संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १८

निर्वाणप्रकरणं - सर्गः १८

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
मरणं सर्वनाशात्म न कदाचन विद्यते ।
स्वसंकल्पान्तरस्थैर्यं मृतिरित्यभिधीयते ॥१॥
पश्येमे पुर उह्यन्त इव मन्दरमेरवः ।
अरूढा अपि दिग्वातैः सरिद्बिम्बितशैलवत् ॥२॥
उपर्युपर्यन्तरतः कदलीदलपीठवत् ।
श्लिष्टाश्लिष्टस्वरूपाः खे मिथः संसृतयः स्थिताः॥३॥
श्रीराम उवाच ।
पश्य मे पुर उह्यन्त इति वाक्यार्थमक्षतम् ।
न किंचिदवगच्छामि यथावन्मुनिनायक ॥४॥
श्रीवसिष्ठ उवाच ।
प्राणस्याभ्यन्तरे चित्तं चित्तस्याभ्यन्तरे जगत् ।
विद्यते विविधाकारं बीजस्यान्तरिव द्रुमः ॥५॥
मृते पुंसि नभोवातैर्मिलन्ति प्राणवायवः ।
सरिज्जलैरिवाम्भोधिजलान्यात्मद्रुतानि हि ॥६॥
इतश्चेतश्च यान्तीव तेषामन्तर्जगन्त्यलम् ।
व्योमवातविनुन्नानां संकल्पैकात्मकान्यपि ॥७॥
सप्राणवातैः पवनैः स्फुरत्संकल्पगर्भितैः ।
सर्वा एव दिशः पूर्णाः पश्यामीमाः समन्ततः ॥८॥
अत्रैते पश्य पश्यामि संकल्पजगताङ्गणे ।
बुद्धिदृष्ट्या समुह्यन्ते पुरो मन्दरमेरवः ॥९॥
खवातेऽन्तर्मृतप्राणाः प्राणानामन्तरे मनः ।
मनसोऽन्तर्जगद्विद्धि तिले तैलमिव स्थितम् ॥१०॥
खवातैः खसमाः प्राणा यथोह्यन्ते मनोमयाः ।
उह्यन्ते वै तथैतानि तदङ्गानि जगन्त्यपि ॥११॥
सभूतान्यम्बरोर्व्यादिवृन्दानि त्रिजगन्त्यपि ।
उह्यन्ते चाप्यरूढानि पुरः सर्वत्र गन्धवत् ॥१२॥
तानि बुद्ध्यैव दृश्यन्ते न दृष्ट्या रघुनन्दन ।
पुरः संकल्परूपाणि स्वस्वप्नपुरपूरवत् ॥१३॥
सर्वत्र सर्वदा सन्ति सुसूक्ष्माण्येव खादपि ।
कल्पनामात्रसारत्वान्न चोह्यन्ते मनागपि ॥१४॥
तान्येव दृढभावत्वात्स्वेषु लोकेषु तेष्वलम् ।
सत्यान्येव चिदंशस्य सर्वगत्वाद्भवानिव ॥१५॥
प्रतिबिम्बं पुराणीव पुरःप्राणसरिद्रये ।
अरूढान्यपि चोह्यन्ते रूढान्यपि च नैव च ॥१६॥
सौरभाणि समुह्यन्ते वाताङ्गस्थानि राघव ।
जगन्ति प्राणसंस्थानि व्योमात्मकमयानि तु ॥१७॥
कुम्भे देशान्तरं नीते यथान्तर्व्योन्नि नान्यता ।
स्पन्दनादिमये चित्ते तथैव त्रिजगद्भ्रमे ॥१८॥
इत्थं न सज्जगद्भ्रान्तिरसत्यैवोदितेव ते ।
न विनश्यति नोदेति केवलं ब्रह्मरूपिणी ॥१९॥
यदि वाप्युदिते वातैस्तत्तदस्या न लक्ष्यते ।
तदन्तःसंस्थितैः स्पन्दो नावि कोशगतैरिव ॥२०॥
यथा स्पन्दोऽङ्गलग्नायां नाव्यन्तःसंस्थितैरपि ।
न लक्ष्यते तथा पृथ्व्यां तत्संस्थैस्तन्मयैरपि ॥२१॥
यथा योजनविस्तीर्णं लघौ सद्मानुभूयते ।
यत्तस्य पादपस्तम्भे परमाणौ यथा जगत् ॥२२॥
वस्त्वल्पमप्यतिवृहल्लघुसत्त्वो हि मन्यते ।
मूषिकाः स्वाञ्जलिद्रव्यं नवपङ्कमिवार्भकाः ॥२३॥
असत्येव स्वरूपेऽस्मिञ्जगदाख्ये विदो भ्रमे ।
लोकान्तराधर्ममयी सा बृंहगस्य भावना ॥२४॥
इदं हेयमुपादेयमिदमित्यन्तरज्ञता ।
यस्य तस्य भवायास्ति सर्वज्ञस्यापि मूढता ॥२५॥
सचेतनो ह्यवयवी चेतत्यवयवान्यथा ।
स्वान्तरेव ततं जीवस्त्रिजगद्बुध्यते तथा ॥२६॥
संविदात्मपराकाशमनन्तमजमव्ययम् ।
व्योम्नोऽवयवरूपाणि तस्येमानि जगन्ति भोः ॥२७॥
सचेतनोऽयःपिण्डोऽन्तः क्षुरसूच्यादिकं यथा ।
बुद्ध्यते बुद्ध्यते तद्वज्जीवोऽज्ञस्त्रिजगद्भ्रमम् ॥२८॥
अचिच्चिद्वापि मृत्पिण्डः शरावोदञ्चनादिकम् ।
यथाङ्ग मनुते जीवस्तथाङ्ग मनुते जगत् ॥२९॥
चिदचिद्वाङ्कुरो देहे वृक्षत्वं मन्यते यथा ।
वृक्षशब्दार्थरहितं ब्रह्मेदं त्रिजगत्तथा ॥३०॥
चिद्वाचिद्वा यथादर्शो बिम्बितं वाप्यबिम्बितम् ।
नगरं वेत्ति नो वापि तथा ब्रह्म जगत्त्रयम् ॥३१॥
देशकालक्रियाद्रव्यमात्रमेव जगत्त्रयम् ।
अहंत्वजगतोस्तेन भेदो नास्त्येतदात्मनोः ॥३२॥
कल्पितेनोपमानेन यदेतदुपदिश्यते ।
तत्रोपमैकदेशेन उपमेयसधर्मता ॥३३॥
यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् ।
अमुञ्चतः पराणुत्वं जीवस्यैतत्स्मृतं वपुः ॥३४॥
सर्वसंवेदनत्यागे शुद्धसंस्पन्ददे पदे ।
न मनागपि भेदोऽस्ति निःसङ्गोपलकोशवत् ॥३५॥
यो यो नाम विकल्पांशो यत्र यत्र यथा यथा ।
यदा यदा येन येन दीयते स तथैव चित् ॥३६॥
अचित्त्वान्नास्ति मनसि संकल्पः ख इवाङ्कुरः ।
चित्त्वात्तु चेतसो विद्धि चितिरेवेह कल्पनम् ॥३७॥
या योदेति विकल्पश्रीरप्रबुद्धाशयं प्रति ।
सर्वगत्वादनन्तत्वाच्चिद्व्योम्नः सा न सन्मयी ॥३८॥
यथोदेति विकल्पश्रीः प्रबुद्धे नोदितैव सा ।
सर्वगत्वादनन्तत्वाच्चिद्व्योम्नः सा न सन्मयी ॥३९॥
सर्वसंकल्पकलना सत्येत्याबालमक्षतम् ।
स्वप्नादावनुभूतोन्तरर्थः केनापि लभ्यते ॥४०॥
संकल्पो वासना जीवस्त्रयोऽर्था लिखिताश्चिता ।
सोनुभूतोऽप्यसत्यः स्यादसत्त्वस्यैव नो सतः ॥४१॥
असत्यताभिधं सत्यं मुक्त एव भवेच्छिवः ।
सातिवाहिकदेहैकपरिक्षयविकासवान् ॥४२॥
जगन्ति वातैरुह्यन्ते व्योम्नि शाल्मलितूलवत् ।
नोह्यन्ते चोपलानीव न च सन्त्येव कल्पनात् ॥४३॥
इत्यस्मिन्नखिलपदार्थसार्थकोशे
व्योमन्यप्यतिवितते जगन्ति सन्ति ।
अन्योन्यं परिमिलितानि कानिचिच्च
नान्योन्यं परिमिलितानि कानिचिच्च ॥४४॥
सर्वत्वात्परमचितेरनन्तरूपा-
ण्यारम्भप्रचुरदिगन्तसंभृतानि ।
लोलाम्बूदरपुरबिम्बभङ्गुराणि
स्वान्तःस्थाविरलमहापुरोपमानि ॥४५॥
सस्थैर्याण्यपि सततं क्षणक्षयाणि
व्यक्ताक्षाण्यपि सततं निमीलितानि ।
सालोकान्यपि परितस्तमोवृतानि
चिद्रूपार्णवलहरीविवर्तनानि ॥४६॥
पृथक्स्थितानि व्यतिमिश्रितानि
जलानि चैवाम्बुनिधौ नदीनाम् ।
तारार्कचन्द्रग्रहमण्डलानां
समोदितानां नभसीव भासः ॥४७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० वि जगज्जालकोशसाधर्म्ययोगोपदेशो नामाष्टादशः सर्गः ॥१८॥

N/A

References : N/A
Last Updated : September 26, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP