद्धिर्वा किमनर्थाय जृम्भते ॥५९॥संविन्मात्रस्य शुद्धस्य शून्यस्य च किमन्तरम् ।यच्चान्तरं तद्विबुधा विदन्त्येति न वाग्गतिम् ॥६०॥सदसद्रूप आभासो यथा किमपि लक्ष्यते ।तमसीक्षितयत्नेन ब्रह्मणीदं तथा जगत् ॥६१॥अयमाकाशमेवाहं यदि शाम्याम्यवासनम् ।वासनां तु न बध्नासि स्थित एवासि चिन्नभः ॥६२॥इति निश्चयवानन्तस्तज्ज्ञोऽज्ञ इव संज्ञया ।चिद्वपुर्विद्यमानोऽपि शाम्यत्यसदिव स्वयम् ॥६३॥जीवानां ज्ञप्तिगुप्तेन ज्वलन्नज्ञानवायुना ।अविद्याग्निः प्रबुद्धानां पुनस्तेनैव शाम्यति ॥६४॥अजडानां यदज्ञानं स्थाणूनामिव शाम्यताम् ।तमाहुर्मोक्षमक्षुब्धमासितं पदमक्षयम् ॥६५॥ज्ञत्वेन ज्ञत्वमासाद्य मुनिर्भवति मानवः ।अज्ञत्वादज्ञतामेत्य प्रयाति पशुवृक्षताम् ॥६६॥अहं ब्रह्म जगच्चेदमित्यविद्यामयो भ्रमः ।असत्यः प्रेक्षया ध्वान्तं दीपेनेव न लभ्यते ॥६७॥समग्रकरणग्रामोऽप्यसंकल्पो विवेदनः ।न किंचिदप्यनुभवत्यन्तर्बाह्ये च शान्तधीः ॥६८॥सुषुप्तत्व इव स्वप्नः समाधौ प्रविलीयते॥दृश्यं सर्वं ज्ञबोधेऽन्तः पुनः स्वात्मैव लक्ष्यते ॥६९॥नीलत्वं च यथा व्योम्नि तथा पृथ्व्यादिता शिवे ।भ्रान्तिमात्रादृते नान्यद्यथा व्योम तथा शिवः ॥७०॥वासनाभिरुपेतोऽपि समस्ताभिरवासनः ।भवत्यसावसत्सर्वमिदमित्येव यस्य धीः ॥७१॥संकल्पेष्वद्भुतं भव्य स्वप्नमायेन्द्रजालकम् ।यद्वत्संसृतयस्तद्बदृष्टेऽप्यास्था किमत्र वै ॥७२॥न दुःखमस्ति न सुखं न पुण्यं न च पातकम् । न किंचित्कस्यचिन्नष्टं कर्तुर्भोक्तुरसंभवात् ॥७३॥सर्वं शून्यं निरालम्बं ममताप्रत्ययोऽप्ययम् ।द्विचन्द्रस्वप्नपुरवद्यस्यासौ सोऽपि नास्ति नः ॥७४॥केवलो व्यवहारस्थः काष्ठमौनगतोऽथ वा ।काष्ठपाषाणवत्तिष्ठन्ब्रह्मतामधिगच्छति ॥७५॥शान्तत्वे चित्तत्वे नानानानात्मनीह शिवे ।अवयविनोऽवयवित्वे त्विह युक्तिर्विद्यते नान्या ॥७६॥अर्थागतस्वभावस्य च नैव च संभवादमले ।एतस्मिन्सर्वगते ब्रह्मणि नास्ति स्वभावोक्तिः ॥७७॥न च नास्तिकोपलम्भात्संवित्तेरस्तिता च नैवाजे ।ग्राह्यग्राहकदृष्टेरसंभवादस्ति किंचिदपि ॥७८॥शमममलमहार्यमार्यजुष्टंशिवमजमक्षयमासितं समं यत् ।तदवितथपदं तदास्व शान्तंपिब लल भुङ्क्ष्व भवानयं हि नास्ति ॥७९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे भावनाप्रतिपादनं नामैकोनत्रिंशः सर्गः ॥२९॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP