संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः २६

निर्वाणप्रकरणं - सर्गः २६

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
संसारमार्गगहने पतितस्यापतन्ति हि ।
वृत्तवृत्तान्तलक्षाणि कीटा इव घनागमे ॥१॥
सर्व एव त्विमे भावाः परस्परमसङ्गिनः ।
अटव्यामुपलानीव भावनैतेषु शृङ्खला ॥२॥
चित्तमान्ध्याय वृत्तान्तद्रुमैर्गहनवत्स्थितम् ।
रसरञ्जनया लोके वसन्त इव काननम् ॥३॥
अहो बत विचित्राणि वासनावशतोऽवशैः ।
भूतकैरनुभूयन्ते सुखदुःखानि जन्मसु ॥४॥
अहो बतातिविषमा वासना यद्वशाज्जनैः ।
अविद्यमानैरेवायं भ्रमोऽन्तरनुभूयते ॥५॥
आह्लादिनो मृतवतः शुद्धस्यालोककारिणः ।
शीतलस्याखिलार्थेषु ज्ञस्येन्दोश्च किमन्तरम् ॥६॥
पूर्वापरमनालोच्य यत्किंचिदभिवाञ्छतः ।
निर्मर्यादस्य मूढस्य बालस्य च किमन्तरम् ॥७॥
लब्धमाप्राणपर्यन्तंभमनुज्झतोः ।
आमिषं को वि वद माकरमूढयोः ॥८॥
सर्व एव त्विमे भावा देहदारधनादयः ।
क्षिप्रमाशुष्कसिकताशरावविशरारवः ॥९॥
आब्रह्मस्तम्बपर्यन्तमपि योनिशतेषु ते ।
आकल्पं भ्रमतश्चित्तशान्तिर्नास्ति शमादृते ॥१०॥
पर्यालोचनमात्रेण बन्धगन्धो न बाधते ।
गच्छतो मार्गवैषम्यमिवालोकनकारिणः ॥११॥
तव नावहितं चित्तं कामः कवलयिष्यति ।
सावधानस्य बुद्धस्य पिशाचः किं करिष्यति ॥१२॥
यथेक्षणप्रसरणं रूपालोकनमात्रकम् ।
संवित्प्रसृतिमात्रात्म तथा साहंजगत्स्थितम् ॥१३॥
यथाक्षिसंवृतिः सर्वरूपालोकशमोऽरिहन् ।
संवित्संवरणं नाम सर्वदृश्यशमस्तथा ॥१४॥
असदेव जगत्साहं शुद्धा संवित्तनोति खे ।
ईषत्प्रसरणेनाशु स्पन्दनं पवनो यथा ॥१५॥
सदिवासत्यमेवेदमकुर्वत्यन्यमेधते ।
मृदा हेम्नेव कुम्भत्वमपृथग्लभ्यमात्मगम् ॥१६॥
शून्यमात्रं यथा व्योम स्पन्दमात्रं यथानिलः ।
जलमात्रं यथोर्म्यादि संविन्मात्रं तथा जगत् ॥१७॥
अव्यवच्छिन्ननिर्भागसंविन्मात्रं जगत्त्रयम् ।
विद्धि शान्तं तथा व्योम यथा वारिणि पर्वतम्॥१८॥
निर्वाणस्योपशान्तस्य ज्ञस्य सोदेति शीतता ।
अन्तर्यत्रेन्दवोऽप्येते दीप्तज्वलनबिन्दवः ॥१९॥
किं केन कथमेकान्तशान्ताततशिवात्मनि ।
निरालोकोऽपरालोकः शून्ये जगति जन्यते ॥२०॥
या सत्ता ब्रह्मशब्दाख्या रूपं सर्वस्य तन्निजम् ।
न यत्र काचिद्वाधास्ति सर्वं तन्मयमव्ययम् ॥२१॥
यदिदं तु पदार्थत्वं यत्र बाधानुभूयते ।
यद्यच्च बाधनं प्रेक्ष्य तन्न विद्मः खपुष्पवत् ॥२२॥
ज्ञ एवापगतस्वान्तं शान्तमास्व महाश्मवत् ।
असौ न मननं मानमनन्तमजमव्ययम् ॥२३॥
आकाशकल्पे स्वे भावे तिष्ठतोऽङ्गानिवेदनम् ।
भवत्यभ्यासदार्ढ्येन विना स्वप्नविकारवत् ॥२४॥
निरुपादानसंभारमभित्तावेव चेतति ।
ब्राह्मं कर्तृ जगच्चित्रं न कश्चिद्वा न किंचन ॥२५॥
तनोति यत्तदास्मैव तस्य तत्र तथा स्थितम् ।
दृश्याभावादसद्दृश्यं तेन कः क्व करोति किम् ॥२६॥
अहं सुखीति सुखिता अहं दुःखीति दुःखिता ।
सर्व एव स्वरूपस्था व्योमात्मानोऽपि पार्थिवाः ॥२७॥
सर्वेषामेव भावानां चिदाकाशात्मनामपि ।
मिथ्यैव स्वप्नशैलानामिव पार्थिवता स्थिता ॥२८॥
अहंत्वोल्लेखतः सत्ता भ्रमभावविकारिणी ।
तदभावात्स्वभावैकनिष्ठता शमशालिनी ॥२९॥
हेम्नः कटकशब्दार्थो व्यतिरिक्तो यथास्ति ते ।
व्यतिरिक्ता तथा सत्या नाहंतास्ति शमात्मनः ॥३०॥
निर्वाणो निर्मना मौनी कर्ताऽकर्ता च शीतलः ।
ज्ञ एव शान्त एवास्ते शून्य एवाभिपूरितः ॥३१॥
निर्वासनास्पन्दपरो यन्त्रपुत्रकगात्रवत् ।
स यथास्थितमेवास्ते ज्ञः संव्यवहरन्नपि ॥३२॥
यथा मञ्चकसंस्थस्य स्पन्दन्ते नैव वा शिशोः ।
अङ्गानि स्वानुसंधानं विनैवंविदितात्मनः ॥३३॥
निःसंबोधैकबोधस्य निराशेहैषणाशिषः ।
शान्तानन्तात्मरूपत्वादनुसंधानता कुतः ॥३४॥
अद्रष्टुरपदृश्यस्यादृग्रूपस्यापरूपिणः ।
कुतः किलानुसंधानमनपेक्षस्य पश्यतः ॥३५॥
अपेक्षैव घनो बन्ध उपेक्षैव विमुक्तता ।
सर्वशब्दान्विता तस्यां विश्रान्तेन किमीक्ष्यते ॥३६॥
पार्थिवत्वे शरीरेऽस्मिन्स्वस्वप्नाङ्ग इवासति ।
भ्रममात्रात्मनि कुतः क्व कस्य किमपेक्षणम् ॥३७॥
उपशान्तसमस्तेहं विगताखिलकौतुकम् ।
निरस्तवेदनं ज्ञेन विदा केवलमास्यते ॥३८॥
मङ्किनेति श्रुतवता ततो मोहो महानपि ।
अशेषेण परित्यक्तस्तत्रैव त्वगिवाहिना ॥३९॥
प्रवाहापतितं कार्यं कुर्वतापास्तवासनम् ।
तेन वर्षशतस्यान्ते स्थितमद्रौ समाधिना ॥४०॥
तत्राद्ययावत्पाषाणसमधर्मा स तिष्ठति ।
संशान्तकरणो योगी बोध्यमानः प्रबुध्यते ॥४१॥
एतेन राघव विवेकपदेन शान्ति-
मासादयोदयवता मनसा विहर्तुम् ।
मा दीनतां व्रजतु रागमयी मतिस्ते
क्षीणा क्षणादसलिलेव शरद्धनाली ॥४२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ० मङ्क्युपा० निर्वाणसमाप्तिर्नाम षड्विंशः सर्गः ॥२६॥

N/A

References : N/A
Last Updated : September 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP