संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १५० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १५० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १५० Translation - भाषांतर मुनिरुवाच ।एवंप्रकारया युक्त्या तेनायं मुनिना तदा ।तथाहं बोधितो येन गतो विदितवेद्यताम् ॥१॥ततोऽसौ न मया त्यक्तश्चिरप्रार्थनया तया ।अवसत्तेन तत्रासौ मृतस्यापि तथैव च ॥२॥येनैतन्मुनिना प्रोक्तमिन्दूदयशुभं वचः ।सोऽयं पश्य मुनिश्रेष्ठस्तव पार्श्वे व्यवस्थितः ॥३॥अनेनोक्तमनुक्तेन ममैतन्मोहघातिना ।दृश्यपूर्वापरज्ञेन यज्ञेनेवात्तमूर्तिना ॥४॥अग्निरुवाच ।तदाकर्ण्य वचस्तस्य मुनेर्व्याधोऽभवत्तदा ।प्रत्यक्षः स्वप्नसर्गः किमिति खिन्न इव स्मयात् ॥५॥व्याध उवाच ।अहो महच्चित्रमिदं मुने मनसि दुःसहम् ।कथितं मेऽद्य भवता भवतापापहारिणा ॥६॥यत्स्वप्नकथितस्येयं जाग्रत्प्रत्यक्षतोच्यते ।लभ्यतेऽपि च तन्नाम वेद चित्रमिदं मुने ॥७॥कथमेष महान्स्वप्नपुरुषः स मुनीश्वर ।जाग्रत्यपि स्थिरीभूतो भूतो बालमतेरिव ॥८॥एवमाश्चर्यमाख्यानमुच्यतां मे यथाक्रमम् ।कुतः कस्य किमेतद्वा परमो हि स विस्मयः ॥९॥मुनिरुवाच ।ततः श्रृणु महाभाग वृत्तं चित्रं किमत्र मे ।कथयामि समासेन सहसा मां कुरु त्वराम् ॥१०॥अनेनैतत्तदा तत्र वर्णितं बोधनाय मे ।बुधोऽहमभवं चाशु महतोऽस्य तया गिरा ॥११॥तत एतद्गिरा पूर्वः स्वस्वभावः स्मृतो मया ।अवदातोऽवदातेन नभसेव तपात्यये ॥१२॥अहो नु सोऽहमभवं मुनिरित्युदिताशयम् ।अहमासं हृदा स्फीतात्स्नातोऽवस्थितविस्मयात्॥१३॥इमां भोगास्थयावस्थां प्राप्तोऽस्म्यज्ञ इवाध्वगः ।धावञ्छ्रमार्तिरम्ब्वर्थी व्यर्थया मृगतृष्णया ॥१४॥कष्टं दृश्योपलम्भेन भ्रान्तिमात्रात्मना सता ।बालो वेतालकेनेव प्राज्ञोऽपि च्छलितो ह्यहो ॥१५॥अहो नु चित्रमेतेन मिथ्याज्ञानेन वल्गता ।नीतः सर्वार्थशून्येन पदवीं कामिमामहम् ॥१६॥अथवा यः सोऽहमपि भ्रान्तिमात्रं न सन्मयः ।तथापि चित्रशतता यन्नामासद्विडम्ब्यते ॥१७॥नाहमस्मि न चैवेयमिदं नायमपि भ्रमः ।चित्रं सर्वमिदं मिथ्या सर्वं च सदिव स्थितम् ॥१८॥किमिदानीं मया कार्यमिह बन्धभिदान्तरः ।विद्यते मेऽङ्कुरश्छेद्यं तत्तावत्संत्यजाम्यहम् ॥१९॥आस्तामेतदविद्यैषा व्यर्थरूपा किमेतया ।भ्रान्त्या भ्रान्तिरसद्रूपा त्यक्तैवैषा मयाधुना ॥२०॥उपदेष्टा मुनिरयमेषोऽत्र भ्रान्तिमात्रकम् ।ब्रह्मैवाहमिवाभाति रूपमेतद्दिवाभ्रवत् ॥२१॥तदेवं तावदुदितज्ञानं वक्ष्ये महामुनिम् ।इति संचिन्त्य स मुनिस्तत्र प्रोक्त इदं मया ॥२२॥मुनिनायक गच्छामि तच्छरीरमिदं निजम् ।द्रष्टुं यच्च प्रवृत्तोऽस्मि शरीरं तदपीक्षितुम् ॥२३॥इत्याकर्ण्य स मामाह हसन्मुनिवरस्तदा ।कुतस्तौ भवतो देहौ तौ सुदूरतरं गतौ ॥२४॥गच्छात्मनैव वा पश्य वृत्तान्तं वृत्तकोविद ।पश्य तावद्यथावृत्तं दृष्टान्तं ज्ञास्यसि स्वयम् ॥२५॥इति संचिन्त्य तं देहं विदं भूसत्तयाऽऽस्मिकम् ।त्यक्त्वा चिदात्मा तत्प्राणात्पवने योजितो मया ॥२६॥प्राक्तनं देहमालोक्य यावदायाम्यहं मुने ।इहैव तावत्स्थातव्यमित्युक्त्वाहं गतोऽनिलम् ॥२७॥अथ वातरथारूढो गगनं भ्रान्तवानहम् ।पुष्पामोद इवानन्तं गत्वा च त्वरया चिरम् ॥२८॥ततश्चिरमपि भ्रान्त्वा यदा गलविलं चलन् ।अहं न प्राप्तवांस्तस्य किंचिदस्याशयस्थितः ॥२९॥तदा खेदमुपायातः परमं पुनरागतः ।इदमेव जगज्जालमहमालानमात्मनः ॥३०॥इहेमं लब्धवानग्रे ततो मुनिमनुत्तमम् ।पृष्टवानहमेकाग्रस्तत एवमिदं गृहे ॥३१॥किमेतद्भगवन्ब्रूहि पूर्वापरविदांवर ।त्वं पश्यसि यथावृत्तमुत्तमज्ञानचक्षुषा ॥३२॥यस्य देहं प्रविष्टोऽहं स च मद्वपुरेव च ।क्व तावुभौ गतौ देहौ न लब्धौ केन हेतुना ॥३३॥मयातिचिरमाभोगि भ्रान्तं संसारमण्डलम् ।स्थावरादाऽऽत्मनः कस्मात्प्राप्तं गलबिलं न तत् ॥३४॥गत्वेति पृष्टः स मुनिः समुवाच महाशयः ।जानासि तत्स्वयं कस्मादिति तामरसेक्षण ॥३५॥एतदालोकयसि चेत्स्वयं योगैकसंविदा ।तत्पश्यस्येव निःशेषं यथा करतलाम्बुजम् ॥३६॥तथापि यदि शुश्रूषा तवास्ति वचसा मम ।तदिदं श्रृणु वक्ष्यामि यथावृत्तमखण्डितम् ॥३७॥तपस्तामरसोष्णांशुः कल्याणकमलाकरः ।ज्ञानाब्जस्य हरेर्नाभिर्नास्ति तावदयं भवान् ॥३८॥स त्वं कदाचित्तपसि स्थितः स्वप्नदिदृक्षया ।कस्यचिद्धृदयं जन्तोः प्रविष्टः पुष्टसंविदा ॥३९॥यत्त्वं प्रविष्टो हृदयं तत्रेदं भुवनत्रयम् ।दृष्टवानसि विस्तीर्णं रोदसी विपुलोदरम् ॥४०॥इति त्वयि चिरं व्यग्रे देहस्तस्य तथापि च ।स संसुप्ताकृतिर्यत्र स्थितस्तत्र महावने ॥४१॥लग्नोऽग्निर्धूमधूम्राभ्रसाम्बराम्बरडम्बरः ।वलद्वलचलालातचक्रसूर्येन्दुमण्डलः ॥४२॥दग्धाभ्रभस्मसंपूर्णधूमाभ्रासितकम्बलैः ।आनीलाकाशदलपैरिव संछादिताम्बरः ॥४३॥दरीगृहविनिष्क्रान्तसिंहनिर्ह्रादतर्जितैः ।स्फुटैश्चटचटास्फोटैर्जडीकृतदिगन्तरः ॥४४॥तालीतमालमालानां गतानामग्निवृक्षताम् ।पातैरुत्पातवह्न्यभ्रकवत्करकरैर्घनः ॥४५॥दूरदेशगतैर्दृष्टस्थिरसौदामनीधिया ।द्रवत्कनकनिष्यन्दकुट्टिमं व्योम दर्शयन् ॥४६॥कणैस्तारागणं कान्तैर्व्योम्नि द्विगुणतां नयन् ।वक्षःस्थबालवनितानयनानन्दनन्दनः ॥४७॥ज्वालाधमधमाशब्दप्रध्मातगगनोदरः ।दरीगृहविनिष्क्रान्तभ्रान्तोन्निद्रवनेचरः ॥४८॥अर्धदग्धद्रवत्सिंहमृगव्याधविहंगमः ।क्वथत्सरःसरित्स्रोतोरन्धितोग्रवनेचरः ॥४९॥वलज्ज्वालाज्वलद्बालचमरीचारुचञ्चुरः ।दह्यमानवनप्राणिमेदोगन्धावृताम्बुदः ॥५०॥तेन कल्पाग्निकल्पेन वल्गता वनवह्निना ।सयुष्मदाश्रमो दग्धः सर्पेणेव प्रसर्पता ॥५१॥व्याध उवाच ।तत्र तस्याग्निदाहस्य हेतुः कः प्राकृतो मुने ।तद्वनं ते बटुवराः सर्वं नष्टं कथं सह ॥५२॥मुनिरुवाच ।संकल्पकमनस्पन्दः संकल्पादिक्षयोदये ।यथा हेतुर्निरास्पन्दोऽचिराद्धि त्रिजगत्तथा ॥५३॥हृदये च वनान्ते च क्षोभाक्षोभेषु कारणम् ।यथा स्पन्दोऽचिरात्स्पन्दस्तथा त्रिजगतामिह ॥५४॥धातुः संकल्पनगरं जगत्तत्स्पन्दनं त्विह ।प्रजोदयक्षयक्षोभवर्षावर्षादिकारणम् ॥५५॥ब्रह्मादिमानसोऽप्यस्य सोऽप्यन्यत्र चिदम्बरे ।इत्यपर्यवसानेयं शान्तैका चिन्नभोगतिः ॥५६॥चितिनभसि चिन्नभःश्रीःकचतीति निरामया विदुषाम् ।मूर्खाणां तु यथैषायादृग्वा तन्मयीह न सत् ॥५७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो०नि०उ०अ०वि० श० परमोपदेशो नाम पञ्चाशदधिकशततमः सर्गः ॥१५०॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP