संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २०७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २०७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २०७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।श्रृणु राजन्यथा स्पष्टमेतत्ते कथयाम्यहम् ।येन ते सर्वसंदेहा यास्यन्त्यलममूलताम् ॥१॥सर्वे तावज्जगद्भावा असद्रूपाः सदैव हि ।सद्रूपाश्च सदैवेमे यथासवेदनं स्थितेः ॥२॥इदमित्थमिति प्रोता यत्र संवित्तदेव तत् ।भवत्यवश्यं तत्त्वङ्ग सदेवास्त्वसदेव वा ॥३॥ईदृक्स्वभावा संवित्तिस्तया देहो विभाव्यते ।एक एव स्वरूपेण तस्यास्ते न च तद्विदा ॥४॥विदमेव विदुर्देहं स्वप्नादावितरेतरा ।संवित्काचित्संभवति न चान्यास्ति शरीरता ॥५॥आश्रितस्वप्नसंदर्शस्तथेदं भासते जगत् ।समस्तकारणाभावात्सर्गादावन्यतात्र का ॥६॥एवं यदेव विमलं वेदनं ब्रह्मसंज्ञितम् ।तदेवेदं जगद्भाति तत्केव जगतोऽन्यता ॥७॥एवं पूर्वापरं शुद्धमविकार्यजगत्स्थितेः ।लोकवेदमहाशास्त्रैरनुभूतमुदाहृतम् ॥८॥अपलाप्यैव ये मूढा अन्धकूपकमेकवत् ।समस्तभूतसंवित्तौ रूढपूर्णं महात्मभिः ॥९॥वर्तमानानुभवनमात्रमोहप्रमाणकाः ।शरीरकारणा संविदिति मोहमुपागताः ॥१०॥उन्मत्ता एव तेऽज्ञास्ते योग्या नास्मत्कथासु ते ।अक्षीबक्षीबयोर्मूढबुद्धयोः कैव संकथा ॥११॥यया विपश्चित्कथया सर्वसंशयसंक्षयः ।न भवेत्र्त्रिषु लोकेषु ज्ञेया मूर्खकथैव सा ॥१२॥प्रत्यक्षमात्रनिष्ठोऽसौ मूढास्थ इति वक्ति यत् ।तेन निर्युक्तिनोक्तेन शिलासदृशवृत्तिना ॥१३॥प्रोक्तः सर्वविरुद्धेन सोऽज्ञः कूपान्धदर्दुरः ।पूर्वापरधियं त्यक्त्वा वर्तमाने मतिस्थितः ॥१४॥वेदा लोकादयश्चैते पृष्टाः स्वानुभवान्विताम् ।वदन्तीमां दृशं सर्वे यथा नश्यन्ति संशयाः ॥१५॥संविदेव शरीरं चेच्छवं कस्मान्न चेतति ।इति यस्य मतिस्तस्मै मूढायेदमिहोच्यते ॥१६॥ब्रह्मणो ब्रह्मरूपस्य संकल्पनगरं ततम् ।इदं तावज्जगद्भानं तव स्वप्नपुरं यथा ॥१७॥तत्समस्तं सदैवेदं चिन्मात्रात्म निरन्तरम् ।भवत्यत्र न ते भ्रान्तिः स्वे स्वप्ननगरे यथा ॥१८॥तत्र तावद्दिशः शैलाः पृथ्व्यादि नगरादि च ।सर्वं चिन्मयमाकाशमिति ते स्वानुभूतिमत् ॥१९॥संविद्व्योम घनं ब्रह्म तत्सकल्पपुरं विराट् ।शुद्धसंविन्मयो ब्रह्मा तदिदं जगदुच्यते ॥२०॥ब्राह्मे संकल्पनगरे यद्यत्संकल्पितं यथा ।तथानुभूयते तत्तत्त्वत्संकल्पपुरे यथा ॥२१॥संकल्पनगरे यद्यद्यथा संकल्प्यते तथा ।तत्तथास्त्येव च तदा त्वत्संकल्पपुरे यथा ॥२२॥तस्माद्देहस्य नियतौ यथेतौ ब्रह्मणा चिता ।स्पन्दास्पन्दौ कल्पितौ द्वौ स तथैवानुभूतवान्॥२३॥महाप्रलयपर्यन्ते पुनः सर्गः प्रवर्तते ।समस्तकारणाभावाद्द्रव्यं तावन्न विद्यते ॥२४॥विमुक्तत्वात्प्रजेशस्यन च संभवति स्मृतिः ।ब्रह्मैवेयमतो दीप्तिर्जगदित्येव भासते ॥२५॥तस्मादाद्यात्मना भातं स्वमेव ब्रह्मणा स्वतः ।जगत्संकल्पनगरमिति बुद्धं च खेन खम् ॥२६॥यथा संकल्पनगरं चिन्मात्रं भाति केवलम् ।तथैवाकारणं भाति चिन्मात्रोन्मेषणं जगत् ॥२७॥शरीरमस्तु वा मास्तु यत्र यत्रास्ति चिन्नभः ।वेत्त्यात्मानं तत्र तत्र द्वैताद्वैतमयं जगत् ॥२८॥तस्माद्यथा स्वप्नपुरं यथा संकल्पपत्तनम् ।तथा पश्यति चिद्व्योम मरणानन्तरं जगत् ॥२९॥अपृथ्व्यादिमयं भाति पृथ्व्यादिमयवज्जगत् ।यथेदमाऽऽप्रथमतो मृतस्याप्यखिलं तथा ॥३०॥देशकालौ न सर्गेण प्रबुद्धस्येव तौ यथा ।अणुमात्रमपि व्याप्तौ तथैव परलोकिनः ॥३१॥इदं प्रबुद्धविषये स्वानुभूतमपि स्फुटम् ।जगन्न विद्यते किंचित्कारणं गगने यथा ॥३२॥अप्रबुद्धस्यासदेव यथेदं भाति भासुरम् ।तथैव सर्गवद्भाति व्योमैव परलोकिनः ॥३३॥शुधराद्रियमाद्याढ्यं खमेव परलोकिनः ।अभूतपूर्वमाभाति भूतपूर्ववदाततम् ॥३४॥मृतोऽयं पुनरुत्पन्नो यमलोके शुभाशुभम् ।भुञ्जेऽहमित्यतिघनं मृतो भ्रान्तिं प्रपश्यति ॥३५॥मोक्षोपायानादरिणामेष मोहो न शाम्यति ।बोधादवासनत्वेन मोह एष प्रशाम्यति ॥३६॥अप्रबुद्धस्य या संवित्सा धर्माधर्मवासना ।ख एव खात्मिका भाति यत्तदेव जगत्स्थितम् ॥३७॥न शून्यरूपं न च सत्स्वरूपंब्रह्माभिधं भाति जगत्स्वरूपम् ।तच्चापरिज्ञानवशादनर्थ-भूतं परिज्ञातवतः शिवात्म ॥३८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० महाप्रश्नोत्तरं नाम सप्ताधिकद्विशततमः सर्गः ॥२०७॥श्रीवसिष्ठ उवाच ।श्रृणु राजन्यथा स्पष्टमेतत्ते कथयाम्यहम् ।येन ते सर्वसंदेहा यास्यन्त्यलममूलताम् ॥१॥सर्वे तावज्जगद्भावा असद्रूपाः सदैव हि ।सद्रूपाश्च सदैवेमे यथासवेदनं स्थितेः ॥२॥इदमित्थमिति प्रोता यत्र संवित्तदेव तत् ।भवत्यवश्यं तत्त्वङ्ग सदेवास्त्वसदेव वा ॥३॥ईदृक्स्वभावा संवित्तिस्तया देहो विभाव्यते ।एक एव स्वरूपेण तस्यास्ते न च तद्विदा ॥४॥विदमेव विदुर्देहं स्वप्नादावितरेतरा ।संवित्काचित्संभवति न चान्यास्ति शरीरता ॥५॥आश्रितस्वप्नसंदर्शस्तथेदं भासते जगत् ।समस्तकारणाभावात्सर्गादावन्यतात्र का ॥६॥एवं यदेव विमलं वेदनं ब्रह्मसंज्ञितम् ।तदेवेदं जगद्भाति तत्केव जगतोऽन्यता ॥७॥एवं पूर्वापरं शुद्धमविकार्यजगत्स्थितेः ।लोकवेदमहाशास्त्रैरनुभूतमुदाहृतम् ॥८॥अपलाप्यैव ये मूढा अन्धकूपकमेकवत् ।समस्तभूतसंवित्तौ रूढपूर्णं महात्मभिः ॥९॥वर्तमानानुभवनमात्रमोहप्रमाणकाः ।शरीरकारणा संविदिति मोहमुपागताः ॥१०॥उन्मत्ता एव तेऽज्ञास्ते योग्या नास्मत्कथासु ते ।अक्षीबक्षीबयोर्मूढबुद्धयोः कैव संकथा ॥११॥यया विपश्चित्कथया सर्वसंशयसंक्षयः ।न भवेत्र्त्रिषु लोकेषु ज्ञेया मूर्खकथैव सा ॥१२॥प्रत्यक्षमात्रनिष्ठोऽसौ मूढास्थ इति वक्ति यत् ।तेन निर्युक्तिनोक्तेन शिलासदृशवृत्तिना ॥१३॥प्रोक्तः सर्वविरुद्धेन सोऽज्ञः कूपान्धदर्दुरः ।पूर्वापरधियं त्यक्त्वा वर्तमाने मतिस्थितः ॥१४॥वेदा लोकादयश्चैते पृष्टाः स्वानुभवान्विताम् ।वदन्तीमां दृशं सर्वे यथा नश्यन्ति संशयाः ॥१५॥संविदेव शरीरं चेच्छवं कस्मान्न चेतति ।इति यस्य मतिस्तस्मै मूढायेदमिहोच्यते ॥१६॥ब्रह्मणो ब्रह्मरूपस्य संकल्पनगरं ततम् ।इदं तावज्जगद्भानं तव स्वप्नपुरं यथा ॥१७॥तत्समस्तं सदैवेदं चिन्मात्रात्म निरन्तरम् ।भवत्यत्र न ते भ्रान्तिः स्वे स्वप्ननगरे यथा ॥१८॥तत्र तावद्दिशः शैलाः पृथ्व्यादि नगरादि च ।सर्वं चिन्मयमाकाशमिति ते स्वानुभूतिमत् ॥१९॥संविद्व्योम घनं ब्रह्म तत्सकल्पपुरं विराट् ।शुद्धसंविन्मयो ब्रह्मा तदिदं जगदुच्यते ॥२०॥ब्राह्मे संकल्पनगरे यद्यत्संकल्पितं यथा ।तथानुभूयते तत्तत्त्वत्संकल्पपुरे यथा ॥२१॥संकल्पनगरे यद्यद्यथा संकल्प्यते तथा ।तत्तथास्त्येव च तदा त्वत्संकल्पपुरे यथा ॥२२॥तस्माद्देहस्य नियतौ यथेतौ ब्रह्मणा चिता ।स्पन्दास्पन्दौ कल्पितौ द्वौ स तथैवानुभूतवान्॥२३॥महाप्रलयपर्यन्ते पुनः सर्गः प्रवर्तते ।समस्तकारणाभावाद्द्रव्यं तावन्न विद्यते ॥२४॥विमुक्तत्वात्प्रजेशस्यन च संभवति स्मृतिः ।ब्रह्मैवेयमतो दीप्तिर्जगदित्येव भासते ॥२५॥तस्मादाद्यात्मना भातं स्वमेव ब्रह्मणा स्वतः ।जगत्संकल्पनगरमिति बुद्धं च खेन खम् ॥२६॥यथा संकल्पनगरं चिन्मात्रं भाति केवलम् ।तथैवाकारणं भाति चिन्मात्रोन्मेषणं जगत् ॥२७॥शरीरमस्तु वा मास्तु यत्र यत्रास्ति चिन्नभः ।वेत्त्यात्मानं तत्र तत्र द्वैताद्वैतमयं जगत् ॥२८॥तस्माद्यथा स्वप्नपुरं यथा संकल्पपत्तनम् ।तथा पश्यति चिद्व्योम मरणानन्तरं जगत् ॥२९॥अपृथ्व्यादिमयं भाति पृथ्व्यादिमयवज्जगत् ।यथेदमाऽऽप्रथमतो मृतस्याप्यखिलं तथा ॥३०॥देशकालौ न सर्गेण प्रबुद्धस्येव तौ यथा ।अणुमात्रमपि व्याप्तौ तथैव परलोकिनः ॥३१॥इदं प्रबुद्धविषये स्वानुभूतमपि स्फुटम् ।जगन्न विद्यते किंचित्कारणं गगने यथा ॥३२॥अप्रबुद्धस्यासदेव यथेदं भाति भासुरम् ।तथैव सर्गवद्भाति व्योमैव परलोकिनः ॥३३॥शुधराद्रियमाद्याढ्यं खमेव परलोकिनः ।अभूतपूर्वमाभाति भूतपूर्ववदाततम् ॥३४॥मृतोऽयं पुनरुत्पन्नो यमलोके शुभाशुभम् ।भुञ्जेऽहमित्यतिघनं मृतो भ्रान्तिं प्रपश्यति ॥३५॥मोक्षोपायानादरिणामेष मोहो न शाम्यति ।बोधादवासनत्वेन मोह एष प्रशाम्यति ॥३६॥अप्रबुद्धस्य या संवित्सा धर्माधर्मवासना ।ख एव खात्मिका भाति यत्तदेव जगत्स्थितम् ॥३७॥न शून्यरूपं न च सत्स्वरूपंब्रह्माभिधं भाति जगत्स्वरूपम् ।तच्चापरिज्ञानवशादनर्थ-भूतं परिज्ञातवतः शिवात्म ॥३८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० महाप्रश्नोत्तरं नाम सप्ताधिकद्विशततमः सर्गः ॥२०७॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP