संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १३० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १३० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १३० Translation - भाषांतर अथ राम उवाचास्य मुने केन विपश्चितः ।स्यादुपायेन दुःखान्तः प्राक्तनात्मोदयादिति ॥१॥श्रीवसिष्ठ उवाच ।येनैवाभ्युदिता यस्य तस्य तेन विना गतिः ।न शोभते न सुखदा न हिताय न सत्फला ॥२॥विपश्चितोऽग्निः शरणं तत्प्रवेशादयं मृगः ।पूर्वरूपमवाप्नोति निर्मलं कनकं यथा ॥३॥करोम्येतदहं सर्वं दृश्यतां दर्शयामि वः ।अग्निप्रवेशं हरिणः करोत्येषोऽधुना पुरः ॥४॥श्रीवाल्मीकिरुवाच ।इत्युक्त्वा स मुनिस्तत्र वसिष्ठः श्रेष्ठचेष्टितः ।उपस्पृश्य यथान्यायं स्वकमण्डलुवारिणा ॥५॥दध्यावनिन्धनं वह्निं ज्वालापुञ्जमयात्मकम् ।तद्ध्यानेन सभामध्याज्ज्वालाजालं समुद्ययौ ॥६॥अङ्गाररहिताकारमिन्धनेन विवर्जितम् ।स्वच्छं धमधमायन्तमधूममपकज्जलम् ॥७॥मुग्धमुग्धकचत्कान्ति हेममन्दिरसुन्दरम् ।उत्फुल्लकिंशुकाकारं संध्याम्बुदवदुत्थितम् ॥८॥दूरापसृतसभ्यं तज्ज्वालाजालं विलोकयन् ।मृगः प्राग्भक्तिभावेन प्रोल्ललास विलोकितैः ॥९॥तं समालोकयन्वह्निं विविक्षुः क्षीणदुष्कृतः ।पश्चादुपससाराशु दूरं सिंह इवोत्पतन् ॥१०॥एतस्मिन्नन्तरे ध्याने विचार्य मुनिपुङ्गवः ।मृगं विलोकितैः क्षीणपापं कुर्वन्नुवाच ह ॥११॥संस्मृत्य प्राक्तनीं भक्तिं भगवन्हव्यवाहन ।कुरु कारुण्यतः कान्तं मृगमेनं विपश्चितम् ॥१२॥वदत्येवं मुनौ दूराद्धावित्वा नृपसंसदि ।मृगोऽग्निं वेगनिर्मुक्तः शरो लक्ष्यमिवाविशत् ॥१३॥ज्वालाजालं प्रविष्टोऽसावादर्श इव बिम्बितः ।संध्याभ्र इव विश्रान्तो दृष्टः स्पष्टशरीरकः ॥१४॥स पश्यत्स्वेव सभ्येषु मृगोऽथ नरतामगात् ।ज्वालोदरे नभस्यभ्रलवो रूपान्तरं यथा ॥१५॥अदृश्यताथ ज्वालायामन्तःकनककान्तिमान् ।पुरुषः पावनाकारः कान्तावयवसुन्दरः ॥१६॥अर्कबिम्ब इवादित्यश्चन्द्रबिम्ब इवोडुपः ।महाम्भसीव वरुणः संध्याभ्र इव वा शशी ॥१७॥चक्षुःकनीनिकाकोशे मुकुरे सलिले मणौ ।प्रतिबिम्ब इवार्काभो भक्तिनाधारपावकः ॥१८॥अनन्तरं सभामध्याद्वातैर्दीप इवाहतः ।ज्वालाजालं ययौ क्वापि संध्याम्बुद इवाम्बरात् ॥१९॥कुटीकुड्येषु भग्नेषु प्रतिबिम्ब इवामरः ।अतिष्ठत्पुरुषस्तत्र पटान्नट इवोद्गतः ॥२०॥अक्षमालाधरः शान्तो हेमयज्ञोपवीतवान् ।अग्निशौचाम्बरच्छन्नः सद्यश्चन्द्र इवोदितः ॥२१॥अहो भा इति सभ्योक्त्या तस्य वेषस्य भासनात् ।भास्वानिव विशालाभो भास इत्येष शब्दितः ॥२२॥असौ मूर्त इवाभासो भासनाम्ना भविष्यति ।सभास्थैः कैश्चिदित्युक्तं तेन भासः स उच्यते ॥२३॥अथोपविश्य तत्रैव स भासो ध्यानसंस्थितः ।आत्मोदन्तमशेषेण सस्मार प्राक्तनं तनौ ॥२४॥सभालोके गतस्पन्दे स्मयेनात्मनि तिष्ठति ।भासो मुहूर्तमात्रेण दृष्ट्वा स्वोदन्तमक्षतम् ॥२५॥आययौ पूर्वजन्मभ्यो ध्यानालोकाद्व्यबुध्यत ।सभामालोकयामास समुत्थाय यथाक्रमम् ॥२६॥स चागत्य वसिष्ठाय प्रणाममकरोन्मुदा ।ज्ञानार्कप्राणद ब्रह्मन्नमस्तेऽस्त्वित्युदाहरत् ॥२७॥तमुवाच वसिष्ठोऽपि हस्तेन शिरसि स्पृशन् ।अद्य ते सुचिराद्राजन्नविद्यायाः क्षयोऽस्त्विति ॥२८॥रामं जयेति जल्पन्तं नतं दशरथोऽथ तम् ।आसनात्किंचिदुत्तिष्ठन्समुवाच हसन्निव ॥२९॥दशरथ उवाच ।स्वागतं तेऽस्तु भो राजन्निदमासनमास्यताम् ।अनेकभवसंभारभ्रान्त विश्रम्यतामिह ॥३०॥श्रीवाल्मीकिरुवाच ।वदत्येवं दशरथे विपश्चिद्भासनामभृत् ।विवेश विष्टरे विश्वामित्रादीन्प्रणमन्मुनीन् ॥३१॥दशरथ उवाच ।अहो बत चिरं कालमालानेनेव दन्तिना ।वन्येनाविद्यया दुःखमनुभूतं विपश्चिता ॥३२॥असम्यग्बोधदुर्दृष्टेरहो नु विषमा गतिः ।व्योम्न्येव दर्शयत्येषा सर्गाडम्बरसंभ्रमम् ॥३३॥कियन्त्याश्चर्यमेतानि जगन्ति विततात्मनि ।संततानि चिरं तानि विभ्रान्तानि विपश्चिता ॥३४॥व्योमात्मनोऽपि महिमायमहो नु कीदृगस्य स्वभावविभवस्य चिदात्मवृत्तेः ।यः शून्य एव परमात्मघनेऽम्बरेऽन्तरेवंविधानि विविधानि जगन्ति भान्ति ॥३५॥इत्यार्षे श्रीवासिष्ठमहा० वाल्मीकीये दे० मो० निर्वाण० उ० अ० वि० मृगवह्निप्रवेशो नाम त्रिंशदधिकशततमः सर्गः ॥१३०॥ N/A References : N/A Last Updated : October 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP