संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ३१ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ३१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।सर्वात्मनि चिदाभासे तदेवाश्वनुभूयते ।संवेद्यते यदेवान्तरसत्यं वस्त्ववस्तु वा ॥१॥तदेवाभ्यासतः पूर्वं बाह्यार्थानुभवात्मना ।स्फुरतीव बहिष्ट्वेन स्वस्वप्नोऽत्र निदर्शनम् ॥२॥चिद्रूपं सर्वमेतच्च चिदच्छा गगनादपि ।चिच्चिनोति चिदेवातो नैतत्किंचन कुत्रचित् ॥३॥न नाशो नास्ति नानर्थो न जन्ममरणे न खम् ।न शून्यता न नानास्ति सर्वं ब्रह्मैव नैव च ॥४॥नाशे जगदहंत्वादेर्न किंचिदपि नश्यति ।असतः किल नाशोऽपि स्वप्नादेः किं नु नश्यति ॥५॥मिथ्यावभासे संकल्पनगरे कैव नष्टता ।तथा जगदहंत्वादौ नाशो नासति विद्यते ॥६॥कुतो जगदुपालम्भ इति चेत्तदवस्तुनि ।न निर्णयः संभवति खपुष्पाणां किमुच्यते ॥७॥निर्णय एष एवात्र यदशेषमभावयन् ।यथास्थितं यदाचारं पाषाण इव तिष्ठसि ॥८॥जगत्संकल्पमात्रात्म तत्र तेऽर्थयुतं क्षणात् ।शाम्यत्यशेषेणेत्येव निर्णयः सर्गविभ्रमे ॥९॥सर्गेऽनर्गल एवायं ब्रह्मात्मकतयाक्षयः ।अन्यथा तु न सर्गोऽयमस्ति नास्ति च सन्ति वा ॥१०॥येषां च विद्यते सर्गः स्वप्नपुंसामिवासताम् ।स सर्गः पुरुषास्ते च मृगतृष्णाम्बुवीचिवत् ॥११॥असतामेव सद्भावमिव येषामुपेयुषाम् ।न वयं निर्णयं विद्मो वन्ध्यापुत्रगिरामिव ॥१२॥परिपूर्णार्णवप्रख्या काप्यपूर्वैव पूर्णता ।तज्ज्ञानां द्रष्टृदृश्यांशदृष्टौ न हि पतन्ति ते ॥१३॥अचला इव निर्वाता दीपा इव समत्विषः ।साचारा वा निराचारास्तिष्ठन्ति स्वस्थमेव ते ॥१४॥आपूर्णैकार्णवप्रख्या काप्यन्तः पूर्णतोदिता ।अन्तःशीतलता ज्ञप्तिर्ज्ञस्यापूर्वैव लक्ष्यते ॥१५॥वासनैवेह पुरुषः प्रेक्षिता सा न विद्यते ।तां च न प्रेक्षते कश्चित्ततः संसार आगतः ॥१६॥अनालोकनसिद्धं यत्तदालोकान्न विद्यते ।कृष्णाद्यनुपलम्भोऽत्र दृष्टान्तः स्पष्टचेष्टितः ॥१७॥भूतानि देहमांसादि तच्चासद्विभ्रमो जडः ।बुद्ध्यहंकारचेतांसि तन्मयान्येव नेतरत् ॥१८॥भूतादिमयतां त्यक्त्वा बुद्ध्यहंकारचेतसाम् ।अत्यन्तं स्थितिरभ्येति यदि तन्मुक्ततोदिता ॥१९॥चिच्छ्लिष्टा चेत्यनिष्ठत्वात्तादृश्येवात्र कास्तिता ।तस्मात्केव कुतः कुत्र वासना किंस्वरूपिणी ॥२०॥यस्य चैष भ्रमः सोऽसन्प्रेक्षयासन्न लक्ष्यते ।मृगतृष्णाम्बुवत्तेन संसारः कस्य कः कुतः ॥२१॥तदेवं तर्हि तस्य स्यादिति चित्तोदयो हि यः ।पुनः स एव संसारविभ्रमः संप्रवर्तते ॥२२॥तस्मात्सर्वमनाश्रित्य व्योमवत्समुपास्यताम् ।अपुनःस्मरणं श्रेय इह विस्मरणं परम् ॥२३॥नेह द्रष्टा न भोक्तास्ति नाऽस्तिता न च नास्तिता ।यथास्थितमिदं शान्तमेकं स्पन्दि सदाब्धिवत् ॥२४॥सर्वं दृश्यं जगद्ब्रह्म सदित्यवगते स्फुटम् ।जलशोषादिवोदेति बिम्बबिम्बिक्षये शिवम् ॥२५॥शान्तताव्यवहारो वा रागद्वेषविवर्जितः ।विश्रान्तस्य परे तत्त्वे दृश्यते समदर्शिनः ॥२६॥अथवा शान्ततैवास्य निर्वाणस्यावशिष्यते ।निर्वासनः किल मुनिः कथं व्यवहरत्वसौ ॥२७॥यावत्त्वस्य न निर्वाणं परिपोषमुपागतम् ।तावद्व्यवहरत्यस्तरागद्वेषभयोदयः ॥२८॥वीतरागभयक्रोधो निर्वाणः शान्तमानसः ।शिलेवाप्यशिलीभूतो मुनिस्तिष्ठति नित्यशः ॥२९॥कोशेऽस्ति पद्मबीजस्य यथा सर्वाब्जिनी तथा ।अनन्या स्वप्नविभ्रान्तिरात्मन्यस्ति न बाह्यता ॥३०॥बाह्यताभावनाद्बाह्यमात्मैवात्मत्वभावनात् ।भवतीदं परे तत्त्वे भावनं तत्तदेव हि ॥३१॥यान्तः स्वप्नादिविभ्रान्तिः सैवेयं बाह्यतोदिता ।मनागप्यन्यता नात्र द्विभाण्डपयसोरिव ॥३२॥स्थैर्यास्थैर्ये तथैवात्र भ्रान्तिमात्रमये तते ।आधाराधेयते ते द्वे यथा जलतरङ्गते ॥३३॥स्वप्नादावात्मनोऽन्यत्वज्ञानादन्यत्ववेदनम् ।अनन्यतावबोधे तु तदनन्यन्न चोदयि ॥३४॥कलनारहितं शान्तं यद्रूपं परमात्मनः ।भवत्यसौ तत्तद्भावादतद्भावान्न तद्भवेत् ॥३५॥स्वप्नादिज्ञानसंशान्तौ यद्रूपं शुद्धमैश्वरम् ।न तदस्ति न तन्नास्ति न वाग्गोचरमेव तत् ॥३६॥आत्यन्तिकभ्रान्तिलये युक्त एवावगच्छति ।स्वरूपं नोपदेशस्य विषयो विदुषो हि तत् ॥३७॥शान्तं निरस्तभयमानविषादलोभ-मोहात्मदेहमननेन्द्रियचित्तजाड्यम् ।त्यक्त्वाहमक्षयमपास्तसमस्तभेदंनिर्वाणमेकमजमासितुमेव युक्तम् ॥३८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० निर्वाणयुक्त्युपदेशवर्णनं नामैकत्रिंशः सर्गः ॥३१॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP