संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १६३

निर्वाणप्रकरणं - सर्गः १६३

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
विनेन्द्रियजयेनेदं नाज्ञत्वमुपशाम्यति ।
तदिन्द्रियाणि जीयन्ते कथं कथय मे मुने ॥१॥
श्रीवसिष्ठ उवाच ।
न च प्रभूतभोगेषु न पुंस्त्वे न च जीविते ।
न चेन्द्रियजयोन्मुक्तौ दीपस्तनुदृशो यथा ॥२॥
तदिन्द्रियजये युक्तिमिमामविकलां श्रृणु ।
सिद्धिमेति स्वयत्नेन सुखेन तनुरेतया ॥३॥
चिन्मात्रं पुरुषं विद्धि चेतनाज्जीवनामकम् ।
यच्चेतति स जीवोऽन्तस्तन्मयो भवति क्षणात् ॥४॥
संवित्प्रयत्नसंबोधनिशिताङ्कुशकर्षणैः ।
मनोमतङ्गजं मत्तं जित्वा जयति नान्यथा ॥५॥
चित्तमिन्द्रियसेनाया नायकं तज्जयाज्जयः ।
उपानद्गूढपादस्य ननु चर्मावृतैव भूः ॥६॥
संविदं संविदाकाशे संरोप्य हृदि तिष्ठतः ।
स्वयमेव मनः शाम्येन्नीहार इव शारदः ॥७॥
स्वसंविद्यत्नसंरोधाद्यथा चेतः प्रशाम्यति ।
न तथाङ्ग तपस्तीर्थविद्यायज्ञक्रियागणैः ॥८॥
यच्च संवेद्यते किंचित्तत्तत्संविदि संविदा ।
नूनं विस्मार्यते यत्नाद्भोगानामिति तज्जयः ॥९॥
स्वसंवेदनयत्नेन विषयामिषतोऽनिशम् ।
किंचित्संरोधिता संवित्तत्प्राप्तं वैबुधं पदम् ॥१०॥
स्वधर्मव्यवहारेण यदायाति तदेव मे ।
रोचते नान्यदित्येव पदे वज्रदृढीभव ॥११॥
संवित्प्रवृत्तिमर्थेषु विरुद्धेषु विवर्जयन् ।
अर्जयञ्छमसंतोषौ यः स्थितः स जितेन्द्रियः ॥१२॥
संविद्रसिकतास्वन्तस्तथा नीरसतासु च ।
यस्य नोद्वेगमायाति मनस्तस्योपशाम्यति ॥१३॥
संवित्प्रयत्नसंरोधान्मनः स्वायनमुज्झति ।
चेतश्चपलतोन्मुक्तं विवेकमनुधावति ॥१४॥
विवेकवानुदारात्मा विजितेन्द्रिय उच्यते ।
वासनावीचिवेगेन भवाब्धौ न स मुह्यते ॥१५॥
साधुसंपर्कसच्छास्त्रसमालोकनतोऽनिशम् ।
जितेन्द्रियो यथावस्तु जगत्सत्यं प्रपश्यति ॥१६॥
सत्यावलोकनाच्छान्तिमेति संसारसंभ्रमः ।
मराविव जलज्ञानं मिथ्यापतनदुःखदम् ॥१७॥
अचेत्यमेव चिन्मात्रमिदं जगदिति स्थितम् ।
इत्येव सत्यबोधस्य बन्धमोक्षदृशौ कुतः ॥१८॥
अनाकारं यथा वारि क्षीणं वहति नो पुनः ।
अकारणं तथा दृश्यं ज्ञानच्छिन्नं न रोहति ॥१९॥
वेदनं व्योममात्रं त्वमहमित्यादिरूपधृक् ।
वर्जयित्वैतदन्यत्स्यादहमित्यादिकं जगत् ॥२०॥
अविद्यामात्रमेवेदमहमित्यादिकं जगत् ।
चिद्व्योम्न्येव स्थितं शान्तं शून्यमात्रशरीरकम् ॥२१॥
इदं चिद्व्योम्नि चिच्छाया जगदित्येव भासते ।
शून्यशून्यैव चिच्चासौ शून्या चेत्येव निश्चयः ॥२२॥
स्वप्नदर्शनदृष्टान्तः केन नामात्र खण्ड्यते ।
असन्मयोऽनुभूतश्च स्वानुभूतोऽप्यसन्मयः ॥२३॥
सोऽङ्ग संवित्तिमात्रात्मा यद्यद्राज्यं महीयते ।
नकर्तृकर्मकरणं रूपं तद्वज्जगच्चितेः ॥२४॥
अकर्तृकर्मकरणमहं चिद्धनमात्रकम् ।
जगच्चेदमनिर्देश्यं स्वसंवेदनलक्षणम् ॥२५॥
यथा स्वप्नेषु मरणमनुभूतं न विद्यते ।
मरौ जलेच्छाऽविद्येयं विद्यमाना न विद्यते ॥२६॥
चिद्व्योम्ना काचकच्यं स्वं सर्गादौ व्योम्नि चेतितम् ।
जगदित्येव निर्मूलं काकतालीयवत्स्वयम् ॥२७॥
निर्मूलमेव भातीदमभातमपि भातवत् ।
तस्माद्यद्भासुरमिदं तत्तदेव पदं विदुः ॥२८॥
जीवादिकचनं त्वत्र यद्भातीदं तदेव तत् ।
शून्यतैव भवेद्व्योम वार्येवावर्तवृत्तयः ॥२९॥
यथावयविनो रूपमेकं सावयवं भवेत् ।
एकं जीवाद्यवयवं ब्रह्मानवयवं तथा ॥३०॥
आभासमात्रं दृश्यात्म चिन्मात्रं शान्तमव्ययम् ।
स्थितमास्थाः किमेतस्मिन्स्वभावे स्वे विचार्यते ॥३१॥
नाद्यन्तमन्तःकलनाः काश्चित्सन्ति परे पदे ।
तद्रूपमेवाविद्येयं नाविद्या त्विह विद्यते ॥३२॥
जीवः स्वप्नाद्विशञ्जाग्रज्जाग्रतः स्वप्नमाविशन् ।
प्रबुद्धो वास्त्वबुद्धो वाप्येकरूपतया स्थितः ॥३३॥
स्थिते सुषुप्ततुर्ये द्वे सदा स्वप्नेऽथ जाग्रति ।
जाग्रत्स्वप्नावेकमेव तुर्यं वेत्ति तु बुद्धधीः ॥३४॥
जाग्रत्स्वप्नः सुषुप्तं च सर्वं तुर्यं प्रबोधिनः ।
नाविद्या विद्यते तस्य द्वयस्थोऽप्येव सोऽद्वयः ॥३५॥
द्वैतमद्वैतमित्येतदहंत्वमिदमित्यपि ।
निरविद्यस्य कलना कुतः काप्यम्बरं कुतः ॥३६॥
द्वैताद्वैतसमुद्भेदैर्वाक्यसंदर्भविभ्रमैः ।
क्रीडन्त्यबुद्धाः शिशवो बोधवृद्धा हसन्ति तान् ॥३७॥
द्वैताद्वैतविवादेहा हृदयाकाशमञ्जरी ।
विनैतयेह नोदेति प्रबोधाकाशमार्जनम् ॥३८॥
सुहृद्भूत्वा विवादेन द्वैताद्वैतविचारणा ।
कृता हृदयगेहेऽन्तरविद्याभस्ममार्जनी ॥३९॥
तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च ॥४०॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
जायते बुद्धियोगोऽसौ येन ते यान्ति तत्पदम्॥४१॥
किलोपकुरुते यत्नात्तृणमात्रावगोपने ।
कथं सिध्यत्ययत्नेन त्रैलोक्यगणगोपनम् ॥४२॥
अध्यात्मव्यसनोन्मुक्तं ततं हृत्स्थाऽधमाऽप्रभु ।
उपहासास्पदं यस्या जगदप्युत्तमस्थितेः ॥४३॥
किं नामेदं किल सुखं यद्राज्यादिमनोङ्कुरम् ।
तत्त्वज्ञानैकविश्रान्तौ देवराजपदं तृणम् ॥४४॥
सुप्ताः प्रबुद्धाः पश्यन्ति दृश्यं दृश्ये रता यथा ।
तथा दृश्येऽरताः शान्ताः सन्तः पश्यन्ति तत्पदम् ॥४५॥
विना यत्नभरेणेदं न कदाचन सिद्ध्यति ।
महतोऽभ्यासवृक्षस्य फलं विद्धि परं पदम् ॥४६॥
इदं बहूक्तमेतेन किमेतेनेति दुर्मतिः ।
न ग्राह्यैतावताप्युक्ते नादत्ते नेदमज्ञधीः ॥४७॥
भूयोभूयः परावृत्त्या चिरमास्वाद्यते यदि ।
श्रूयते कथ्यते चेदं तज्ज्ञेनाज्ञेन भूयते ॥४८॥
यस्त्वेकवारमालोक्य दृष्टमित्येव संत्यजेत् ।
इदं स नाम शास्त्रेभ्यो भस्माप्याप्नोति नाधमः ॥४९॥
इदमुत्तममाख्यानमध्येयं वेदवत्सदा ।
व्याख्येयं पूजनीयं च पुरुषार्थफलप्रदम् ॥५०॥
यदस्मात्प्राप्यते शास्त्रात्तत्तद्वेदादवाप्यते ।
अस्मिन्ज्ञाते क्रिया ज्ञानं द्वयं याति पवित्रताम् ॥५१॥
वेदान्ततर्कसिद्धान्तस्त्वस्मिन्ज्ञाते च बुध्यते ।
इदमुत्तममाख्यानं व्याख्यातं शास्त्रदृष्टिषु ॥५२॥
कारुण्याद्भवतामेतदहं वच्मि न मायया ।
भवन्तस्त्ववगच्छन्ति मायामेतद्विचार्यताम् ॥५३॥
अस्माच्छास्त्रवराद्वोधा जायन्ते ये विचारितात् ।
लवणैर्व्यञ्जनानीव भान्ति शास्त्रान्तराणि तैः ॥५४॥
अनार्यमिदमाख्यानमित्यनादृत्य दृश्यधीः ।
मा भवंत्वात्महन्तारो भवन्तो भवभागिनः ॥५५॥
तातस्य कूपोऽयमिति ब्रुवाणाः
क्षारं जलं कापुरुषाः पिबन्ति ।
यथा भवन्तो विविचारवन्त-
स्तथानिशं मा भवताज्ञताप्त्यै ॥५६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निवा० उ० इन्द्रियजयोपायशास्त्रवर्णनं नाम त्रिषष्ट्यधिकशततमः सर्गः ॥१६३॥

N/A

References : N/A
Last Updated : October 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP