संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ४७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ४७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।संसारभारसुश्रान्तः संकटेषु लुठत्तनुः ।योऽभिवाञ्छति विश्रान्तिं तस्य क्रममिमं श्रृणु ॥१॥पूर्वं विवेककणिका यदा स्वहृदि जायते ।संसारनिर्वेदमयी कारणाद्वाप्यकारणात् ॥२॥तदा श्रयन्ति सच्छायान्साधुत्वसुविशालिनः ।अध्वश्रमहरांस्तापतप्ता मार्गतरूनिव ॥३॥दूरे परिहरत्यज्ञान्यज्ञयूपानिवाध्वगः ।स्नानदानतपोयज्ञान्करोति विबुधानुगः ॥४॥पेशलं चानुरूपं च व्यवहारमकृत्रिमम् ।लोक्यमाह्लादनं धत्ते चन्द्रविम्बमिवामृतम् ॥५॥परप्रज्ञानुगो भव्यः परार्थपरिपूरकः ।पवित्रकर्मरसिकः कोऽपि सौम्यः प्रवर्तते ॥६॥नवनीतस्थलीवाऽच्छा स्निग्धा मृद्वी मनोहरा ।जनं सुखयति स्वाद्वी तदीया नवसंगतिः ॥७॥शीतलानि पवित्राणि चरितानि विवेकिनः ।इन्दोरिवांशुजालानि जनं शीतलयन्त्यलम् ॥८॥न तथोद्यानखण्डेषु पुष्पप्रकरहारिषु ।विश्राम्यते वीतभयं यथा साधुसमागमे ॥९॥मन्दाकिनीपयांसीव संगतानि विवेकिनाम् ।प्रक्षालयन्ति पापानि प्रयच्छन्ति विशुद्धताम् ॥१०॥विवेकिषु विरक्तेषु संसारोत्तरणार्थिषु ।जनः शीतलतामेति हिमहारगृहेष्विव ॥११॥ननु नामरतोदारा या विवेकिनि विद्यते ।सुरगन्धर्वकन्यासु मानवीषु न विद्यते ॥१२॥प्रज्ञा प्रसादमायाति क्रमादुचितकर्मणः ।अन्तःकरोति शास्त्रार्थमर्थं मुकुरभूरिव ॥१३॥सत्प्रज्ञोन्नतिमायाति शास्त्रार्थरसशालिनी ।विवेकिनि विलासेन कदलीव महावने ॥१४॥अन्तरेवानुभवति सर्वार्थान्प्रतिबिम्बितान् ।आदर्शवदशेषेण प्रज्ञा नैर्मल्यशालिनी ॥१५॥साधुसंगमशुद्धात्मा शास्त्रार्थपरिमार्जितः ।प्राज्ञो भात्युद्धृतं वह्नेरग्निशौचमिवांशुकम् ॥१६॥कचत्काञ्चनकान्तेन विमलालोककारिणा ।भुवनं भास्करेणेव भाति साधुः स्वतेजसा ॥१७॥तथानुगच्छति प्राज्ञः शास्त्रसाधुसमागमौ ।यथात्यन्तानुषङ्गेण तावेवानुभवत्यसौ ॥१८॥क्रमात्सज्जनतामेत्य शास्त्रार्थभरभावितः ।भाति भोगानधःकुर्वन्पञ्जरादिव निर्गतः ॥१९॥भोगाभिगमदौर्भाग्यं दिनानुदिनमुज्झता ।तेन तत्कुलमाभाति ताराचक्रमिवेन्दुना ॥२०॥अभोगकृपणा कापि न चैवास्य प्रवर्तते ।मुखे कान्तिरपूर्वैव चन्द्रे राहुमृते यथा ॥२१॥तृणीकृतत्रिजगतां महतामभिधेयताम् ।स याति कल्पविटपी नभसीव दिवौकसाम् ॥२२॥भोगानां द्वेषणेनान्तर्लज्जमानो मनस्यपि ।भोगानामप्यसंपत्त्या परमं परितुष्यति ॥२३॥स्वा एवोपहसत्यन्तस्तरुणीस्तरलक्रियाः ।खेदस्मेरमुखो जातीर्जातिस्मर इवाधमः ॥२४॥अथ तं द्रष्टुमायान्ति सौहार्देनैव साधवः ।भूमाविवोदितं चन्द्रं विस्मयोत्फुल्ललोचनाः ॥२५॥नित्यानादृतभोगोऽसौ ततोऽप्युचितया धिया ।प्राप्तमप्युचितारम्भं भोगं न बहुमन्यते ॥२६॥पूर्वं संसृतिवैरस्यमन्तरेवोदितात्मनः ।जायते जीर्णजाड्यस्य पाकादिव शरत्तरोः ॥२७॥ततः सज्जनसंपर्कमुदर्कश्रेयसे स्वयम् ।करोति स्वस्थतागृध्रुर्भिषगाश्रयणं यथा ॥२८॥तेनोदारमतिर्भूत्वा शास्त्रार्थेषु निमज्जति ।महान्महाप्रसन्नेषु सरःस्विव महागजः ॥२९॥सज्जनो हि समुत्तार्य विपद्भ्यो निकटस्थितम् ।नियोजयति संपत्सु स्वालोकेष्विव भास्करः ॥३०॥परस्वादानविरतिः पूर्वमेव प्रवर्तते ।विवेकिनो निजार्थेषु संतोषश्चोपजायते ॥३१॥परस्वादानविरतः संतोषामृतनिर्भरः ।विवेकी क्रमशः स्वार्थानप्युपेक्षितुमिच्छति ॥३२॥ददाति कणपिण्याकशाकाद्यपि हि याचते ।तेनैवाभ्यासयोगेन स्वमांसानि ददात्यसौ ॥३३॥नूनं विलयचित्तानां विवेकमनुधावताम् ।मौर्ख्यं लघुत्वमायाति धावतामिव गोष्पदम् ॥३४॥परार्थादानविरतिं पूर्वमभ्यस्य यत्नतः ।आहर्तव्या विवेकेन ततः स्वार्थेष्वरक्तता ॥३५॥ततो भोगनिरासेन सह स्वार्थनिराकृतिः ।परमायै सुविश्रान्त्यै क्रियते कृतिभिः क्रमात् ॥३६॥न तादृशं जगत्यस्मिन्दुःखं नरककोटिषु ।यादृशं यावदायुष्कमर्थोपार्जनशासनम् ॥३७॥आसने शयने याने गमने रमणे जने ।आधिचिन्तापरा एव ननु मूढा विदन्तु ताम् ॥३८॥नन्वर्था विततानर्थाः संपदः संततापदः ।भोगा भवमहारोगा विपरीतेन भाविताः ॥३९॥तावन्नायाति वैरस्यं चिन्ताविषयजृम्भणैः ।यावदर्थमहानर्थो न कदर्थार्थमर्थ्यते ॥४०॥अनुत्तमसुखं यस्मै चिराय परिरोचते ।जगत्तृणशिखादृष्ट्या सोऽर्थं पश्यतु शाम्यतु ॥४१॥भूरिभावविकाराणां जरामरणकर्मणाम् ।दैन्यदौरात्म्यदाहानामर्थः सार्थ इति स्मृतः ॥४२॥अस्मिञ्जगति जन्तूनां जरामरणशालिनाम् ।अजरामरणं कर्तुं संतोषोऽस्ति रसायनम् ॥४३॥वसन्तो नन्दनोद्यानमिन्दुरप्सरसः स्मृताः ।इत्येकतः समुदितं संतोषामृतमेकतः ॥४४॥सरसः प्रावृषेवान्तः संतोषेणैव पूर्णता ।गम्भीरां शीतलां हृद्यां प्रसन्नां रसशालिनीम् ॥४५॥साधुरोजस्वितामेत्य संतोषेणैव राजते ।सुपुष्पितवनाकारो वसन्तेनेव पादपः ॥४६॥पादपीठपरामर्शपिष्टकीटवदीहते ।दीनप्रकृतिरर्थार्थी दुःखाद्दुःखान्तरं व्रजेत् ॥४७॥कल्लोलविकलाः क्षुब्धसमुद्रपतिता इव ।नाप्नुवन्ति स्थितिं स्वस्थां विकृताकृतयोऽर्थिनः ॥४८॥संपद प्रमदाश्चैव तरङ्गोत्तुङ्गभङ्गुराः ।कस्तास्वहिफणच्छत्रच्छायासु रमते बुधः ॥४९॥अर्थोपार्जनरक्षाणां जानन्नपि कदर्थनाम् ।यः करोति स्पृहां मूढो नृपशुं तं न संस्पृशेत् ॥५०॥मनसो बाह्यमारम्भमान्तरं च लुनाति यः ।समं वैतृष्ण्यदात्रेण तस्य क्षेत्रं प्रकाशते ॥५१॥जगत्त्वमज्ञसंबुद्धं ज्ञो विदन्नसदेव यत् ।सतीव तत्र स्फुरति तदनभ्यासजृम्भितम् ॥५२॥संसारनिर्वेददशामुपेत्यसत्संगमं शास्त्रमुपेत्य तेन ।शास्त्रार्थभावेन निरस्य भोगा-न्वैतृष्ण्यदार्ढ्यात्परमार्थमेति ॥५३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाण० उ० मुमुक्षुप्रथमोपक्रमो नाम सप्तचत्वारिंशः सर्गः ॥४७॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP