संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १९४

निर्वाणप्रकरणं - सर्गः १९४

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
सर्वात्मसर्वभावेषु येन येन यदा यदा ।
यथा भाति स्वयंबोधस्तथानुभवति स्वयम् ॥१॥
स्वभाव एव तिष्ठन्ति सर्गाः संमिलिता अपि ।
अत्रापि स्वीकृता एव नानारत्नांशवो यथा ॥२॥
अत्र दृष्टमदृष्टं च मिथो विशति गच्छति ।
जगद्रश्मिघनं रत्नं नानारत्नघनं यथा ॥३॥
दीपानामिव सर्गाणां बहूनां ज्वलतां परम् ।
केषांचिदस्त्यनुभवो मिथः केषांचिदेव नो ॥४॥
अप्स्वप्स्विव रसोऽम्भोधावावर्तरमणावनौ ।
सर्गेऽस्ति प्रत्यणुं तस्मिन्नापि सर्गास्तथा क्रमः ॥५॥
सर्वत्र सर्वतो नित्यं चिद्धनस्याम्बुवेदनम् ।
संख्यातुं केन शक्यन्ते सर्गाधारपरम्पराः ॥६॥
यथावयविता भिन्ना नैवावयविनः क्वचित् ।
शब्दभेदादृते भिन्ना न तथा सर्गता परे ॥७॥
एकस्यानन्तरूपस्य कारणाभावतः स्वयम् ।
नोदेति न च यात्यस्तं जगदादिः स्वभावतः ॥८॥
तपन्ती ज्ञप्तिरेवेयमखण्डज्ञेयतामिमाम् ।
करोत्यकर्तृरूपैव समालोकमिवार्कभाः ॥९॥
वैतृष्ण्यात्सर्वभावानां समाप्त्यैवाक्षयं स्वयम् ।
संपद्यते समाधानं यत्तन्निर्वाणमुच्यते ॥१०॥
न बुद्ध्या बुद्ध्यते बोधो बोधाबुद्धेर्न बोध्यते ।
न बुद्ध्यते वा तेनापि बोध्यो बोधः कथं भवेत् ॥११॥
प्रबुद्ध एव सुप्ताभः स्वयंबोधो विबुध्यते ।
देशकालाद्यभावेऽपि मध्याह्नेऽर्कातपो यथा ॥१२॥
सर्वकर्मवितृष्णानां शान्तेच्छानां प्रबोधतः ।
सतामनिच्छतामेव निर्वाणं संप्रवर्तते ॥१३॥
प्रबुद्धबोधो ध्यानस्थः स्वभावे केवले स्थितः ।
न किंचिदपि गृह्णाति न किंचिदपि चोज्झति ॥१४॥
यो यथास्थित एवास्ते पश्यन्दीप इवाक्रियः ।
अमनोमानमननो मनोमननवानपि ॥१५॥
व्युत्थाने विश्वरूपाख्यमन्यत्र ब्रह्मसंज्ञितम् ।
सर्गासर्गात्म चिन्मात्रं सत्यं सर्वत्र भासते ॥१६॥
अभिन्नबोधसद्रूपस्वरूपानुभवे स्थितः ।
व्युत्थितः सन्निरुद्धश्च यः पश्यति स शाम्यति ॥१७॥
जगत्पदार्थसार्थानां बोधमात्रैकनिष्ठताम् ।
विना नास्त्यपरा सत्ता व्योम्नः शून्येतरा यथा ॥१८॥
शिष्यते स्फीतबोधानां केवलानन्तबोधता ।
सापि स्वपरिणामेन परेणायात्यवाच्यताम् ॥१९॥
तद्विश्रान्तौ परा सत्ता शिष्यते वा न शिष्यते ।
या काप्यत्यन्तशान्तानां न वाग्गोचरमेति सा ॥२०॥
या समस्य पराकाष्ठा सैव बोधस्य सन्मयी ।
सर्गस्तन्मय एवातः सकलं शान्तमव्ययम् ॥२१॥
निर्वाणाय वितृष्णाय स्वच्छशीतलसंविदे ।
स्पृहयन्ति सदा सत्तां ब्रह्मविष्णुहरा अपि ॥२२॥
सर्वार्थात्मैव सर्वत्र सर्वदा सर्वथोदितम् ।
चेतनं शुद्धमेवास्ति नाशो नास्योपपद्यते ॥२३॥
अत्यन्ततप्तः संसारो निर्वाणमतिशीतलम् ।
अतिशीतलमेवास्ति तप्तस्त्वेव न विद्यते ॥२४॥
संचेतन्ति शिलान्तस्था यथालं शालभञ्जिकाः ।
अनुत्कीर्णास्तथा ब्रह्म चेततीदमखण्डितम् ॥२५॥
यथा चेतति सौम्याम्बुकोशस्थं वीचिमण्डलम् ।
तथा चेतति कोशस्य महाचिच्चेत्यमव्ययम् ॥२६॥
अविभक्तो विभागस्थैरिव शान्तैरनन्तकैः ।
परमार्थाम्बराभोगैस्त्वबोधात्मत्वमन्थरैः ॥२७॥
यैर्यैर्यथास्व आत्मान्तर्भावितश्चेतितश्चिरम् ।
भोगमोक्षप्रभेदेषु तेषां तेषां तथोदितः ॥२८॥
मृते वाप्यमृते बन्धौ स्वप्ने स्वप्नविबोधिनः ।
न यथोदेति सत्याख्या तथा दृश्येषु तद्विदः ॥२९॥
यदिदं किल दृश्यादि तच्छान्तमखिलं शिवम् ।
भावितेऽवगतेऽष्यन्तीरति भ्रान्तेः क उद्भवः ॥३०॥
सर्वथा देहसंख्येषु वैतृष्ण्यमुपजायते ।
सम्यग्बोधे सति स्वप्न इवापि स्वार्थकादिषु ॥३१॥
वैतृष्णावृधेते बोधो वोधाद्वैतृष्ण्यवर्धनम् ।
परस्परेण प्रकटे एते कुड्यप्रकाशवत् ॥३२॥
येन बोधेन वैतृष्ण्यं धनदारसुतादि वा ।
स्वनूनमपि संपन्नं जाड्यं तत्संस्थितं तथा ॥३३॥
एतावदेव बोधस्य बोधत्वं यद्वितृष्णता ।
पाण्डित्यं नाम तन्मौर्ख्य यत्र नास्ति वितृष्णता ॥३४॥
न तु वैतृष्ण्यवोधाढ्यौ न परस्परवर्धितौ ।
असत्यावेव तौ नाम नष्टौ चित्रहुताशवत् ॥३५॥
परमा बोधवैतृष्ण्यसंपत्तिर्मोक्ष उच्यते ।
तत्रानन्ते पदे शान्ते वसता च नशोच्यते ॥३६॥
गतं गम्यं कृतं कायं दृष्टं दृश्यमशेषतः ।
यावत्सर्वे शिवं शान्तमेकमाद्यमनामयम् ॥३७॥
आत्मारामस्य शान्तस्य वैतृष्ण्यस्यानहकृतेः ।
असंकल्पैव भवति स्थितिः स्वस्येव निर्मला ॥३८॥
सहस्रेभ्यः सहस्रेभ्यः कश्चिदुत्थाय वीर्यवान् ।
भिनत्ति वासनाजालं पञ्जरं केसरी यथा ॥३९॥
प्राप्तज्योतिर्बोधशुद्धिः परमन्तःप्रकाशवान् ।
नीहारः शरदीवाशु स्वयमेवोपशाम्यति ॥४०॥
ज्ञातज्ञेयस्त्वसंकल्पः संकल्पातिशयाशयः ।
अवासनो व्यवहृतौ वातवत्स्पन्दते न वा ॥४१॥
आसीद्धीरान्मनस्कारैर्भ्रान्तिमात्रैकनिश्चयात् ।
यः सर्वत्र खवद्भावस्तदवासनमासितम् ॥४२॥
निर्वासने भाव उदारसत्त्वे
ब्रह्माखिलं दृश्यमिति प्रबुद्धे ।
स्थिरैकनिर्वाणमतावनन्तो
मोक्षाभिधानः प्रशमोऽभ्युदेति ॥४३॥

इत्यार्षे श्रीवत्सिष्ठमहारामायणे वाल्मी० दे० मो० निर्वा- उ० रामविश्रानयुपगमो नाम चतुर्नवत्यधिकशततमः सर्गः ॥१९४॥

N/A

References : N/A
Last Updated : October 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP