संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १७२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १७२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १७२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं पृथ्व्यादिरहितः खमेवाद्यः प्रजापतिः ।मनोमात्रमहं मन्ये संकल्पविटपी यथा ॥१॥मन इत्यभिधानेन पश्चादास्था प्रकल्पिता ।वार्यावर्तविवर्तेन प्रोत्थायावर्तता यथा ॥२॥सत्तामात्रात्मनस्तस्य कुतो बुद्ध्यादयः किल ।अविद्यमाने पृथ्व्यादौ खस्यानन्तस्य किं रजः ॥३॥न तस्य देहचित्तादि नेन्द्रियाणि न वासनाः ।सदप्येतत्सदा तस्य न किंचिदपि विद्यते। ॥४॥प्राक्तनस्य प्रजेशस्य मुक्तत्वात्कथमेव च ।भूयः संभवति प्राज्ञ न स्मृतिर्न च संभवः ॥५॥न भवत्येव मुक्तानां स्मृतिर्देहोदयः पुनः ।न देशकालावर्तत्वमावर्तानां सतामिव ॥६॥यदि वापि भवेत्किंचित्स्मृत्या देहादि तस्य तत् ।तदपृथ्व्यादिभिः शान्तं संकल्पनगरं तनु ॥७॥यथा संकल्पशैलस्य दृश्यमानमपि स्फुटम् ।पृथ्व्यादिरहितं रूपं तद्विराड्वपुषस्तथा ॥८॥स्मृतिश्च संभवत्येव न कदाचन काचन ।एषा लौकिकबुद्ध्या या सा सद्बुद्ध्या न विद्यते ॥९॥श्रीराम उवाच ।कथं न संभवत्येषां स्मृतिः स्मृतिमतां वर ।स्मृतेश्चासंभवे कस्माद्गुणो गुणगणाकर ॥१०॥श्रीवसिष्ठ उवाच ।दृश्ये हि संभवत्येषा कार्यकारणतात्मनि ।तद्भावाभावसंपन्ना न तु संभवति स्मृतिः ॥११॥आब्रह्मस्तम्बपर्यन्तं दृश्यं किंचिन्न विद्यते ।यत्र तत्र कथं कीदृक् कुतः स्यात्संभवः स्मृतेः ॥१२॥भूत्वा भावे हि दृश्यस्य स्मरणं स्मृतिरुच्यते ।दृश्यमेव न यत्रास्ति तत्रैताः कलनाः कुतः ॥१३॥अत्यन्ताभाव एवास्य दृश्यस्य किल सर्वदा ।सर्वं ब्रह्मेति सत्यार्थास्तत्स्मृतेः कलनाः कुतः ॥१४॥स्मृतिर्न संभवत्येव तस्मादाद्या प्रजापतेः ।आकारवत्त्वमेवास्य शुद्धज्ञानात्मनः कुतः ॥१५॥स्मर्तव्यं भाववशतः स्मृतिर्नास्त्येव लौकिकी ।स्मृत्यर्थस्त्वन्यदीयोऽस्ति सत्यात्मा त्वमिमं श्रृणु ॥१६॥भूतस्यान्तः पदार्थस्य स्मरणं स्मृतिरुच्यते ।पदार्थस्तु न चैवास्ति न भूतो न भविष्यति ॥१७॥एवं हि खल्विदं ब्रह्म परमेवाचलं यतः ।अनादिमध्यपर्यन्तं कुतः स्मृत्यादयस्ततः ॥१८॥सर्वात्मत्वमपदार्थात्म चिद्व्योमकचनं तु यत् ।व्यवहारेऽप्यलं शान्तं स्मृत्या तच्छब्दितं मया ॥१९॥तदेतत्स्मरणं नाम स्वभावकचनं हि तत् ।तेनाभ्यस्तोऽथ बाह्यार्थः सादृश्यादवभासते ॥२०॥यद्यत्संवेद्यते किंचित्तत्स्वभावं स्वभावयत् ।तेनावभासते योऽर्थस्तस्य स्मृत्यभिधा कृता ॥२१॥अविद्यमानं भातीव यथा दृश्यं तथा स्थितिः ।भातैवाविद्यमानैव मृगतृष्णा यथोद्यता ॥२२॥सर्वात्मनि स्थिताः सत्ये याः कचन्ति सुसंविदः ।ता एवाभ्यासरूढार्थाः सादृश्यात्स्मृतयः स्मृताः ॥२३॥काकतालीयवद्भान्ति सर्वात्मनि सुसंविदः ।स्वाङ्गभूताः स्वतः स्वस्थास्ता एव स्मृतयः कृताः ॥२४॥यद्यत्कचति सद्रूपं स्वाङ्गं सर्वात्मनः स्वतः ।तदभ्यस्तार्थसादृश्यात्स्मृतिरित्युच्यते बुधैः ॥२५॥हेतौ लब्धेऽप्यलब्धे वा पवनस्पन्दवद्विदः ।ता एवाभ्यासरूढार्थाः सादृश्यात्स्मृतयः कृताः ॥२६॥काकतालीयवद्भान्ति यास्ताः स्मृत्यभिधाः कृताः ।यथा तवैतेऽवयवाः कचन्ति न कचन्ति च ॥२७॥स्थिता एवात्मनि तथा सर्वाः सर्वात्मिका विदः ।मिथ्याज्ञानमया यद्वदर्था घटपटादयः ॥२८॥तद्वत्स्मृतिपदार्थस्य किं भ्रमस्य विचार्यते ।दृश्यस्यासंभवाज्ज्ञस्य स्मृतिर्नास्त्वेव तत्त्वतः ॥२९॥स तथैकघनत्वाच्च चिद्व्योमत्वाज्जगत्स्थितेः ।यथास्थितमिदं दृश्यमस्त्येवाज्ञस्य संप्रति ॥३०॥न मोक्षोपायकथनं न च जानामि तत्स्थितिम् ।संदेहादिव जिज्ञासुस्तावन्मोक्षकथोच्यते ॥३१॥यावद्दृश्यं स्मृतिश्चैव संस्मृतिश्चास्य शाम्यति ।अविद्यायास्तु मौर्ख्यस्य विमोहस्यात्यसंभवात् ॥३२॥अज्ञस्थो निश्चयोऽस्माकं न कदाचन गोचरः ।यच्च यद्विषये नास्ति तन्नैवानुभवत्यसौ ॥३३॥रजन्यनुभवो भानोर्भवत्यङ्ग कथं वद ।भातं वस्तुस्वरूपात्म चिन्मात्रे किंचिदेव यत् ॥३४॥तदभ्यस्तार्थसादृश्यात्तत्संस्कार इति स्मृतम् ।आत्मस्वभावभूतानामपि चिद्व्योमरूपिणाम् ॥३५॥सर्वेषां परिकल्प्यानामाभासेऽप्यनवस्थितेः ।एवं न संभवत्येव जगत्किंचित्कदाचन ॥३६॥दृष्टं मृगतृषेवाम्बु न तु तत्परमार्थतः ।यदा त्वयं तदा स्वप्ने सर्गादौ चावभासते ॥३७॥चिद्व्योमैव परं सर्गपर्यायं स्वात्मनि स्थितम् ।चिद्व्योमैवेत्थमाभातं न च्युतं सत्स्वरूपतः ॥३८॥आत्मनात्मनि रूपं वा सद्रूपमिव संस्थितम् ।सर्गादावेव कचिते मिथ्या कचदपि स्थितम् ॥३९॥अतः कुतः क्वचिन्नाम हेयादेयादिभासनम् ।नेदमाकारवत्किंचिन्नापि स्मृत्यात्मकं क्वचित् ॥४०॥कारणाभावतो भाति स्वरूपं परमात्मनः ।आकारवत्त्वे यद्दुःखं भवेत्स्मृत्यां तदेव च ॥४१॥द्वयमेतदसत्तस्माद्वन्धो नाम न विद्यते ।चिद्व्योम्नि भूतव्योमाभे शून्य एव यथास्थितम् ॥४२॥स्थितं स्वरूपमजहद्भुवनार्काचलादिकम् ।यथास्थितोग्रदिक्कालं जगत्त्वं रूपमत्यजत् ॥४३॥स्वमेवात्यजतो रूपं चिद्व्योम्न उदरे स्थितम् ।स्वानुभूत्येकमात्रात्म प्रमातृस्वाप्नपत्तनम् ॥४४॥अपृथ्व्यादि कुतस्तत्र किल पृथ्व्यादयो वद ।तद्भाति केवलं शान्तं चिदाकाशं तथात्मनि ॥४५॥सर्वादौ स्वप्नकाले च पृथ्व्यादेः संभवः कुतः ।उद्भूयेव जगद्रूपाद्ब्रह्मसत्तात्मनात्मनि ॥४६॥करोति पृथ्व्याद्यभिधाः पश्चात्सत्यार्थदा इव ।न स्मृत्यात्म न साकारं पृथ्व्यादीनामसंभवात् ।न भ्रान्तिर्न विवर्तादि जगद्ब्रह्मात्म केवलम् ॥४७॥ब्रह्मेदमाकचति चारुजगत्स्वरूपंतच्चैकमेव कचनाकचनात्मनिष्ठम् ।दृश्याभमप्यमलमेव नभः प्रशान्तंनित्योदितं प्रलयसर्गमयोदयात्म ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० जगतो ब्रह्मत्वप्रतिपादनं नाम द्विसप्तत्यधिकशततमः सर्गः ॥१७२॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP