संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १९० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १९० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १९० Translation - भाषांतर श्रीवसिष्ठ उवाच ।ज्ञानस्य ज्ञेयतापत्तिर्बन्ध इत्यभिधीयते ।तस्यैव ज्ञेयताशान्तिर्मोक्ष इत्यभिधीयते ॥१॥श्रीराम उवाच ।ज्ञानस्य ज्ञेयताशान्तिः कथं ब्रह्मन्प्रवर्तते ।सा रूढा बन्धताबुद्धिः कथं वात्र निवर्तते ॥२॥श्रीवसिष्ठ उवाच ।सम्यग्ज्ञानेन बोधेन मन्दबुद्धिर्निवर्तते ।निराकारा निजा शान्ता मुक्तिरेवं प्रवर्तते ॥३॥श्रीराम उवाच ।बोधः केवलतारूपः सम्यग्ज्ञानं किमुच्यते ।येन बन्धादयं जन्तुरशेषेण विमुच्यते ॥४॥श्रीवसिष्ठ उवाच ।ज्ञानस्य ज्ञेयता नास्ति केवलं ज्ञानमव्ययम् ।अवाच्यमितिबोधोन्तः सम्यग्ज्ञानमितिस्मृतम् ॥५॥श्रीराम उवाच ।ज्ञानस्य ज्ञेयता भिन्ना त्वन्तः केति मुने वद ।उत्पाद्यो ज्ञानशब्दश्च भावे वा करणेऽथ किम् ॥६॥श्रीवसिष्ठ उवाच ।बोधमात्रं भवेज्ज्ञानं भावसाधनमात्रकम् ।न ज्ञानज्ञेययोर्भेदः पवनस्पन्दयोरिव ॥७॥श्रीराम उवाच ।एवं चेत्तत्कथमयं ज्ञानज्ञेयादिविभ्रमः ।सिद्धः शशविषाणाभो भविष्यद्भूतभव्यशः ॥८॥श्रीवसिष्ठ उवाच ।बाह्यार्थभ्रान्तितो ज्ञेया भ्रमबुद्धिरिहोदिता ।बाह्यश्चाभ्यन्तरश्चार्थो न संभवति कश्चन ॥९॥श्रीराम उवाच ।योऽयं प्रत्यक्षदृश्योऽर्थो मुने त्वमहमादिकः ।भूतादिरनुभूतात्मा स कथं नास्ति मे वद ॥१०॥श्रीवसिष्ठ उवाच ।आदिसर्गविधावेव विराडात्मादिकोऽनघ ।जातो न कश्चिदेवार्थो ज्ञेयस्यातो न संभवः ॥११॥श्रीराम उवाच ।भविष्यद्भूतभव्यस्था जगद्दृष्टिरियं मुने ।नित्यानुभूयमानापि न जातेति किमुच्यते ॥१२॥श्रीवसिष्ठ उवाच ।स्वप्नार्थमृगतृष्णाम्बुद्वीन्दुसंकल्पितार्थवत् ।मिथ्या जगदहंत्वं च भाति केशोण्ड्रकं यथा ॥१३॥श्रीराम उवाच ।अहं त्वमयमित्यादिजगज्जठरमप्यलम् ।कथं न जातं भगवन्सर्गादावनुभूतिमत् ॥१४॥श्रीवसिष्ठ उवाच ।कारणाज्जायते कार्यं नान्यथेत्येव निश्चयः ।सर्वोपशान्तौ जगतामुत्पत्तौ नास्ति कारणम् ॥१५॥श्रीराम उवाच ।महाप्रलयसंपत्तौ शिष्टं यदजमव्ययम् ।तत्कथं नाम सर्गस्य न भवेत्कारणं मुने ॥१६॥श्रीवसिष्ठ उवाच ।यदस्ति कारणे कार्यं तत्तस्मात्संप्रवर्तते ।न त्वसज्जायते राम न घटाज्जायते पटः ॥१७॥श्रीराम उवाच ।जगत्सूक्ष्मेण रूपेण महाप्रलय आगते ।आस्ते ब्रह्मणि तत्तस्मात्पुनरेव प्रवर्तते ॥१८॥श्रीवसिष्ठ उवाच ।महाप्रलयपर्यन्ते केन सर्गास्तितानघ ।अनुभूता महाबुद्धे तत्रस्था सा च कीदृशी ॥१९॥श्रीराम उवाच ।ज्ञप्त्यात्मिका श्रीस्तत्रस्था तादृशेरनुभूयते ।व्योमात्मिका तु न भवेन्न सत्तामसदेति हि ॥२०॥श्रीवसिष्ठ उवाच ।एवं चेत्तन्महाबाहो ज्ञप्तिरेव जगत्त्रयम् ।विशुद्धज्ञानदेहस्य कुतो मरणजन्मनी ॥२१॥श्रीराम उवाच ।तदेवमादितो नास्ति सर्गस्तदियमागता ।कुतः कथमिव भ्रान्तिरिति मे भगवन्वद ॥२२॥श्रीवसिष्ठ उवाच ।कार्यकारणताभावाद्भावाभावौ स्त एव नो ।इदं च चेत्यते यद्यत्स्वात्मा चेतति चेतितम् ॥२३॥श्रीराम उवाच ।चेतिता चेतति यन्त्रं द्रष्टा दृश्यत्वमीश्वरः ।कथमेति कथं वह्निं दहेत्काष्ठं कदा किल ॥२४॥श्रीवसिष्ठ उवाच ।द्रष्टा न याति दृश्यत्वं दृश्यस्यासंभवादतः ।द्रष्टैव केवलो भाति सर्वात्मैकघनाकृतिः ॥२५॥श्रीराम उवाच ।चिन्मात्रं तदनाद्यन्तं चेत्यं चेतयते तदा ।तदिदं जगदाभानं कुतः स्याच्चेत्यसंभवः ॥२६॥श्रीवसिष्ठ उवाच ।चेत्यं हि कारणाभावान्न संभवति किंचन ।चेत्याभावाच्चेतनस्य मुक्तताऽवाच्यता सदा ॥२७॥श्रीराम उवाच ।एवं चेत्तदहन्तादि चेत्यं कथमिदं कुतः ।कथं जगद्वेदनं च कथं स्पन्दादिवेदनम् ॥२८॥श्रीवसिष्ठ उवाच ।कारणासंभवादादावेवोत्पन्नं न किंचन ।कुतश्चेत्यमतः शान्तं सर्वं सर्गस्तु विभ्रमः ॥२९॥श्रीराम उवाच ।अत्र मे विगतोल्लेखे निश्चेत्यचलनादिके ।सकृद्विभाते विमले विभ्रमः कस्य कीदृशः ॥३०॥श्रीवसिष्ठ उवाच ।कारणाभावतो राम नास्त्येव खलु विभ्रमः ।सर्वं त्वमहमित्यादि शान्तमेकमनामयम् ॥३१॥श्रीराम उवाच ।ब्रह्मन्भ्रममिवापन्नः प्रष्टुं जानामि नाधिकम् ।नात्यन्तं च प्रबुद्धोऽस्मि पृच्छामि किमिहाधुना ॥३२॥श्रीवसिष्ठ उवाच ।कारणस्यैव निकषं पृच्छ माऽऽकारणक्षयात् ।परे स्वभावेऽनिर्वाच्ये स्वयं विश्रान्तिमैष्यसि ॥३३॥श्रीराम उवाच ।मन्येऽहं कारणाभावात्पूर्वमेव न सर्गता ।उदिता तेन कस्यायं चेत्यचेतनविभ्रमः ॥३४॥श्रीवसिष्ठ उवाच ।अकारणत्वात्सर्वत्र शान्तत्वाद्भ्रान्तिरस्ति नो ।अनभ्यासवशादेव न विश्राम्यति केवलम् ॥३५॥श्रीराम उवाच ।कुतो भवेदनभ्यासो भवेदभ्यसनं कुतः ।कुतोऽभ्यासात्मिका भ्रान्तिरेषा पुनरुपस्थिता ॥३६॥श्रीवसिष्ठ उवाच ।अनन्तत्वादनन्तस्य भ्रान्तिर्नास्ति च संप्रति ।अभ्यासभ्रान्तिरखिलं महाचिद्धनमक्षतम् ॥३७॥श्रीराम उवाच ।उपदेश्योपदेशादावनया शब्दसंपदा ।किमन्यद्वद मे ब्रह्मन्सर्वस्मिञ्छान्ततां गते ॥३८॥श्रीवसिष्ठ उवाच ।उपदेश्योपदेशात्म ब्रह्म ब्रह्मणि संस्थितम् ।बोधात्मनि न मोक्षोऽस्ति न बन्धोऽस्तीति निश्चयः ॥३९॥श्रीराम उवाच ।देशकालक्रियाद्रव्यभेदवेदनचेतसाम् ।सर्वस्यासंभवे सर्वसत्ता कथमुपस्थिता ॥४०॥श्रीवसिष्ठ उवाच ।देशकालक्रियाद्रव्यभेदवेदनचेतसाम् ।अज्ञानमात्रादितरा सत्ता नान्यास्ति नो पुरा ॥४१॥श्रीराम उवाच ।बोध्यबोधकतापत्तेरभावाद्वोधता कथम् ।द्वैतैक्यासंभवे ब्रह्मत्कारणासंभवे सति ॥४२॥श्रीवसिष्ठ उवाच ।बोधेन बोधतामेति बोधशब्दस्तु बोध्यताम् ।भवद्विषयमेवायमुचितो नास्मदादिषु ॥४३॥श्रीराम उवाच ।बोध एव यदाहंत्वमेति बोधान्यता तदा ।कुत एषा परेऽनन्ते नासावतिजलेऽमले ॥४४॥श्रीवसिष्ठ उवाच ।यत्तद्वोधस्य बोधत्वं तदेवाहंत्वमुच्यते ।द्वित्वमत्रानिलस्पन्ददृशोरिव निगद्यते ॥४५॥श्रीराम उवाच ।सौम्याब्ध्यन्तस्तरङ्गादिर्यथादत्ते यथास्थितम् ।तथा स्वरूपमात्रात्म बोध्यं बोधोऽवबुद्धवान् ॥४६॥श्रीवसिष्ठ उवाच ।एवं चेत्तत्कथं कः स्याद्दोषो द्वित्वादिदोषतः ।अनन्ते स्थित एकस्मिञ्छान्ते पूर्णे परे पदे ॥४७॥श्रीराम उवाच ।कोऽत्र कल्पयिताहंत्वं भुङ्क्ते भोक्ता च कश्च वा ।यन्मूलं यज्जगद्भ्रान्तिरनन्ता प्रविजृम्भते ॥४८॥श्रीवसिष्ठ उवाच ।ज्ञेयसत्तावबोधे हि बन्धनं सच्च नास्त्यलम् ।ज्ञप्तेः सर्वार्थरूपत्वाद्वन्धभोक्षावतः कुतः ॥४९॥श्रीराम उवाच ।ज्ञप्तेर्बाह्यार्थता दीपान्नीलादीव प्रवर्तते ।बाह्यस्त्वर्थोऽस्ति सद्रूपो ननु दृष्टोपलम्भनः ॥५०॥श्रीवसिष्ठ उवाच ।अकारणस्य कार्यस्य बाह्यस्यार्थस्य सत्यता ।येयं सा भ्रान्तिमात्रात्मरूपिणी नेतराङ्गिका ॥५१॥श्रीराम उवाच ।स्वप्नः सत्योऽस्त्वसत्यो वा दुःखं तावत्प्रयच्छति ।तथैवेयं जगद्भ्रान्तिः क उपायोऽत्र कथ्यताम् ॥५२॥श्रीवसिष्ठ उवाच ।एवं तावद्यथा स्वप्नस्तथेयं चेज्जगत्स्थितिः ।तत्पिण्डग्रहतार्थानां सर्वैव भ्रान्तितोदिता ॥५३॥श्रीराम उवाच ।किमेतावति संपन्ने संपन्नं भवति प्रियम् ।कथं च शाम्यत्यर्थानां स्वप्नादौ पिण्डरूपता ॥५४॥श्रीवसिष्ठ उवाच ।पूर्वापरपरामर्शात्पिण्डतार्थेषु शाम्यति ।स्वप्नेऽप्येवं स्थिते स्थूला भावना विनिवर्तते ॥५५॥श्रीराम उवाच ।भावना तनुतां याता यस्यासौ किं प्रपश्यति ।कथं शाम्यति तस्यायं संसारकुहरभ्रमः ॥९५॥श्रीवसिष्ठ उवाच ।उद्धृस्तमसदाभासमुत्पन्ननगरोपमम् ।वर्षप्रोन्मृष्टचित्राभं जगत्पश्यत्यवासनः ॥५७॥श्रीराम उवाच ।ततः किं तस्य भवति वासनातानवे स्थिते ।पिण्डग्रहे गतेऽर्थानां स्वप्नोपमजगत्स्थितेः ॥५८॥श्रीवसिष्ठ उवाच ।संकल्परूपजगतः क्रमात्सापि विलीयते ।वासना तस्य तेनाशु स निर्वाति विवासनः ॥५९॥श्रीराम उवाच ।अनेकजन्मसंरूढा शाखा प्रसवशालिनी ।भवबन्धकरी घोरा कथं शाम्यति वासना ॥६०॥श्रीवसिष्ठ उवाच ।यथाभूतार्थविज्ञानाद्भ्रान्तिमात्रात्मनि स्थिते ।पिण्डग्रहवियुक्तेऽस्मिन्दृश्यचक्रे क्रमात्क्षयः ॥६१॥श्रीराम उवाच ।पिण्डग्रहविमुक्तेऽस्मिन्दृश्यचक्रे क्रमान्मुने ।संपद्यते किमपरं कथं शान्तिः प्रजायते ॥६२॥श्रीवसिष्ठ उवाच ।पिण्डग्रहभ्रमे शान्ते चित्तमात्रात्मतां गते ।निरोधगौरवोन्मुक्ते जगत्यास्थोपशाम्यति ॥६३॥श्रीराम उवाच ।बालसंकल्परूपेऽस्मिन्स्थिते जगति भासुरे ।कथमास्थोपशमनं तादृग्दुःखाय किं नरः ॥६४॥श्रीवसिष्ठ उवाच ।संकल्पमात्रसंपन्ने नष्टे दुःखं कथं भवेत् ।संकल्पचित्तमात्रं यत्तत्तावत्प्रविचार्यताम् ॥६५॥श्रीराम उवाच ।कीदृशं भगवंश्चित्तं कथं तत्प्रविचार्यते ।किं च संपद्यते ब्रूहि तस्मिन्सम्यग्विचारिते ॥६६॥श्रीवसिष्ठ उवाच ।चितश्चेत्योन्मुखत्वं यत्तच्चित्तमिति कथ्यते ।विचार एष एवास्य वासनानेन शाम्यति ॥६७॥श्रीराम उवाच ।कियन्नाम भवेद्वह्मन्न चेत्योन्मुखता चितेः ।चित्तस्याचित्ततोदेति कथं निर्वाणकारिणी ॥६८॥श्रीवसिष्ठ उवाच ।चेत्यं न संभवत्येव चित्किं चेतयते कुतः ।चेत्यासंभवतश्चित्तसत्ता नास्ति ततश्चिरम् ॥६९॥श्रीराम उवाच ।कथं न संभवत्येतच्चेत्यं यदनुभूयते ।अपह्नवश्चानुभवे क्रियते कथमीदृशः ॥७०॥श्रीवसिष्ठ उवाच ।यादृक्स्यादज्ञविषयं जगत्तस्य न सत्यता ।यादृक्व तज्ज्ञविषयं तदनाख्यं यदद्वयम् ॥७१॥श्रीराम उवाच ।त्रिजगत्कीदृगज्ञानां कथं तस्य न सत्यता ।तज्ज्ञानां तु जगद्यादृक्तद्वक्तुं किं न युज्यते ॥७२॥श्रीवसिष्ठ उवाच ।आद्यन्तद्वैतमज्ञानां तज्ज्ञानां तन्न विद्यते ।जगच्च नो संभवति नित्यानुत्पन्नमादितः ॥७३॥श्रीराम उवाच ।आदितो यदनुत्पन्नं न संभवति कर्हिचित् ।असद्रूपमनाभासं कथं तदनुभूयते ॥७४॥श्रीवसिष्ठ उवाच ।असदेव सदाभासमनुत्पन्नमकारणम् ।जाग्रत्स्वप्नवदुद्भूतमर्थकृच्चानुभूयते ॥७५॥श्रीराम उवाच ।स्वप्नादौ कल्पनादौ च यद्दृश्यमनुभूयते ।तज्जाग्रद्रूपसंस्कारादनुष्ठानानुभूतितः ॥७६॥श्रीवसिष्ठ उवाच ।किं जाग्रद्रूपमाहोस्विदन्यत्स्वप्नेऽनुभूयते ।संकल्पे च मनोराज्ये इति मे वद राघव ॥७७॥श्रीराम उवाच ।स्वप्नेषु कल्पनाद्येषु जाग्रदेवावभासते ।संस्कारात्मतया नित्यं मनोराज्यभ्रमेषु च ॥७८॥श्रीवसिष्ठ उवाच ।तदेव जाग्रत्संस्कारात्स्वप्नश्चेदवभासते ।तत्स्वप्ने लुठितं गेहं कथं प्रातरवाप्यते ॥७९॥श्रीराम उवाच ।न जाग्रद्राजते स्वप्ने तद्ब्रह्मान्यत्तदेव हि ।बुद्धमेतत्कथं त्वन्यदपूर्वमिव भासते ॥८०॥श्रीवसिष्ठ उवाच ।नानुभूतोऽनुभूतश्च चेतस्यर्थोऽवभासते ।सर्गाद्यन्तादिमध्येषु स्वभ्यस्तस्त्विति भासते ॥८१॥श्रीराम उवाच ।एवं स्वप्नात्मकं भाति जगदित्येव बुद्धवान् ।ग्रहवत्स्वप्नयक्षोऽयं कथं ब्रह्मंश्चिकित्स्यते ॥८२॥श्रीवसिष्ठ उवाच ।योऽयं संसरणस्वप्नः स किंकारणको भवेत् ।कार्यान्न कारणं भिन्नमिति दृष्टं विचारय ॥८३॥श्रीराम उवाच ।चित्तं स्वप्नोपलम्भानां हेतुस्तस्मात्तदेव ते ।विश्वं चाद्यन्तरहितमनासारमनामयम् ॥८४॥श्रीवसिष्ठ उवाच ।एवं चित्तं महाबुद्धे महाचिद्धनमेव तत् ।तथास्थितं न स्वप्नादि किंचनास्तीतरात्मकम् ॥८५॥श्रीराम उवाच ।अवयवावयविनोर्यथा भिन्नस्तथा स हि ।तत्रानवयवे ब्रह्मण्येकता जगदादिना ॥८६॥श्रीवसिष्ठ उवाच ।एवं न संभवत्येव नित्यानुत्पन्नमादितः ।जगत्तेनाजरं शान्तमजं सर्वमवेधितम् ॥८७॥श्रीराम उवाच ।काकतालीयवन्मन्ये सर्गाद्यन्तादयो भ्रमाः ।भ्रान्तिद्रष्टृत्वभोक्तृत्वसहिताः परमे पदे ॥८८॥श्रीवसिष्ठ उवाच ।या व्यापारवती रसाद्रसविदां काचित्कवीनां नवादृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।ते द्वे अप्यवलम्ब्य विश्वमखिलं निर्वर्णितं निर्वृतंयावद्दृष्टिदृशो न सन्ति कलिता नौ शून्यता नो भ्रमः ॥८९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० रामविश्रान्तिर्नाम नवत्यधिकशततमः सर्गः ॥१९०॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP