संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १६२

निर्वाणप्रकरणं - सर्गः १६२

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
चिद्व्योमार्थतयार्थानां यथास्थितमिदं जगत् ।
सरूपालोकमननमपि चिद्व्योम केवलम् ॥१॥
स्वप्नचित्पुररूपत्वादन्यद्यस्मान्न विद्यते ।
जगत्तस्मान्नभः शान्तं नेह नानास्ति किंचन ॥२॥
चिदाभानमनानैव नानेव परिलक्ष्यते ।
अनात्मैवात्मनात्मानं स्वप्नाकाशपुरेष्विव ॥३॥
सर्गादाविव चिद्व्योम स्वप्नाकाशपुरं जगत् ।
आभातमेवासत्यं च नूनं सत्यमिव स्थितम् ॥४॥
तज्ज्ञाज्ञातो न मूर्खाणामज्ञाज्ञातो न तद्विदाम् ।
विद्यते सर्गशब्दार्थः सत्यासत्यमयात्मकः ॥५॥
तज्ज्ञाज्ञयोस्तयोरन्तःप्रतिपत्तौ तु यत्स्थितम् ।
न बोद्धुं न च वक्तुं ते जानीतस्तौ परस्परम् ॥६॥
स्वबुद्धौ स्वर्गशब्दार्थो मिथोन्तस्तत्किलानयोः ।
स्थैर्यास्थैर्ये जाग्रतो द्वे अक्षीबक्षीवयोरिव ॥७॥
द्रवस्थितिमिता यद्वत्सरिद्वारिणि वीचयः ।
चितौ स्थितिमितास्तद्वच्चेतनात्सर्गवीचयः ॥८॥
चिद्रूपं यन्न किंचित्तदिदं किंचिदवस्थितम् ।
भाति दृश्यमिवादृश्यमपि स्वप्नपुरेष्विव ॥९॥
चिच्छायेयं प्रकचति जगदित्यभिशब्दिता ।
नन्वमूर्तैव मूर्तेव द्रव्यच्छायेव वै तता ॥१०॥
कायमात्रकमेवेदं भ्रान्तिमात्रमसन्मयम् ।
पिशाचविभ्रमालोकप्रायमायासनं दृढम् ॥११॥
मनोराज्यमिवासत्यं लोलं लम्बाम्बुबिन्दुवत् ।
द्वाभ्यामित्यनुभूतिभ्यां यदसत्तत्र कात्मता ॥१२॥
विदार्यदारुरववत्तरङ्गानिलशब्दवत् ।
खे शब्दाः पवनस्फोटा भान्त्यर्था वासनोदयाः ॥१३॥
सर्गादितः स्वपरिभा कचति स्वप्नशैलवत् ।
वस्तुतस्तु न शब्दोस्ति नार्थोऽस्ति न च दृश्यता ॥१४॥
यदिदं चास्ति चाभाति तत्सर्वं परमार्थसत् ।
अन्यादृक्कारणाभावात्सर्गादावेव नोदितम् ॥१५॥
निरस्तशब्दभेदार्थमनिरस्ताखिलार्थकम् ।
शाम्यामि परिनिर्वामि व्योमैवास्मीति बुद्ध्यताम्॥१६॥
त्यज्यतामात्मविश्रान्त्या शुद्धबोधैकरूपया ।
जीवेऽजवं जवीभावस्त्वसदुत्थित आत्मना ॥१७॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।
आत्मात्मना न चेत्त्रातस्तदुपायोऽस्ति नेतरः ॥१८॥
तर तारुण्यमस्तीदं यावत्ते तावदम्बुधेः ।
ननु संसारनाम्नोऽस्माद्बुद्ध्या नावा विशुद्धया ॥१९॥
अद्यैव कुरु यच्छ्रेयो वृद्धः सन्किं करिष्यसि ।
स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥२०॥
शैशवं वार्धकं ज्ञेयं तिर्यक्त्वं मृतिरेव च ।
तारुण्यमेव जीवस्य जीवितं तद्विवेकि चेत् ॥२१॥
संसारमिममासाद्य विद्युतसंपातचञ्चलम् ।
सच्छास्त्रसाधुसंपर्कैः कर्दमात्सारमुद्धरेत् ॥२२॥
अहो बत नराः क्रूरा गतिः कैषां भविष्यति ।
कुर्वन्ति कर्दमोन्मग्ने नात्मन्यपि निजोदयम् ॥२३॥
यथा मृन्मयवेतालसभा ग्राम्यस्य भङ्गदा ।
यथा भूतार्थविज्ञानान्मृन्मय्येव न भङ्गदा ॥२४॥
तथा ब्रह्ममयी दृश्यलक्ष्मीरज्ञस्य भङ्गदा ।
यथा भूतार्थविज्ञाने ब्रह्मैवास्ते न भङ्गदा ॥२५॥
शाम्यत्यशान्तमेवेदं स्थितमेव विलीयते ।
दृश्यं तत्त्वपरिज्ञानाद्दृश्यमानं न दृश्यते ॥२६॥
स्फुटानुभवनस्यापि स्वप्नकाले निजे यथा ।
परिज्ञानादसत्यत्वमेव सत्यपदं गता ॥२७॥
तथानुभूयमानापि सर्गसंवेदनाम्बरे ।
चिन्मये तत्त्वविज्ञानाच्छून्यतैवावशिष्यते ॥२८॥
जातिज्वरज्वलितजीवितजङ्गलेषु
जीर्णानि वातहरिणाहरणक्रमेण ।
माद्यन्मनःपवनपातयुतान्यमूनि
जित्वेन्द्रियाणि जयमेहि जहीहि जन्म ॥२९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वा० दे० मो० नि० उ० अ० वि० अविद्यानिरसनो नाम द्विषष्ट्यधिकशततमःसर्गः ॥१६२॥

N/A

References : N/A
Last Updated : October 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP