संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ७२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ७२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथाकृष्टवति प्राणान्स्वयंभुवि नभोभवः ।विराडात्मनि तत्याज वातस्कन्धस्थितः स्थितिम् ॥१॥ते हि तस्य किल प्राणास्तेन क्रान्तेषु तेष्वपि ।ऋक्षचक्रे स्थितिं कोऽन्यो धत्ते भूतैकधारिणीम् ॥२॥वातस्कन्धे समाक्रान्ते ब्रह्मणा प्राणमारुते ।समं गन्तुं परित्यज्य संस्थितिं क्षोभमागते ॥३॥निराधाराः सवाताग्निदाहोल्मुकवदापतन् ।व्योम्नस्तारास्तरोः पुष्पनिकरा इव भूतले ॥४॥कालपाकचलन्मूला जगत्खण्डफलालयाः ।प्रशान्तपवनाधारा विमानावलयोऽपतन् ॥५॥प्रलयोन्मुखतां याते ब्राह्मे संकल्पनेन्धने ।सिद्धानां गतयः शेमुरिद्धानामर्चिषामिव ॥६॥प्रभ्रमन्त्योऽम्बरे कल्पमारुतैस्तनुतूलवत् ।स्वशक्त्यपचये मूकाः सिद्धसंततयोऽपतन् ॥७॥संकल्पद्रुमजालानि सेन्द्रादिनगराणि च ।पेतुर्भूकम्पलोलस्य शिरांस्यमरभूभृतः ॥८॥श्रीराम उवाच ।चिति संकल्पमात्रात्मा विराड् ब्रह्मा जगद्वपुः ।किमङ्गं तस्य भूलोकः किं स्वर्गः किं रसातलम् ॥९॥कथमेतानि चाङ्गानि ब्रह्मंस्तस्य स्थितानि च ।कथं वा सोऽन्तरे तस्य स्वस्यैव वपुषः स्थितः ॥१०॥ब्रह्मा संकल्पमात्रात्मा निराकृतिरिदं स्थितम् ।जगदित्येव जातो मे निश्चयः कथयेतरत् ॥११॥श्रीवसिष्ठ उवाच ।आदौ तावदिदं नासन्न सदास्ते निरामयम् ।चिन्मात्रपरमाकाशमाशाकोशैकपूरकम् ॥१२॥तत्स्वामाकाशतां चैतच्चेत्यमित्यवबुध्यते ।स्वरूपमत्यजन्नित्यं चित्त्वाद्भवति चेतनम् ॥१३॥विद्धि तच्चेतनं जीवं सघनत्वान्मनः स्थितम् ।एतावति स्थितिजाले न किंचित्साकृति स्थितम् ॥१४॥शुद्धं व्योमैव चिद्व्योम स्थितमात्मनि पूर्ववत् ।यदेतत्प्रतिभातं तु तदन्यत्र शिवात्ततः ॥१५॥अथ तन्मन आभोगि भाविताहंकृति स्फुरत् ।संकल्पात्मकमाकाशमास्ते स्तिमितमक्षयम् ॥१६॥तत्संकल्पचिदाभासनभोऽहमिति भावितम् ।असत्तमेवानुभवत्संनिवेशं खमेव खे ॥१७॥वेत्ति भावितमाकारं पश्यत्यनुभवत्यपि ।संकल्पकात्मकं शून्यमेव देह इति स्थितम् ॥१८॥शून्यमेव यथाकारि संकल्पनगरं भवान् ।पश्यत्येवमजो देहं खे खमेवानुभूतवान् ॥१९॥संविदो निर्मलत्वात्स यावदित्थं तथाविधम् ।अनुभूयानुभवनं स्वेच्छयैवोपशाम्यति ॥२०॥यदा तत्त्वपरिज्ञानमस्मदादेस्तदाऽऽततम् ।इदं संसरणं विद्धि शून्यं सत्यमिव स्थितम् ॥२१॥यथाभूतपरिज्ञानादत्र शाम्यति वासना ।अद्वैतान्निरहंकारात्ततो मोक्षोऽवशिष्यते ॥२२॥एवमेष स यो ब्रह्मा स एवेदं जगत्स्थितम् ।विराजो ब्रह्मणो राम देहो यस्तदिदं जगत् ॥२३॥संकल्पाकाशरूपस्य तस्य या भ्रान्तिरुत्थिता ।तदिदं जगदाभाति तद्ब्रह्माण्डमुदाहृतम् ॥२४॥सर्वमाकाशमेवेदं संकल्पकलनात्मकम् ।वस्तुतस्त्वस्ति न जगत्त्वत्तामत्ते न च क्वचित् ॥२५॥क्वचिन्मात्रेऽमले व्योम्नि कथं वा केन वा जगत् ।किं जायते किमत्रास्ति कारणं सहकारि यत् ॥२६॥अतोऽलीकमिदं जातमलीकं परिदृश्यते ।अलीकं स्वदतेऽलोकमेवं पश्यति शून्यकम् ॥२७॥जगदादिकया भासा चिन्मात्रं स्वदते स्वतः ।आत्मनात्माम्बरे द्वैते स्पन्दनेनेव मारुतः ॥२८॥इदं किंचिन्न किंचिद्वा द्वैताद्वैतविवर्जितम् ।चिदाकाशं जगद्विद्धि शून्यमच्छं निरामयम् ॥२९॥शान्ताशेषविशेषोऽहं तेन राघव संस्थितः ।सन्नेवासन्निवातस्त्वमेवमेवास्व निर्ममः ॥३०॥निर्वासनः शान्तमना मौनी विगतचापलः ।सर्वं कुरु यथाप्राप्तं कुरु मा वात्र किं ग्रहः ॥३१॥अनादिनित्यानुभवो य एकःस एव दृश्यं न तु दृश्यमन्यत् ।सत्यानुभूतेऽननुभूतयो याःसुविस्तृता दृश्यमहादृशस्ताः ॥३२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उ० पाषा० निर्वाणवर्णनं नाम द्विसप्ततितमः सर्ग ॥७२॥ N/A References : N/A Last Updated : September 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP