संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १ Translation - भाषांतर श्रीराम उवाच ।नैष्कर्म्यात्कल्पनात्यागात्तनुः पतति देहिनः ।कथमेतदतो ब्रह्मन्संभवत्याशु जीवतः ॥१॥श्रीवसिष्ठ उवाच ।जीवतः कल्पनात्यागो युज्यते न त्वजीवतः ।रूपमस्य यथातत्त्वं श्रृणु श्रवणभूषणम् ॥२॥अहंभावनमेवाहुः कल्पनं कल्पनाविदः ।नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥३॥पदार्थरसमेवाहुः कल्पनं कल्पनाविदः ।नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥४॥इदं वस्त्विति संवेगमाहुः कल्पनमुत्तमाः ।नभोर्थभावनं तस्य संकल्पत्याग उच्यते। ॥५॥स्मरणं विद्धि संकल्पं शिवमस्मरणं विदुः ।तच्च प्रागनुभूतं च नानुभूतं च भाव्यते ॥६॥अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत् ।सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामते ॥७॥सर्वास्मरणमात्रात्मा तिष्ठायातेषु कर्मसु ।अर्धसुप्तशिशुस्पन्द इवाभ्यस्तोपपत्तिषु ॥८॥निःसंकल्पप्रवाहेण चक्रं प्रस्पन्दते यथा ।स्पन्दस्वकर्मस्वनघप्राक्संस्कारवशात्तथा ॥९॥अविद्यमानचित्तस्त्वं सत्त्वसंस्कारमागतः ।प्रवाहपतितेष्वेव स्पन्दस्व स्वेषु कर्मसु ॥१०॥ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।असंकल्पः परं श्रेयः स किमन्तर्न भाव्यते ॥११॥अहो मोहस्य माहात्म्यं यदयं सर्वदुःखहा ।चिन्तामणिर्विचाराख्यो हृत्स्थोऽपि त्यज्यते जनैः ॥१२॥अवेदनमसंकल्पस्तन्मयेनैव भूयताम् ।एतावत्परमं श्रेयः स्वयमेवानुभूयताम् ॥१३॥किल तूष्णीं स्थितेनैव तत्पदं प्राप्यते परम् ।परमं यत्र साम्राज्यमपि राम तृणायते ॥१४॥गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः ।स्पन्दो विगतसंकल्पस्तथा स्पन्दस्व कर्मसु ॥१५॥सर्वकर्मफलाभोगमलं विस्मृत्य सुप्तवत् ।प्रवाहपतिते कार्ये स्पन्दस्व गतवेदनम् ॥१६॥स्पन्दस्वाकृतसंकल्पं सुखदुःखान्यभावयन् ।प्रवाहपतिते कार्ये चेष्टितोन्मुक्तशष्पवत् ॥१७॥रसभावनमन्तस्ते मालं भवतु कर्मसु ।दारुयन्त्रमयस्येव परार्थमिव कुर्वतः ॥१८॥नीरसा एव ते सन्तु समस्तेन्द्रियसंविदः ।आकारमात्रसंलक्ष्या हेमन्तर्तौ लता इव ॥१९॥बोधार्कपीतरसया स्पन्दन् षड्वर्गसत्तया ।यन्त्रस्पन्दोपमस्तिष्ठ वल्ल्येव शिशिरे द्रुमः ॥२०॥चिदान्तररसान्येव प्रवृत्तान्यपि धारय ।स्वयत्नेनेन्द्रियाण्याशु हेमन्तर्तुस्तरूनिव ॥२१॥सरसेन्द्रियवृत्तेस्ते कुर्वतोऽकुर्वतस्तथा ।संसारानर्थसार्थोऽयं न कदाचन शाम्यति ॥२२॥निःसंकल्पमरुज्ज्वालायन्त्राम्बुस्पन्दवद्यदि ।स्पन्दसे तदनन्ताय श्रेयसे परिकल्पसे ॥२३॥एतदेव परं धैर्यं जन्मज्वरनिवारणम् ।यदवासनमभ्यस्ता निजकर्मसु कर्तृता ॥२४॥अवासनमसंकल्पं यथाप्राप्तानुवृत्तिमान् ।शनैश्चक्रभ्रमाभोग इव स्पन्दस्व कर्मसु ॥२५॥मा कर्मफलबुद्धिर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।उभयं वा त्यजैतत्त्वमुभयं वा समाश्रय ॥२६॥बहुनात्र किमुक्तेन संक्षेपादिदमुच्यते ।संकल्पनं मनोबन्धस्तदभावो विमुक्तता ॥२७॥नेह कार्यं न वाऽकार्यमस्ति किंचिन्न कुत्रचित् ।सर्वं शिवमजं शान्तमनन्तं प्राग्वदास्यताम् ॥२८॥पश्यन्कर्मण्यकर्मत्वमकर्मणि च कर्मताम् ।यथाभूतार्थचिद्रूपः शान्तमास्व यथासुखम् ॥२९॥अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भोः ॥३०॥समे शान्ते शिवे सूक्ष्मे द्वैतैक्यपरिवर्जिते ।ततेऽनन्ते परे शुद्धे किं केन किल खिद्यते ॥३१॥नोदेतु त्वयि संकल्पो मरुभूमाविवाङ्कुरः ।इच्छा नोदेतु भवति लतिकेवोपलोदरे ॥३२॥अवेदनस्य शान्तस्य जीवतो वाप्यजीवतः ।नेह किंचित्कृतेनार्थो नाकृतेनापि कश्चन ॥३३॥यत्कर्माकर्म शान्तेऽन्तः शाश्वताभेदरूपिणि ।न कर्मणि च कर्माणि न कर्तर्यपि कर्तृता ॥३४॥अहंममेति संविदन्न दुःखतो विमुच्यसे ।असंविदन्विमुच्यसे यदीप्सितं तदाचर ॥३५॥अहं ममेति नास्त्यलं यदस्ति तच्छिवं परम् ।परात्परं त्विदं शिवादशब्दमर्थरूपकम् ॥३६॥यद्दृश्यते जगदिदं खलु किंचिदेत-द्हेम्नोऽङ्गदत्वमिव भाति न विद्यमानम् ।अस्य क्षयं विदुरवेदनमेव पश्चा-त्सत्यं तदेव परमार्थमथावशिष्टम् ॥३७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे इच्छादिचिकित्सायोगोपदेशो नाम प्रथमः सर्गः ॥१॥ N/A References : N/A Last Updated : September 26, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP