संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १०२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १०२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०२ Translation - भाषांतर श्रीराम उवाच ।परिज्ञाते परे वस्तुन्यनादिनिधनात्मनि ।संपद्यते वद ब्रह्मन्कीदृशः पुरुषोत्तमः ॥१॥श्रीवसिष्ठ उवाच ।श्रृणु संपद्यते कीदृग्ज्ञातज्ञेयो नरोत्तमः ।यावज्जीवं कथं चैष किमाचारोऽवतिष्ठते ॥२॥उपला अपि मित्राणि बन्धवो वनपादपाः ।वनमध्ये स्थितस्यापि स्वजना मृगपोतकाः ॥३॥आकीर्णं शून्यमेवास्य विपदश्चातिसंपदः ।स्थितस्यापि महाराज्ये व्यसनान्येव सूत्सवाः ॥४॥असमाधिः समाधानं दुःखमेव महत्सुखम् ।व्यवहारोऽपि सन्मौनं कर्माण्येवात्यकर्मता ॥५॥जाग्रदेव सुषुप्तस्थो जीवन्नेव मृतोपमः ।करोति सर्वमाचारं न करोति च किंचन ॥६॥रसिकोऽत्यन्तविरसो निर्घृणो बन्धुवत्सलः ।निर्दयोऽत्यन्तकरुणो वितृष्णस्तृष्णयान्वितः ॥७॥सर्वाभिनन्दिताचारः सर्वाचारबहिष्कृतः ।वीतशोकभयायासः सशोक इव लक्ष्यते ॥८॥तस्मान्नोद्विजते लोको लोकान्नोद्विजते तु सः ।परमुद्वेगमापन्नः संसृतौ रसिकोऽपि सन् ॥९॥नाभिनन्दति संप्राप्तं नाप्राप्तमभिवाञ्छति ।आस्तेऽनुभूयमानेऽर्थे न च हर्षविषादयोः ॥१०॥दुःखिते दुःखितकथः सुखिते सुखसंकथः ।आस्ते सर्वास्ववस्थासु हृदयेनापराजितः ॥११॥कर्मणः सुकृतादन्यदस्मै किंचिन्न रोचते ।स्वभाव एव महतां ननु यन्न विचेष्टितम् ॥१२॥नालम्बते रसिकतां न च नीरसतां क्वचित् ।नार्थेषु विचरत्यर्थी वीतरागः सरागवत् ॥१३॥यथा शास्त्रव्यवहृतेः सुखदुःखैः क्रमागतैः ।अनागतोऽपि चायाति न हर्षं न विषादिताम् ॥१४॥संप्रहृष्टाश्च लक्ष्यन्ते लक्ष्यन्ते दुःखितास्तथा ।न स्वभावं त्यजन्त्यन्तः संसारारभटीनटाः ॥१५॥आत्मीयेष्वर्थजातेषु मिथ्यात्मसु सुतादिषु ।बुद्बुदेष्विव तोयानां न स्नेहस्तत्त्वदर्शिनाम् ॥१६॥अस्नेह एव सुघनस्नेहार्द्रहृदयो यथा ।वत्सलां दर्शयन्वृत्तिं ज्ञस्तिष्ठति यथाक्रमम् ॥१७॥वायूनिव प्रवाहस्थाः स्पृशन्ति विषयान्मुधा ।देहसत्ताविषान्मूढा लीयन्ते विषयोदरे ॥१८॥बहिः सर्वसमाचारमन्तः सर्वार्थशीतलम् ।नित्यमन्तरनाविष्ट आविष्ट इव तिष्ठति ॥१९॥श्रीराम उवाच ।स्वरूपमीदृशं तस्य को वेत्ति मुनिनायक ।वद सत्यमसत्यं वा भवत्यज्ञो ह्यपीदृशः ॥२०॥अश्ववद्ब्रह्मचर्येण चरन्तोऽचारुचेतसः ।मिथ्यातपस्विदार्ढ्याय भवन्त्येवंविधा मुने ॥२१॥श्रीवसिष्ठ उवाच ।असत्यं वास्तु सत्यं वा स्वरूपं वरमीदृशम् ।विद्धि वेदविदां त्वेष स्वभावानुभवस्थितः ॥२२॥अनाविष्टा विचेष्टन्ते वीतरागाः सरागवत् ।गतहासा हसन्त्यज्ञान्सहसा करुणाकुलाः ॥२३॥चित्तादर्शगतं दृश्यं सर्वं कपटकुट्टिमम् ।पश्यन्त्यसत्परिज्ञातं स्वप्ने हेमेव हस्तगम् ॥२४॥अन्तःशीतलतामेषां तां न जानन्ति केचन ।दूराच्चन्दनदारूणामामोदमिव जन्तवः ॥२५॥ये तु विज्ञातविज्ञेयास्तादृशाः पावनाशयाः ।जानन्ति तांस्तथैवान्तरहेः पादानिवाहयः ॥२६॥भावं निगूहयन्त्येते तमुत्तममनुत्तमाः ।ग्राम्यैर्धनैः किलानर्घ्य कश्चिन्तामणिरापणे ॥२७॥तस्मिन्निगूहने भावो यतस्तेषां न दर्शने ।निर्वासना गतद्वैता गतमानाः किलाङ्ग ते ॥२८॥एकान्तामानदौर्गत्यजनावज्ञप्तयस्तु तान् ।सुखयन्ति यथा राम न तथैव महर्द्धयः ॥२९॥स्वसंवेदनसंवेद्यसारा विदितवेद्यता ।नैषा दर्शयितुं शक्या दृश्यते न च तद्विदा ॥३०॥गुणं ममेमं जानातु जनः पूजां करोतु मे ।इत्यहंकारिणामीहा न तु तन्मुक्तचेतसाम् ॥३१॥क्रियाफलानि चिद्व्योमगमनादीनि राघव ।अज्ञानामपि सिध्यन्ति मन्त्रौषधिवशादिह ॥३२॥यो यादृक् क्लेशमाधातुं समर्थस्तादृगेव सः ।अवश्यं फलमाप्नोति प्रबुद्धोऽस्त्वज्ञ एव वा ॥३३॥आमोदश्चन्दनस्येव स्पन्दनस्य फलं हृदि ।सर्वस्यैवास्ति तन्नूनं तद्वता समवाप्यते ॥३४॥अहंतावासनाद्वैतं वस्तुता दृश्यवस्तुषु ।यस्यास्त्यसौ साधयति खगमादिक्रियाफलम् ॥३५॥इदं न किंचिद्भ्रान्तिर्वा खं चेति ज्ञस्तु वेत्ति यः ।सोऽवासनः कर्मवात्याः कथं साधयति क्रियाः ॥३६॥नैव तस्य कृतेनार्थो नाऽकृतेनेह कश्चन ।न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३७॥न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।यदुदारमनोवृत्तेर्लोभाय विदितात्मनः ॥३८॥जगदेव तृणं यस्य न किंचिद्रज एव वा ।किं नाम तस्य भवतु अन्यदादेयतां गतम् ॥३९॥निर्वाहितजगद्यात्रः परिपूर्णमना मुनिः ।यथास्थितमसावास्ते संप्रयाति यथागतम् ॥४०॥नित्यान्तःशीतलो मौनी सत्त्वीभूतमनोवनिः ।परिपूर्णार्णवाकारो गम्भीरप्रकटाशयः ॥४१॥रसायनपरापूर्णहृदवत् ह्लादमात्मनि ।धत्ते करोति वान्यस्य सकलेन्दुरिवामलः ॥४२॥मन्दारमञ्जरीकुञ्जपिञ्जरा देवभूमयः ।न तथा ह्लादयन्त्येता यथा पण्डितबुद्धयः ॥४३॥चन्द्रबिम्बैर्वसन्तैश्च महतामहताशयैः ।सारं सौभाग्यसौगन्ध्यसौरभालोकभोगिषु ॥४४॥भ्रान्तिमात्रमिदं विश्वमिन्द्रजालमसन्मयम् ।त्यजतीति विनिश्चित्य दिनानुदिनमेषणाः ॥४५॥शीतातपादिदुःखानि निजदेहगतान्यपि ।अन्यदेहगतानीव ज्ञः पश्यत्यवहेलया ॥४६॥करुणोदारया वृत्त्या वृत्त्या व्रततिधीरया ।नीरसो नीरसारां तु सारतां सरति स्थितिम् ॥४७॥व्यवहारं यथाप्राप्तं लोकसामान्यमाचरन् ।चराचराणां भूतानामुपर्येवावतिष्ठते ॥४८॥प्रज्ञाप्रासादमारूढस्त्वशोच्यः शोचते जनान् ।भूमिष्ठानिव शैलस्थः सर्वान्प्रज्ञोऽनुपश्यति ॥४९॥चिरं कल्लोलवलितः सुमना जलधौ भ्रमे ।परं पारमुपागत्य परां विश्रान्तिमेति सः ॥५०॥हसन्स शान्तया वृत्त्या प्राक्तनीर्जागतीर्गतीः ।स्मयमान इवास्तेऽन्तर्जनताश्च घनभ्रमाः ॥५१॥एताः कान्तारनिर्मग्नमिताः संसारदृष्टयः ।असत्यो हृतवत्यो मामित्यन्तर्याति विस्मयम् ॥५२॥दृष्ट्याष्टगुणमैश्वर्यमनिष्टं मे तृणायते ।इत्युपैत्युपशान्तत्वात्स्मयमानोऽपि न स्मयम् ॥५३॥कश्चिद्गिरिगुहागेहः कश्चित्पुण्याश्रमाश्रयः ।कश्चिद्गृहस्थाश्रमवान्कश्चिद्वहुरटन्स्थितः ॥५४॥कश्चिद्भिक्षाचराचारः कश्चिदेकान्ततापसः ।कश्चिन्मौनव्रतधरः कश्चिद्ध्यानपरायणः ॥५५॥कश्चिद्विपश्चिद्विख्यातः कश्चिच्छ्रोता श्रुतेः स्मृतेः ।कश्चिद्राजा द्विजः कश्चित्कश्चिदज्ञ इव स्थितः ॥५६॥गुटिकाञ्जनखङ्गादिसिद्धः कश्चिन्नभोगतः ।कश्चिच्छिल्पकलाजीवी कश्चित्पामररूपभृत् ॥५७॥कश्चित्त्यक्तसमाचारः कश्चिच्छ्रोत्रियनायकः ।कश्चिदुन्मत्तचरितः प्रव्रज्यां कश्चिदाश्रितः ॥५८॥पुरुषो न शरीरादि न च चित्तादि किंचन ।पुरुषश्चेतनं नाम न स नश्यति कर्हिचित् ॥५९॥अच्छेद्योऽसावदाह्योऽसावक्लेद्योऽशोष्य एव च ।नित्यः सर्वगतः स्थाणुरचलोऽसौ सनातनः ॥६०॥इति सम्यक्प्रबुद्धो यः स यथा यत्र तिष्ठति ।तथा तिष्ठतु तत्रात्र स्थानास्थानियमेन किम् ॥६१॥पातालमाविशतु यातु नभो विलङ्घ्यदिङ्मण्डलं भ्रमतु पेषणमेव येन ।चिन्मात्रमेतदजरं न तु यातु नाश-माकाशकोश इवशान्तमजं शिवं तत् ॥६२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० मरणाद्यभावोपदेशो नाम द्व्युत्तरशततमः सर्गः ॥१०२॥ N/A References : N/A Last Updated : October 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP