संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १३८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १३८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १३८ Translation - भाषांतर तापस उवाच ।गन्तुमेवं विचार्याहं ततस्तत्संविदैकताम् ।प्रवृत्तश्चौत्तमाब्जेन सौरभेणेव सौरभम् ॥१॥यावत्तच्चेतनं तस्य तमोजोधातुमत्यजम् ।प्रवृत्तं बाह्यसंवित्तौ समस्तेन्द्रियसंविदा ॥२॥संविदं संविदा गृह्णंस्तान्बाह्येऽन्तरपि क्षणात् ।अहं प्रसृतवांस्तत्र तैलबिन्दुरिवाम्भसि ॥३॥तत्संविदि तथैवाथ यावत्परिणमाम्यहम् ।भुवनं दृष्टवांस्तावत्सर्वं द्विगुणितं स्थितम् ॥४॥दिशो द्विगुणतां यातास्तपतस्तपनावुभौ ।भूमण्डले द्वे संपन्ने द्वे वै द्यावौ समुत्थिते ॥५॥वदनप्रतिबिम्बे द्वे दर्पणप्रतिबिम्बिते ।यथा भातस्तथा भाते मिश्रिते ते जगच्चितम् ॥६॥तैलवद्भाति कोशस्थं यच्चेतनतिलद्वये ।तस्मिञ्जगद्द्वयं तत्तत्तथा भाति विमिश्रितम् ॥७॥संविद्द्वितयकोशस्थे मिश्रिते अप्यमिश्रिते ।ते उभे जगती भाते समे क्षीरजले यथा ॥८॥निमेषाद्दृष्टमात्रेण सा तत्संविन्मया ततः ।सकलैवात्मतां नीता परिमित्येव संविदा ॥९॥ऋतुर्ऋत्वन्तरेणेव सरितेवाल्पिका सरित् ।वातेनामोदलेखेव धूमलेखेव वार्मुचा ॥१०॥एकत्वेनाशु संवित्तेर्ययौ मे जगदेकताम् ।दुर्दृष्टेर्द्विवपुश्चन्द्रः सुदृष्टेरेकतामिव ॥११॥ततो मे तच्चितिस्थस्य स्वं विवेकमनुज्झतः ।अल्पीभूतः स्वसंकल्पस्तत्संकल्पस्थितिं गतः ॥१२॥तच्चित्तवृत्त्यैव ततो बाह्यमालोकयंस्ततः ।अभुञ्जि तद्दिनाचारं तत्तद्धृदयमत्यजन् ॥१३॥ततो यदृच्छयैवासौ शनैर्निद्राकुलोऽभवत् ।पद्मः सायमिवापीय पयो भुक्त्वान्नमुच्छ्रमः ॥१४॥प्रसृतं दिग्निकुञ्जेषु रूपालोकक्रियाकरम् ।संजहार बहिश्चित्तं सायमर्को रुचिं यथा ॥१५॥सह चित्तेन तास्तस्य समस्तेन्द्रियवृत्तयः ।हृत्कोशमविशञ्छन्नाः कूर्मस्येवाङ्गसंधयः ॥१६॥मुद्रिता हृदयाकारास्त आसंश्चक्षुरादयः ।लोष्टरूपा मृतावेव लिपिकर्मार्पिता इव ॥१७॥अहं तच्चित्तवृत्त्यैव सहसोन्नम्य तत्स्थितः ।तच्चित्तानुविधायित्वात्तत्तद्धृदयमाविशम् ॥१८॥संहृत्य बाह्यानुभवमन्तरेव तदोजसि ।क्षणमन्वभवं शून्यं सुषुप्तं तल्पकोमले ॥१९॥क्लमान्नपानबहुलैर्निबिडास्वपि नाडिषु ।सुषिरास्वेव वा वायुर्न निर्यात्येव याति च ॥२०॥यदा तदात्मकात्मैकपरो हृदि सहस्थितम् ।अप्रधानीकरोत्येतच्चित्तं स्वार्थस्वभावतः ॥२१॥स्वार्थमात्रोऽद्य तस्यान्तः परकृत्यं न कस्यचित् ।कचति स्वार्थसत्तायामेतदेव वपुर्यतः ॥२२॥श्रीराम उवाच ।मनः प्राणवशादेव मनुते किं महामुने ।स्वरूपं मनसो नास्ति तस्मात्तत्केवलं च किम् ॥२३॥श्रीवसिष्ठ उवाच ।देह एवेह नास्त्येव स्वानुभूतोऽप्ययं निजः ।मनसः कल्पनात्मेदं वपुः स्वप्ने गिरिर्यथा ॥२४॥तच्चित्तमपि नास्त्येव चेत्यार्थाभावयोगतः ।सर्गादौ कारणाभावाद्दृश्यानुत्पत्तिहेतुतः ॥२५॥अतः सर्वमिदं ब्रह्म तच्च सर्वात्मकं यदा ।तदा विश्वमिदं विष्वगस्त्येव च यथास्थितम् ॥२६॥अस्ति चित्तादि देहादि तद्ब्रह्मैव च तद्विदाम् ।यादृक्तत्तद्विदामेतदस्माकं विषये न तत् ॥२७॥यथेदं त्रिजगद्ब्रह्म यथेति विविधात्मकम् ।अत्रेमं राजपुत्र त्वं वर्ण्यमानं क्रमं श्रृणु ॥२८॥अस्ति चिन्मात्रममलमनन्ताकाशरूपि यत् ।सर्वदा सर्वरूपात्म न जगन्न च दृश्यता ॥२९॥सर्ववित्त्वात्तु तेनेदं मनस्त्वं चेतितं स्वतः ।रूपमत्यजता शुद्धं बुद्धमाधिविवर्जितम् ॥३०॥मनसा कल्पितं तेन यद्वै सरणमात्मनः ।तदेतत्प्राणपवनं विद्धि वेद्यविदां वर ॥३१॥प्राणतैषा यथा तेन कल्पितेवानुभूयते ।तथैवेन्द्रियदेहादि दिक्कालकलनादि च ॥३२॥इति विश्वमिदं विष्वक् चित्तमात्रमखण्डितम् ।चित्तं तु चित्परं ब्रह्म तस्माद्ब्रह्मेदमाततम् ॥३३॥अनाकारमनाद्यन्तमनाभासमनामयम् ।शान्तं चिन्मात्रसन्मात्रं ब्रह्मैवेदं जगद्वपुः ॥३४॥सर्वशक्ति परं ब्रह्म मनःशक्त्या यथा स्थितम् ।यत्र तत्र तथा रूपं स्वमेवानुभवत्यलम् ॥३५॥संकल्पात्म मनो ब्रह्म संकल्पयति यद्यथा ।तत्तथैवानुभवति सिद्धमाबालमीदृशम् ॥३६॥प्राणीकृतः स्वयमयं ननु चेतसात्मादेहीकृतस्त्रिभुवनीकृत एव नाद्यः ।देहीकृतः खवपुरेव गिरीकृतश्चस्वप्नेषु कल्पितपुरीष्वनुभूतमेतत् ॥३७॥इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० अवि० वि० चित्तसर्वात्मकताप्रतिपादनं नामाष्टत्रिंशदधिकशततमः सर्गः ॥१३८॥ N/A References : N/A Last Updated : October 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP