संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १३७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १३७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १३७ Translation - भाषांतर व्याध उवाच ।एवं चेत्तन्मुने ब्रूहि कीदृग्दुःखपरिक्षये ।न कर्कशो न च मृदुर्व्यवहारक्रमो भवेत् ॥१॥मुनिरुवाच ।इदानीमेव संत्यज्य धनुषा सह सायकान् ।मौनमाचारमाश्रित्य शान्तदुःखमिहोष्यताम् ॥२॥श्रीवसिष्ठ उवाच ।इति संबोधितस्तेन परित्यज्य धनुःशरान् ।आसीन्मुनिसमाचारस्तत्रैवायाचिताशनः ॥३॥विवेश मनसा मौनी ततः शास्त्रविवेकिताम् ।दिनैरेव यथा पुष्पमामोदेन नराशयम् ॥४॥अपृच्छन्मुनिशार्दूलं कदाचित्तमरिन्दम ।भगवन्दृश्यते स्वप्नः कथमन्तर्बहिः स्थितः ॥५॥मुनिरुवाच ॥ममापि साधो प्रथममेष एव विवेकिनः । पुरा चित्ते वितर्कोऽभूत्कुतोऽप्यभ्रमिवाम्बरे ॥६॥तत एतद्दिदृक्षार्थमहमभ्यस्तधारणः ।बद्धपद्मासनस्तस्यां संविद्येवाभवं स्थिरः ॥७॥तत्रस्थो दूरविक्षिप्तं तयैवाहृतवानहम् ।चेतः स्वहृदयं सायं रुचेव रविरातपम् ॥८॥वेदनेरणया प्राणस्ततश्चित्तान्वितो मया ।शरीराद्रेचितो बाह्ये सौरभं कुसुमादिव ॥९॥व्योमस्थचित्तवलितः स प्राणपवनो मया ।अग्रस्थस्य मुखाग्रस्थे जन्तोः प्राणे नियोजितः ॥१०॥यः प्राणवलितः प्राणस्तेन नीतो हृदन्तरम् ।स्वेहया स्वं स्वकः सर्पः करभेणेव हिंसितः ॥११॥ततोऽहं हृदयं तस्य प्रविष्टः प्राणवाजिना ।संकटस्थः स्वया बुद्ध्या तावेबानुसरोन्तरम् ॥१२॥चरद्रसाभिर्बह्वीभिर्नाडीभिरभितो वृतम् ।कुल्याभिः स्थूलतन्वीभिर्बाह्यदेशमिवाखिलम्॥१३॥पर्शुकापञ्जरप्लीहयकृद्रक्तादिडिम्बकैः ।संकटं जीवसदनं भाण्डोपस्करणैरिव ॥१४॥सर्वैः शलशलायद्भिरुष्णैरवयवैर्वृतम् ।निदाघतापसंतप्तैरूर्मिजालैरिवार्णवम् ॥१५॥नवं नवं बहिःशैत्यं नासाग्राच्चेतनात्मकम् ।जीवनायानिशं चेतो वातोन्नीतमनारतम् ॥१६॥रक्तकुट्टरसश्लेष्मवसानिःस्रावपिच्छिलम् ।घनान्धकारमुष्णं च संकटं नरकोपमम् ॥१७॥उदयावयवाश्लेषस्पष्टास्पष्टमरुद्रतैः ।स्थित्यन्तानां तु वैषम्यादागामिगदसूचकम् ॥१८॥दरत्सरभसच्छिद्रावातवातेन शब्दितम् ।पद्मनालप्रणालान्तर्ज्वलदर्णववाडवम् ॥१९॥मिलत्पदार्थनीरन्ध्रं सितमच्छं सवायुभिः ।क्वचित्सौम्यं क्वचित्क्षुब्धं चोरैरिव पुरं निशि ॥२०॥रसनादपरैर्नाडीमार्गविद्याधराध्वगैः ।संचरद्भिर्वृतं वातैराकारार्धार्धगीतिभिः ॥२१॥तदहं हृदयं जन्तोराविशं विषमान्तरम् ।नरोऽवयवसंबाधं नरवृन्दमिवाधिकः ॥२२॥अनन्तरमहं प्राप्तस्तेजोधातुं हृदन्तरे ।दूरस्थमिव यत्नेन रात्राविन्दुमिवार्करुक् ॥२३॥यस्मात्त्रिभुवनादर्शो दीपस्त्रैलोक्यवस्तुषु ।सत्ता सर्वपदार्थानां जीवस्तत्रावतिष्ठते ॥२४॥काये सर्वगतो जीवः स्वामोदः कुसुमे यथा ।तथाप्योजसि किञ्जल्कैर्मुखे शैत्यं विवस्वता ॥२५॥तज्जीवाधारमोजस्तु प्रविष्टोऽहमलक्षितम् ।रक्षितं परितः प्राणैर्वातैः प्रच्छादनं यथा ॥२६॥ततोऽञ्जः संप्रविष्टोऽहमामोद इव मारुतम् ।उष्णांशुरिव शीतांशुं मृत्पात्रमिव वा पयः ॥२७॥द्वितीयेन्द्वंशुसंकाशे शुक्लाभ्रलवपेलवे ।नवनीतगुडप्रख्ये क्षीरबुद्बुदसुन्दरे ॥२८॥तत्र पश्याम्यहं तिष्ठन्प्रवेशव्यग्रयोज्झितः ।स्वौजसीव वसन्स्वप्न इव विश्वमखण्डितम् ॥२९॥सार्कं सपर्वतं साब्धि ससुरासुरमानवम् ।सपत्तनवनाभोगं सलोकान्तरदिङ्मुखम् ॥३०॥सद्वीपसागराम्भोधि सकालकरणक्रमम् ।सकल्पक्षणसर्वर्तु सहस्थावरजंगमम् ॥३१॥तत्स्वप्नदर्शनं तत्र स्थिरमेव समं स्थितम् ।वसाम्यत्येव निद्रान्ते निद्राऽन्ते नागता यतः ॥३२॥अनिद्र एव किं स्वप्नं पश्यामीति मया ततः ।परिचिन्तयता ज्ञातमिदं व्याध विबोधिना॥ननु नामास्य चिद्धातोः स्वरूपमिदमैश्वरम् ।स्वं यद्व्यपदिशत्येष जगन्नाम्नाम्बरात्मकम् ॥३४॥चिद्धातुर्यत्र यत्रास्ते तत्र तत्र निजं वपुः ।पश्यत्येष जगद्रूपं व्योमतामेव चात्यजत् ॥३५॥अहो त्वद्येदमाज्ञातं यदित्थं दृश्यते जगत् ।तत्कथ्यते स्वप्न इति स्वचित्कचनमात्रकम् ॥३६॥चिद्धातोर्यत्स्वकचनं तत्किंचित्स्वप्न उच्यते ।किंचिच्च जाग्रदित्युक्तं जाग्रत्स्वप्नौ तु न द्विधा ॥३७॥स्वप्नः स्वप्नो जागरायामेष स्वप्ने तु जागरा ।स्वप्नस्तु जागरैवेति जागरैव स्थिता द्विधा ॥३८॥चेतनं नाम पुरुषः स मृतेषु शतेष्वपि ।शरीरेषु महाबुद्धे कथं कस्य कदा मृतः ॥३९॥तच्चेतनं खमेवास्ति स्थितं तद्देहवत्कचत् ।अनन्तमविभागात्म प्रतिघाप्रतिघात्मकम् ॥४०॥स्वभावस्याप्रतिघस्य नित्यानन्तोदितात्मनः ।परमाणोश्चिदाख्यस्य मज्जा जगदिति स्मृतः ॥४१॥चिद्व्योम्न उदरे भान्ति समस्तानुभवाणवः ।तथा यथावयविनो विचित्रावयवाणवः ॥४२॥निवृत्तो बाह्यतो जीवो जीवाधारे हृदि स्थितः ।रूपं स्वं स्वप्नसर्गोऽयमिति वेत्ति चिदाकचान् ॥४३॥बाह्योन्मुखं बहिर्जाग्रच्छब्दितं कचितं स्वकम् ।रूपं पश्यति जीवोऽयमन्तस्थं स्वप्न इत्यपि ॥४४॥द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।प्रसृतो जीव इत्यन्तर्बहिश्चैकात्मकः स्थितः ॥४५॥अर्कोऽर्कबिम्बसंस्थोऽपि यथेहापि स्थितस्त्विषा ।तथा जीवो जगद्रूपो बहिरन्तश्च संस्थितः ॥४६॥अन्तःस्वप्नो बहिर्जाग्रदहमेवेति वेत्ति चेत् ।चिदात्मको यथाभूतं मुच्यते तदवासनः ॥४७॥अच्छेद्योऽयमदाह्योऽयमपि जीवोऽन्यथा वदन् ।द्वैतसंकल्पयक्षेण मुह्यत्येव शिशुर्यथा ॥४८॥अन्तर्मुखोऽन्तरात्मानं बहिः पश्यन्बहिर्मुखः ।आस्ते जीवो जगद्रूपं यत्स्वन्ते स्वप्नजाग्रती ॥४९॥इति चिन्तयतः किं स्यात्सुषुप्तमिति मे मतिः ।जाता तेन सुषुप्तांशमन्वेष्टुमहमुद्यतः ॥५०॥यावत्किं दृश्यदृष्ट्यान्तस्तूष्णीं तिष्ठाम्यहं चिरम् ।निश्चित्त इति संवित्तिः शमा नान्यत्सुषुप्तकम् ॥५१॥नखकेशादि देहेऽस्मिन्विदिताविदितं यथा ।न जडं च जडं चैव सुषुप्तं चेतनात्मनि ॥५२॥संवित्त्या किं श्रमार्तोऽस्मि शान्तमासेवि मानसम् ।इत्येकपरिणामत्वान्नान्यदस्ति सुषुप्तकम् ॥५३॥एतन्निद्राघनं जाग्रत्यपि संभवति स्वतः ।न किंचिच्चिन्तयाम्यासे शान्त इत्येकरूपकम् ॥५४॥एषावस्था यदा याति घनता मुच्यते तदा ।निद्राशब्देन तन्वी तु स्वशब्देन कथ्यते ॥५५॥सुषुप्तमिति निश्चित्य तुरीयान्वेषणामहम् ।प्रवृत्तः कर्तुमुद्युक्तो युक्तः परमया धिया ॥५६॥यावद्रूपं तुरीयस्य किंचनापि न लभ्यते ।सम्यग्बोधादृते शुद्धात्प्रकाशस्तमसो यथा ॥५७॥यथास्थितमिदं विश्वं सम्यग्बोधाद्विलीयते ।यथास्थितं च भवति न च किंचिद्विलीयते ॥५८॥अतः स्वप्नो जागरा च सुषुप्तं च तुरीयके ।सयथास्थितमस्तीदं नूनं नास्ति च किंचन ॥५९॥कारणाज्जगदुत्पन्नं न ब्रह्मेत्थमवस्थितम् ।जगत्तया शान्तमजं बोध इत्येव तुर्यता ॥६०॥असंभवात्संभवकारणानांन जायते किंचन नाम सर्गः ।चिच्चेतनेनैव हि सर्गसंवित्स्वयं गृहीता द्रवताम्बुनेव ॥६१॥इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० वि० जाग्रत्स्वप्नसुषुप्ततुरीयवर्णनं नाम सप्तत्रिंशदधिकशततमः सर्गः ॥१३७॥ N/A References : N/A Last Updated : October 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP